वान्यस्मिन् सपिण्डे स्थविरतरे जीवति

4-1-165 वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपत्यं पौत्रप्रभृति युवा

Sampurna sutra

Up

भ्रातरि अन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेः अपत्यम् जीवति (एव) युवा वा ।

Neelesh Sanskrit Brief

Up

यदि भ्रातरं विहाय अन्यः कोऽपि सपिण्डः ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रप्रभृतेः जीवितम् यद् अपत्यम् तस्य विकल्पेन युवासंज्ञा भवति ।

Kashika

Up

सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते। येषाम् <<उभयत्र दशाहानि कुलस्यान्नं न भुज्यते>> (द्र० — मनु० ५.६१) इत्येवमादिकायां क्रियायामनधिकारः। भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा भवति। प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु संज्ञिनः। तरब्निर्देश उभयोत्कर्षार्थः। स्थानेन वयसा चोत्कृष्टे सपिण्डे यथा स्यात्, पितृव्ये पितामहे भ्रातरि च वयसाधिके जीवति, गर्गस्यापत्यं गार्ग्यायणो गार्ग्यो वा। वात्स्यायनो वात्स्यो वा। दाक्षायणो दाक्षिर्वा। स्थविरतर इति किम् ? स्थानवयोन्यूने गार्ग्य एव भवति। जीवतीति किम्? मृते मृतो वा गार्ग्य एव भवति॥

Siddhanta Kaumudi

Up

भ्रातुरन्यस्मिन्सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यात् । एकं जीवतिग्रहणमपत्यस्य विशेषणम्, द्वितीयं सपिण्डस्य । तरब्निर्देश उभयोरुत्कर्षार्थः । स्थानेन वयसा चोत्कृष्टे पितृव्ये मातामहे भ्रातरि वा जीवति । गार्यस्यापत्यं गार्यायणः-गार्यो वा । स्थविर इति किम् ? स्थानवयोन्यूने गार्ग्य एव । जीवतीति किम् ? मृते मृतो वा गार्ग्य एव ।<!वृद्धस्य च पूजायामिति वाच्यम् !> (वार्तिकम्) ॥ गोत्रस्यैव वृद्धसंज्ञा प्राचाम् । गोत्रस्य युवसंज्ञा पूजायां गम्यमानायाम् । तत्र भवान्गार्ग्यायणः । पूजा- इति किम् । गार्ग्यः ॥<!यूनश्च कुत्सायां गोत्रसंज्ञेति वाच्यम् !> (वार्तिकम्) ॥ गार्ग्यो जाल्मः । कुत्सिते किम् । गार्ग्यायणः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अस्य सूत्रस्य अर्थः किञ्चित् क्लिष्टः अस्ति, अतः क्रमेण पश्यामः - 1. पौत्रादीनां यद् अपत्यम्, तस्य <<अपत्यं पौत्रप्रभृतिः गोत्रम्>> 4.1.162 इत्यनेन गोत्रसंज्ञायां प्राप्तायाम्, अनेन सूत्रेण तां बाधित्वा विकल्पेन 'युवा'संज्ञाविधानं क्रियते । 2. अत्र कस्य 'युवा'संज्ञाविधानम् क्रियते? 'पौत्रप्रभृतेः अपत्यम् जीवति सति तस्य युवासंज्ञा भवति' । इत्युक्ते, पौत्रप्रभृतेः यद् अपत्यम्, तत् जीवितमस्ति चेदेव तस्य अनेन सूत्रेण युवासंज्ञा भवितुम् शक्यते, न अन्यथा । (अत्र एतत् स्मर्तव्यम् यत् <<जीवति तु वंश्ये युवा>> 4.1.163 तथा <<भ्रातरि च ज्यायसि>> 4.1.164 एतयोः दत्ता युवासंज्ञा मृतस्य अपि भवितुमर्हति । परन्तु वर्तमानसूत्रेण पाठिता युवासंज्ञा केवलं जीवितस्यैव भवति ।) 3. जीवितस्य विधीयमाना इयम् युवासंज्ञा कदा भवति? अस्य उत्तरम् 'सपिण्डे स्थविरतरे जीवति सति' इति उच्यते । 'सपिण्ड' इत्युक्ते सप्तमपुरुषं यावत् पितराः । 'स्थविरतरः' इत्युक्ते ज्येष्ठः । अतः सप्तमपुरुषं यावत्सु पितरेषु कोऽपि स्थानेन वयसा वा ज्येष्ठः जीवितः अस्ति, तर्हि पौत्रादीनाम् यत् जीवितमपत्यम्, तस्य विकल्पेन युवासंज्ञा विधीयते । 4. अस्मिन् सूत्रे अन्यः अपि एकः विशेषः उच्यते - 'भ्रातरि अन्यस्मिन् । इत्युक्ते, भ्रातरं विहाय यदि कोऽपि ज्येष्ठः सपिण्डः जीवितः अस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः कर्तव्यः । अतः सम्पूर्णसूत्रस्य अर्थः एतादृशः जायते - पौत्रादीनाम् यद् अपत्यम् ; तस्य भ्रातरं विहाय अन्यः स्थविरतरः सपिण्डः जीवितः अस्ति चेत् ; तद् अपत्यम् स्वयमपि जीवितः अस्ति चेत् च ; तस्य गोत्रसंज्ञां बाधित्वा विकल्पेन युवासंज्ञा भवति । उदाहरणम् - महाभारते विद्यमानस्य शन्तनोः वंशं पश्यामः । अस्मिन् वंशे अर्जुनस्य प्रपौत्रः जनमेजयः अस्ति । अतः <<अपत्यं पौत्रप्रभृतिः गोत्रम्>> 4.1.162 इत्यनेन जनमेजयः अर्जुनस्य 'गोत्रापत्यम्' अस्तीति वक्तुं शक्यते । परन्तु यदि अस्मिन्नेव वंशे विद्यमानः धृतराष्ट्रः जीवितः अस्ति, तर्हि अयम् धृतराष्ट्रः जनमेजयस्य 'जीवितः स्थविरतरः सपिण्डः' जायते, अतः जनमेजयः स्वयं जीवितः अस्ति चेत् सः विकल्पेन अर्जुनस्य 'युवापत्यम्' भवति । अत्र 'अर्जुनः जीवितः अस्ति उत नास्ति' इति चिन्तनम् न आवश्यकम् - इति स्मर्तव्यम् । 'कश्चन' स्थविरतरः सपिण्डः जीवितः भवेत्, तथा यस्य युवापत्यसंज्ञा भविष्यति सः स्वयं जीवितः भवेत् इत्येव आवश्यकम् । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'जीवति' शब्दस्य प्रयोगः द्विवारं कृतः अस्ति । प्रथमः 'जीवति' शब्दः सूत्रे साक्षात् विद्यते । अस्य 'जीवति'शब्दस्य अन्वयः 'सपिण्डे' इत्यनेन सह भवति । द्वितीयः 'जीवति'शब्दः <<जीवति तु वंश्ये युवा>> 4.1.163 इत्यस्मात् अनुवर्तते । अस्य अन्वयः 'अपत्यम्' इत्यनेन सह क्रियते । 2. अनेन सूत्रेण 'युवा'संज्ञा विकल्पेनैव विधीयते । इयं युवासंज्ञा भवति चेत् 'गोत्र'संज्ञा बाधित्वा भवति । तथा च, युवासंज्ञायाः अभावे गोत्रसंज्ञा पुनः विधीयते । 3. यदि जीवितः सपिण्डः वयसा स्थानेन वा कनिष्ठः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा, यदि गर्गस्य प्रपौत्रः कश्चन देवदत्तः अस्तीति चिन्तयामः । इदानीं यदि देवदत्तः स्वयं जीवितः अस्ति, तथा, देवदत्तस्य सपिण्डेषु केवलं तस्य पितृव्यः जीवितः अस्ति, परन्तु एषः पितृव्यः वयसा देवदत्तात् कनिष्ठः अस्ति, तर्हि देवदत्तः गर्गस्य गोत्रापत्यमेव भवति, युवापत्यम् न ।

Balamanorama

Up

<<वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति (वृद्धस्य च पूजायाम्) (यूनश्च कुत्सायाम्)>> - वाऽन्यस्मिन् । शेषपूरणेन सूत्रं व्याचष्टे — पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति । सपिण्डास्तु-स्वयम्, पिता, पितामहः, प्रपितामहः, तस्य पितृपितामहप्रपितामहाश्चेति सप्त पुरुषाः । एवं मातृसंषेऽपीत्यादि धर्मशास्त्रेषु प्रसिद्धम् । स्थविरतरः — अतिवृद्धः । जीवतीति सप्तम्यन्तमनुवृत्तं सपिण्डे इति सप्तम्यन्तेऽन्वेति । अत्रत्यं तु जीवतिपदं तिङन्तमपत्येऽन्वेति, यदपत्यं जीवति तद्युवसंज्ञकमिति । ततश्च भ्रातुरन्यस्मिन्वृद्धतमे सपिण्डे जीवति सति पौत्रप्रभृतेरपत्यं जीवदेव युवसंज्ञं वा स्यादिति फलितम् । एकमिति । अत्रत्यमित्यर्थः । द्वितीयमिति । अनुवर्तमानमित्यर्थः । उभयोरिति । हेतुत्वसंबन्धे षष्ठी । उभयहेतुकोत्कर्षवाचकस्तरवित्यर्थः । तदेव विवृणोति-स्थानेन वयसा चेति । स्थानतः उत्कृष्टः-पितृव्यः, तस्य पितृस्थानीयत्वात् । वयसा उत्कृष्टो-मातामहः । भार्तरीति संनिहितत्वान्मातामहभ्रातरीत्यर्थ इति केचित् । पितृव्यपुत्र इत्यन्ये । जीवतीति किमिति । जीवतिद्वयस्य किं प्रयोजनमिति प्रश्नः । मृते मृतो वा गाग्र्य एवेति । मृते सपिण्डे चतुर्थौ गाग्र्य एव, मृतश्च चतुर्थो गाग्र्य एवेत्यर्थः ।वृद्धस्य चेति । वार्तिकमिदम् । तत्र वृद्धपदं विवृणोति-गोत्रस्यैव वृद्धसंज्ञा प्राचामिति । गोत्रमेववृद्ध॑मिति प्राचीनाचार्या व्यवहरन्तीत्यर्थः । तथा च वार्तिकस्य फलितमर्थमाह — गोत्रस्य युवसंज्ञा पूजायां गम्यमानायामिति । उदाहरति — तत्रभवान्गाग्र्यायण इति ।तत्रभवा॑निति पूज्यवाची, युवसंज्ञकानामल्पवयस्कत्वेन वृद्धाधीनत्वेन सुखितया च पूजा । ता गोत्रप्रभृतिस्तृतीयोऽपि मन्यते ।अत्र युवसंज्ञाविधिसामर्थ्यात्स्वार्थे युवप्रत्ययो बोध्यः । गाग्र्यो जाल्म इति । वृद्धाननादृत्य स्वातन्त्र्यं भजते तद्विषयमिदम् ।

Padamanjari

Up

सप्तमपुरुषावधय इति । आत्मनः प्रभृति पित्रादिषु पुत्रादिषु वा गण्यमानेषु सप्तमपुरुषोऽवधिर्येषां ते तथोक्ताः । प्रायेण तु पूरणप्रत्ययो न पठ।ल्ते, सप्तपुरुषावधय इत्येव पठ।ल्ते, न तत्र समीचीनमर्थं पश्यामः । समानः पिण्डो येषामिति सपिण्डाः, निपातनात्सभावः । स्मर्यन्त इति । तद्यथा -'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते' इति । सप्तमेऽतीते विनिवर्तत इत्यर्थः । उभयत्रेति । जनेन मरणे चेत्यर्थः । एवमादिकायां क्रियायामिति । आदिशब्देन'दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इत्यादिका क्रिया गृह्यते । जीवदेवेति । वस्तुव्याख्यानमेतत् । सूत्रे तु जीवतीत्याख्यातपदम्, तच्चेदपत्यं जीवतीति, प्रथमार्थे वा शत्रन्तात्सप्तमी व्याख्येया । तरब्निर्देश इत्यादि । असति तस्मिन्स्थविरशब्दाद्वयः प्रकर्षमात्रं गम्येत, तरपा तु स्थानप्रकर्षो द्योत्यते, ततस्तदु पादानसामर्थ्यात्, यथा गोतरः, अश्वतर इत्यादावप्रवृत्तिनिमितभूतस्यापि वाहदोहादेः प्रकृत्यर्थसम्बन्धिनः प्रकर्षेतरब् भवति, तथात्रापि । स्थानमुपदम्, पितृत्वादिकम् । स्थानवयोन्यूने इति । स्थानेन वयसा च न्यूने इत्यर्थः । ननु च ज्यायसीत्यनुवृतेरेवोभयोः प्रकर्षो लभ्यते,'प्रशस्यस्य श्रः' ,'ज्य च' ,'वृद्धस्य च' इत्युभयोर्ज्यादेशविधानात् ? तन्न; नहि सकृत्प्रयुक्तः शब्दोऽनेकार्थमभिधातुं समर्तः । एवमपि तरब्निर्देशो न कर्तव्यः, ज्यायसीत्यनुवृतेरेव स्थानप्रकर्षलाभात् ? एतदपि नास्ति; स्थविर इति विशेषणान्तरोपादाने सति ज्यायसीत्यस्यनुवृतेरेव दुर्ज्ञानत्वात् । जीवतीति किमिति । श्रुतं प्रकृतं चोभयमधिकृत्य प्रश्नः । अत एवोभयोः प्रयोजनं दर्शयति - मृते मृतो वेति । तत्र मृत इति स्वपितरि, मृतो वेति पौत्रप्रभृतेरपत्यभूतोऽर्तः ॥