एको गोत्रे

4-1-93 एकः गोत्रे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

index: 4.1.93 sutra: एको गोत्रे


गोत्रे एकः प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 4.1.93 sutra: एको गोत्रे


गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवति ।

Kashika

Up

index: 4.1.93 sutra: एको गोत्रे


अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162। तस्मन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते। अपतनादपत्यम्। योऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रोऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव। गर्गस्य अपत्यं गार्गिः। गार्गेरपत्यं गार्ग्यः। तत्पुत्रोऽपि गार्ग्यः। सर्वस्मिन् व्यवहितजनितेऽपि गोत्रापत्ये गर्गशब्दाद् यञेव भवतीति प्रत्ययो नियम्यते। अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययमुत्पादयतीति प्रकृतिर्नियम्यते। गार्ग्यः। नाडायनः।

Siddhanta Kaumudi

Up

index: 4.1.93 sutra: एको गोत्रे


गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यं औपगवः । गार्ग्यः । नाडायनः ॥ गोत्रे स्वैकोनसंख्यानां प्रत्ययानां परम्परा । यद्वा स्वद्व्यूनसंख्येभ्योऽनिष्टोत्पत्तिः प्रसज्यते ॥ 1 ॥ अपत्यं पितुरेव स्यात्ततः प्राचामपीति च । मतभेदेन तद्धान्यै सूत्रमेतत्तथोत्तरम् ॥ 2 ॥पितुरेवापत्यमिति पक्षे हि उपगोस्तृतीये वाच्ये औपगवादिञ् स्यात् । चतुर्थे त्वाजीवज्ज्येष्ठे मृतवंश्ये औपगवेः फक् । इत्थं फगिञोः परम्परायां मूलाच्छततमे गोत्रे एकोनशतं प्रत्ययाः स्युः । पितामहादीनामपीति मुख्यपक्षे तु तृतीये वाच्ये उपगोरणा इष्टे सिद्धेऽपि अण्णन्तादिञपि स्यात्, चतुर्थे फक् इति फगिञोः परम्परायां शततमे गोत्रेऽष्टनवतिरनिष्टप्रत्ययाः स्युः । अतो नियमार्थमिदं सूत्रम् । एवमुत्तरसूत्रेऽप्यूह्यमम् ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.93 sutra: एको गोत्रे


गोत्रे एक एवापत्यप्रत्ययः स्यात्। उपगोर्गोत्रापत्यमौपगवः॥

Neelesh Sanskrit Detailed

Up

index: 4.1.93 sutra: एको गोत्रे


'गोत्र' इति अपत्याधिकारविशिष्टा संज्ञा । अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन पौत्रप्रभृतीनां 'गोत्र'संज्ञा भवति । यथा - दशरथस्य गोत्रापत्यम् लवः, पाण्डोः गोत्रापत्यम् परीक्षितः - आदयः । एतादृशस्य गोत्रापत्यस्य निर्देशं कर्तुमपत्यविशिष्टप्रत्ययविधानम् करणीयमस्ति चेत् प्रत्यययोजनं कथं करणीयमस्मिन् विषये द्वौ नियमौ अनेन सूत्रेण उच्येते । उदाहरणम् एकं पश्यामश्चेत् स्पष्टं भवेत् -

गर्गः इति कश्चन अस्तीति चिन्तयामः । तस्य अनन्तरापत्यस्य निर्देशं कर्तुम् अत इञ् 4.1.95 इत्यनेन गर्ग-शब्दात् इञ्-प्रत्ययं कृत्वा 'गार्गि' इति प्रातिपदिकं सिद्ध्यति । गर्गस्य अपत्यं गार्गिः । इदानीम्, 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' अस्मिन् अर्थे प्रत्ययविधानम् इष्यते चेत् एकः प्रश्नः जायते - अयं प्रत्ययः 'गार्गि' शब्दात् कर्तव्यः उत 'गर्ग'शब्दात्? अस्य प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते । वर्तमानसूत्रेण एतत् उच्यते, यत् गोत्रापत्यस्य निर्देशार्थम् एकः एव प्रत्ययः भवेत्, न हि प्रत्ययद्वयं प्रत्ययत्रयं वा । इदानीम्, यदि 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' इत्यस्य निर्देशार्थम् 'गार्गि' शब्दात् प्रत्ययः क्रियते, तर्हि निर्मिते तद्धितान्तशब्दे द्वौ प्रत्ययौ भवेताम्, यतः 'गार्गि'शब्दे स्वयमेव एकः प्रत्ययः अस्ति। परन्तु वर्तमानसूत्रेण एतत् निषिध्यते, अतः 'गर्गस्य गोत्रापत्यम् = गार्गेः अनन्तरापत्यम्' इत्यत्र 'गर्ग' शब्दादेव प्रत्ययः कर्तव्यः इति वर्तमानसूत्रेण स्पष्टीभवति । यथा - गर्गस्य गोत्रापत्यम् गार्ग्यः । अत्र 'गर्ग'शब्दात् गर्गादिभ्यः यञ् 4.1.105 इत्यनेन यञ्-प्रत्ययः विधीयते ।

अतः वर्तमानसूत्रेण उक्तः प्रथमः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति । 'गर्ग'शब्दात् प्रत्ययः भवेत् उत 'गार्गि'शब्दात्, इति संशये प्राप्ते अत्र 'प्रकृतेः स्वरूपं' नियम्यते ।

इदानीमनेन सूत्रेण उक्तं द्वितीयं नियमं पश्यामः । गर्गस्य पौत्रस्य ये पुत्रपौत्रादयः (इत्युक्ते - 'गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः' एते सर्वे) तेऽपि अपत्यं पौत्रप्रभृति गोत्रम् 4.1.162 इत्यनेन गर्गस्य गोत्रापत्यानि एव । तर्हि एतेषाम् सर्वेषामपत्यवाचिप्रत्ययेन निर्देशः कथं कर्तव्यः - इति प्रश्नः जायते । यथा , गर्गात् यः पञ्चमः, सः 'गर्गस्य प्रप्रपौत्रः', तस्य च निर्देशार्थम् गर्गशब्दात् गर्गादिभ्यः यञ् 4.1.105 इत्यनेन 'यञ्' प्रत्ययः 'चतुर्वारं' भवेत् वा - इति संशयः उद्भवति । अस्यैव प्रश्नस्य उत्तरम् वर्तमानसूत्रेण दीयते - 'गोत्रापत्यस्य निर्देशार्थम् 'एकः' एव प्रत्ययः भवति' । अतः गर्गशब्दात् गर्गादिभ्यः यञ् 4.1.105 इत्यनेन यञ्-प्रत्ययं कृत्वा 'गार्ग्य' इति यत् प्रातिपदिकं सिद्ध्यति, तेनैव 'गर्गस्य प्रपौत्रः / गर्गस्य प्रप्रपौत्रः / गर्गस्य प्रप्रप्रपौत्रः' एतेषां सर्वेषाम् निर्देशः भवति - इति अनेन स्पष्टीभवति ।

अतः वर्तमानसूत्रेण उक्तः द्वितीयः नियमः अयम् - गोत्रापत्यस्य निर्देशार्थम् प्रथमप्रकृतेः 'एकः' एव प्रत्ययः भवति । 'गर्गस्य प्रप्रप्रप्रप्रौत्र' इत्यस्य निर्देशे कति प्रत्ययाः भवेयुः इति संशये जाते अत्र 'प्रत्ययस्य स्वरूपं' नियम्यते ।

अनेन प्रकारेण वर्तमानसूत्रेण प्रकृतेः तथा प्रत्ययस्य - द्वयोः अपि स्वरूपम् नियम्यते । गोत्रसंज्ञकस्य निर्देशार्थम् प्रथमप्रकृतेः एव प्रत्ययः भवति, तथा एकः एव प्रत्ययः भवति, इति अस्य सूत्रस्य आशयः ।

Balamanorama

Up

index: 4.1.93 sutra: एको गोत्रे


एको गोत्रे - एको गोत्रे । संख्याविशेषोपादाने तदितरसङ्ख्याव्यवच्छेदस्य स्वभावसिद्धत्वादेक एवेति गम्यते । अपत्याधिकारात्प्रत्ययाधिकाराच्चापत्यप्रत्यय इति तद्विशेष्यलाभः । तदाह — गोत्रे एक एवापत्यप्रत्ययः स्यादिति । औपगव इति । उपगोर्गोत्रापत्येतस्यापत्य॑मित्यण् । गाग्र्य इति । गर्गस्य गोत्रापत्ये 'गर्गादिभ्य' इति यञ् । नाडायन इति । नडस्य गोत्रापत्ये 'नडादिभ्यः' इति फक् ।गोत्र एक एव प्रत्ययः स्या॑दित्येबोक्तौ त्वनन्तरापत्यप्रत्ययान्तादौपगवशब्दादिञ्प्रत्ययो न निवार्येत । नियमस्य सजातीयविषयतया गोत्रप्रत्ययान्तादेव गोत्रप्रत्ययो वार्येत । अतोऽपत्यग्रहणमित्याहुः । नन्वेकस्मिन्गोत्रे युगपदनेकप्रत्ययाऽप्रसक्तेव्र्यर्थमिदं सूत्रमिति चेत्, मैवम्-अपत्यशब्दो हि पुत्र एव रूढ इत्येक पक्षः । पुत्रादिसाधारण इत्यन्यः पक्ष इति प्रकृतसूत्रभाष्ये स्थितम् । तदेतत्अपत्यं पौत्रप्रभृती॑ति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । तत्र प्रथमपक्षे उपगोः पौत्रे अपत्यप्रत्ययेन बुबोधयिषिते सति तस्य उपगुपुत्रापत्यस्य उपगुं प्रत्यपत्यत्वाऽभावात्तस्यापत्य॑मित्यण्न सम्भवति । ततश्च उपगुपुत्रे वाच्येतस्यापत्य॑मित्यणा औपगवशब्दे व्युत्पादिते सति, औपगवस्यापत्ये वस्तुतः उपगोस्तृतीया गोत्रे विवक्षिते औपगवशब्दात्अत इ॑ञिति इञि औपगविरित्यनेनैव उपगोस्तृतीयो बोधनीयः स्यात् । एवञ्च उपगोस्तृतीये विवक्षिते उपगोरण् औपगवादिञिति प्रकृतिद्वयात्प्रत्ययद्वयमनिष्टं स्यात् । तत्र यद्यपि उपगोरणिष्टः, तथापि उपगोस्तृतीये विवक्षिते अनिष्टमिञ्प्रत्ययमण्प्रत्ययो घटयतीति सोऽप्यनिष्ट एव । तथाच तत्रानिष्टप्रत्ययद्वयनिवृत्तये एको गोत्रे अपत्यप्रत्ययः स्यादित्यनपत्येऽपि उपगोस्तृतीये अपत्यप्रत्ययो विधीयते । सच वस्तुतोऽणेव, न त्विञ्, अदन्तत्वाऽभावात् । विहिते च तस्मिन्नौपगवादिञपि निवर्तते, गोत्रे बुबोधयिषिते एकस्यैवापत्यप्रत्ययस्य विधेः । अतः प्रत्ययद्वमाला निवर्तते । एवमुपगोश्चतुर्थे विविक्षिते तस्य उपगुं तत्पुत्रं च प्रत्ययपत्यत्वाऽभावात् पौत्रं प्रत्येवापत्यत्वादौपगविशब्दात्यञिञोश्चेति फकि प्रकृतित्रयादनिष्टा 'औपगवायन' इति प्रत्ययत्रयमाला स्यात् । उपगोः पञ्चमे विवक्षिते तु औपगवायनशब्दादिञिऔपगवायनि॑रित्येवं प्रकृतिचतुष्टयमाला स्यात् । षष्ठे तु औपगवायनिशब्दात्फकि 'औपगवायनायन' इत्येवं प्रकृतिपञ्चकात्पञ्च प्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रकृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । तदेवं फगिञोः परम्परायां मूलप्रतृतेरुपगोः शततमे गोत्रे विवक्षिते एकोनशतात्प्रकृतिभ्यः एकोनशतमनिष्टप्रत्ययाः स्युः । अत्र तृतीयप्रभृति कस्मश्चिद्गोत्रे विवक्षिते उपगुं प्रत्यनपत्येऽपि तस्मिन् 'एको गोत्रे' इत्यणेव भवति, नतु इञादि । यदा त्वपत्यशब्दः पुत्रपौत्रादिसाधारणस्तदा यद्यपि उपगोरनन्तरापत्ये पुत्रे इव पौत्रादिष्वपि विवक्षितेषुतस्यापत्य॑मित्यणि औपगव इतीष्टं सिध्यति । तथापि उपगोरनन्तरापत्ये अणि सति औपगवस्यानन्तरापत्ये उपगोस्तृतीये विवक्षिते द्वितीयस्मादेकः प्रत्ययोनिष्टः प्रसज्येत । एवमुपगोश्चतुर्थे विवक्षिते सिद्धेऽपि उपगोरणि औपगवे, तस्मादिञि औपगविः, तस्मात्फकि औपगवायन इत्येवं प्रत्ययत्रयमपि कदाचित्प्रसज्येत । तत्रापि उपगोर्मूलप्रकृतेरणिष्ट एव । इञ्फकौ तु प्रत्ययावनिष्टौ । तथा उपगोश्चतुर्थे विवक्षिते द्वितीयस्मादेकोऽनिष्टप्रत्ययः, तृतीयस्मादन्य इत्येवं प्रकृतिद्वयादनिष्टौ द्वौ प्रत्ययाविति पर्यवस्यति । एवं पञ्चमे प्रकृतित्रयात्रयः प्रत्ययाः । षष्ठे प्रकृ-तिचतुष्टय#आच्चत्वारः प्रत्यया इत्येवं मूलाच्छततमे गोत्रे अष्टनवतेरष्टनवतिरनिष्टप्रत्ययाः स्युः । तत्र 'एको गोत्रे' इति नियमविधिः — ॒गोत्रे एक एव प्रत्ययः स्या॑दिति । तत्रापि प्रथमातिक्रमे कारणाऽभावान्मूलप्रकृतेर्यः प्रत्ययः प्राप्तुं योग्यः स एवेति फलति । सूत्रे एकशब्दः प्रथमपर्यायः ।एके मुख्यान्यकेवलाः॑ इत्यमरः । मुखे भवो मुख्यः=प्रथमः ।एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा॑ इति कोशान्तरम् । तथाच मूलप्रकृतेरेव गोत्रे विवक्षिते स्वयोग्यप्रत्ययलाभ इति व्याख्यान्तरम् । गोत्रे एकः प्रथम एवशब्दः प्रत्ययत्पादक इति । तदेतत्सर्वं श्लोकद्वयेन संगृह्णाति — गोत्रे स्वैकोनेति । अत्र प्रथमश्लोकान्ते श्रुतं 'प्रसज्यते' इत्येतत्पदं पूर्वार्धे परम्परेत्यनन्तरमपि संबध्यते । तत्र स्वं=गोत्रं मूलपुरुषोपग्वपेक्षया यत्संख्याकं तदपेक्षया एकोनसङ्ख्याकानामनिष्टप्रत्ययानां परम्परैवोक्तरीत्या प्रसज्येत, नतु कदाचिदपि गोत्रे औपगव इत्यणन्तमिष्टं सिध्यतीत्यर्थः ।यद्वेति । स्वं=गोत्रं, तत् मूलपुरुषोपग्वक्षया यत्सङ्ख्याकं तदपेक्षया द्व्यूनसङ्ख्याकप्रकृतिभ्यस्तावतां प्रत्ययानामनिष्टानामुत्पत्तिरुक्तरीत्या प्रसज्यत इत्यर्थः । ननु कथमिदं पक्षद्वयमित्यत आह — अपत्यमित्यादि मतभेदेनेत्यन्तम् ।पुत्र एवापत्य॑मिति पक्षे प्रथमः पक्ष उन्मिषथतीति,पुत्रपौत्रादि साधारणोऽपत्यशब्द॑ इति पक्षे तु द्वितीयः पक्ष उन्मिषतीति भावः । तद्धान्यै इति । तस्य=उक्तप्रकाराभ्यामनिष्टोत्पादनस्य हानिः=निवृत्तिः, तदर्थमिदमित्यर्थः । तथोत्तरमिति ।गोत्राद्यून्यस्त्रिया॑मित्युत्तरसूत्रमपि तथा योज्यमित्यर्थः । तत्रापत्यशब्दः पुत्र एव रूढ इति पक्षे अनिष्टं प्रपञ्चयति — पितुरेवेत्यादिना । औपगवादिञ्स्यादिति ।अत इञ् इत्यनेने॑ति शेषः । औपगवादेव इञ् स्यन्नतूपगोरणित्यर्थः, तृतीयस्य उपगुं प्रत्यपत्यत्वाऽभावादिति भावः । चतुर्थे त्वित्यतः पूर्वम्उपगो॑रिति शेषः । अजीवज्ज्येष्ठे इति । जीवन् ज्येष्ठो यस्येति विग्रहः । जीवति तु ज्येष्ठे चतुर्थस्यभ्रातरि च ज्यायसी॑ति युवसंज्ञया गोत्रत्वं बाध्येतेति भावः । औपगवेः फगिति ।यञिञोश्चेनेने॑ति शेषः । एकोनेति । एकोनशतात्प्रकृतिभ्यः एकोनशतं प्रत्यया अनिष्टाः स्युरित्यर्थः । अथाऽपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे अनिष्टं प्रपञ्चयति — पितामहादीनामपीति । मुख्यपक्षत्वं त्वस्य भाष्ये पूर्वपक्षस्य निराकरणात्अपत्यं पौत्रप्रभृति॑ इति सूत्रस्वरसाच्च बोध्यम् । इष्टे सिद्धेऽपीति । तृतीयादीनामप्यपत्यत्वेन तत्रतस्यापत्य॑मित्यणो निर्बाधत्वादिति भावः । तत इति । इञन्तादित्यर्थः । अष्टनवतेरिति । 'प्रकृतिभ्यः' इति शेषः । अनिष्टप्रत्ययाः स्युरिति ।अष्टनवति॑रिति शेषः । नियमार्थमिति । यद्यप्युपगोस्तृतीयादिषु अपत्यप्रत्ययविध्यर्थत्वमेव प्रथमपक्षे, तथापि गर्गात्तृतीयादिषु विवक्षितेषु गोत्रविहितगर्गादियञा गाग्र्यशब्दस्येष्टस्य सिद्धावपि गर्गादिञि ततः फिञित्येवं प्रत्ययपरम्पराप्तनिष्टा प्राप्नोतीति नियमार्थत्वमपि प्रथमपक्षेऽप्यस्य सूत्रस्येति भावः । एवमुत्तरसूत्रेऽप्यूह्रमिति । तत्प्रकारस्तु उत्तरसूत्रे एव वक्ष्यते ।

Padamanjari

Up

index: 4.1.93 sutra: एको गोत्रे


एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची, अन्यार्थे तावद् - ठेकान्याभ्यां समर्थाभ्याम्ऽ,'प्रजामेका रक्षत्यूर्जमेका' , ठेकान् बन्धुरपरान्निरासुःऽ, ठित्येके मन्यन्तेऽ,'यजुष्येकेषाम्' इति; केचित्वनयोः प्रयोगयोः केचिच्छब्दपर्याय एकशब्द इत्याहुः । ठेकः पार्थो धनुष्मताम्ऽ इति प्रधानार्थे । ठाद्यन्तवदेकस्मिन्ऽ, ठेकहलादौऽ, ठेकहल्मध्येऽ इत्यसहायार्थे । ठेको द्वौ बहवःऽ इति सङ्ख्यार्थे । ठेकेऽल्पप्राणः ।ऽ इति प्रथमार्थे ।'तेनैकदिक्' इति समानार्थे ।'देवदतयज्ञदतावेकधनौ' इति साधारणार्थे । तत्र सङ्ख्यावचनः साधारणवचनः, प्रथमवचनो वा गृह्यते; अर्थान्तराणामसम्भवात् । गोत्रं पारिभाषिकम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात्, अपत्याधिकारे गोत्रग्रहणाच्च । किमर्थमिदमुच्यते, पौत्रप्रभृतावपत्ये विवक्षिते मूलप्रकृतेरुपरवादेरेव प्रत्ययो यथा स्याद्, औपगवादेः प्रत्ययान्तान्मा भूदिति । नैतदस्ति प्रयोजनम्, सन्विधिवदेतद्भविष्यति, तद्यथा - धातोर्विधीयमानः सन् सनन्तान्न भवति, तत् कस्य हेतोः ? आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न च सनि विधीयमाने सनन्तो धातुः सम्भवति, तद्वदिहाप्यपत्यप्रत्यये विधीयमानापत्यप्रत्ययान्ता प्रकृतिः सम्भवतीति ततः प्रत्ययो न भविष्यति ? विषम उपन्यासः; एकः सन् प्रत्ययः, विधायकं च लक्षणमेकमेव तत्र युक्तम्, न तस्मिन्विधीयमाने तदन्ता प्रकृतिः सम्भवतीति । इह पुनः'तस्यापत्यम्' ठत इञ्ऽ'यञिञोश्च' इति बहूनि लक्षणानि, प्रत्ययाश्च बहवः; तत्र कस्मिश्चित्प्रत्यये विधीयमाने प्रत्ययान्तरेण तदन्ता प्रकृतिः सम्भवत्येव, तथा च गुपादीनां सनः सन् भवति - जुगुप्सिषते इति ? किं पुनः स्याद्यद्येतन्नारभ्येत ? उच्यते; इह केचिन्मन्यन्ते - पुत्रशब्दपर्यायोऽपत्यशब्दः; निघण्टुअषु तथा पाठाल्लोके च दृष्टत्वात् । तद्यथा पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित्पृच्छति - कस्य पुत्रोऽयमिति, कस्यापत्यमिति ? स देवदतस्य यज्ञदतस्य वेत्युत्पादयितारं व्यपदिशति, नात्मानम्, ततश्च यथा पितामहं प्रति पुत्त्रो न भवति तथापत्यमिति । उत्पादयितैवैकोऽपत्येन युज्यते, न तु पितामहादयोऽपीति । अन्ये तु - क्रियानिमितकोऽपत्यशब्दः, न पतन्त्यनेनेत्यपत्यमिति औणादिको यत्प्रत्ययः, यस्य च येनापतनं ततस्यापत्यम् । व्यवहितजनितोऽपि पौत्रादिः पितामहादेरपतनहेतुर्भवति, श्रूयते हि -'जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येणर्षैभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृणो यः पुत्री' इति, एतेन पुत्रमुत्पाद्य पितृणामनृणो भवतीति प्रतिपादनात् पुत्रोत्पादितया प्रजया पतृणामुपिकारी दृश्यते । स्मर्यते च - पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । इतिहासेषु च जारत्कारवादिषु महती वार्ता - व्यवहितजनितोऽप्युपकारक इति । सूत्रकारश्च शब्दविदां मूर्द्धाभिषिक्तः सूत्रयति - ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, ततो विज्ञायते क्रियानिमितकोऽप्यपत्यशब्द इति; अन्यथा यथा पौत्रप्रभृतिः पुत्र इत्यनुपपन्नं तादृगेव तत्स्यात् । एवं सति साक्षात्परम्परया वा यस्य य उत्पाद्यः स तं प्रत्यपत्यामिति सर्वेऽपि पितामहादयोऽप्यपत्येन युज्यन्ते, न तूत्पादयितैवेति । तत्राद्ये पक्षे यद्येतन्नारभ्येत, ततस्तत्र तत्रापत्ये ततत्पितृवचनात्स स प्रत्ययः स्यात्, तद्यथा - उपगोरौपगवः, तस्यौपगविः, तस्यौपगवायनः । एवं शततमेऽपत्ये एकोनशतमपत्यप्रत्ययाः - इत्यनिष्ट्ंअ प्राप्नोति, इष्ट्ंअ च न सिद्ध्यति - औपगव इति, तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तूपगोः पञ्चमः पूर्वेषां चतुर्णामपत्यं ततो यदोपगोः प्रत्ययस्तदौपगव इतीष्ट्ंअ तावत्सिद्ध्यति; अनिष्टमपि च प्राप्नोति, तच्चानिष्टमनियतमौपगविः, तत औपगवायनः, तत औपगवायनिरिति । पञ्चमे त्रीण्यनिष्टानि, षष्ठे चत्वारीत्येवं यावतिथमपत्यमभिधित्सितम्, तावन्ति द्व्यूनान्यनिष्टानि प्राप्नुवन्ति, तद्यथा - शततमेऽष्टौ नवतिश्चेति । एवं स्थिते इदमारभ्यते । आरभ्यमाणेऽप्येतस्मिन्यदि प्रथमः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्याद्, नियमार्थं वा ? कथं चेदं विध्यर्थं कथं वा नियमार्थम् ? यदि गोत्रशब्देन पौत्रप्रभृत्यपत्यसमुदाय एकैकमपत्यमभिधीयते ततो विध्यर्थम्, तर्हि तथा नियमार्थः सम्भवति, एकस्मिन्नपत्येऽनेकप्रत्ययप्रसङ्गस्याभावाद् । न तावदेकस्मिन्प्रयोगे एकस्याः प्रकृतेरनेकप्रत्ययप्रसङ्गः; एकेनैवोक्तत्वात्त्स्यार्थस्य । नापि प्रयोगभेदेन नानाप्रकृतिभ्यो नानाप्रत्ययप्रसङ्गः, सर्वदा स्वपितृवचनादेव प्रसङ्गादिति परमप्रकृतेस्तृतीयादावपत्येऽप्राप्तः, एवमौपगवाच्चतुर्थादाविति, ततः किं न विधीयते वचनव्यक्तिभेदात् ? एवं ह्यत्र वचनं व्यज्यते - गोत्र एकः प्रत्ययो भवति, यत एक एव प्रत्ययः कर्तुं शक्यते, तत एव प्रत्ययो भवतीत्यर्थः । एकग्रहणसामर्थ्याच्चायमर्थो लभ्यते । ननु विधीयमानेऽपि प्रत्यये प्रकृतिप्रत्ययावसम्बन्धौ स्याताम् ? वचनसामर्थ्यादपत्यापत्यस्यापत्यत्वोपचारात् प्रत्ययो भविष्यतीत्यदोषः । मुख्येऽपत्ये चरितार्थः प्रत्ययो न स्यादिति विधातव्यमपि, अस्मिन्पक्षे सर्वेष्वौपगव इतीष्ट्ंअ सिद्ध्यति, प्रत्ययमालाप्रसङ्गस्तदवस्थ एव । न ह्यनेन ततत्पितृवचनात्प्राप्तः प्रत्ययः प्रतिषिद्ध्यते । तथा पञ्चमेऽपत्ये उपगुशब्दादनेन प्रत्यये विहिते तस्यापत्यमिति षष्ठ औपगविः स्यात् । यदा तु ठपत्यं पौत्रप्रभृतिगोत्रम्ऽ इत्यपत्यशब्देन पौत्रप्रभृत्यसमुदायं लक्षयित्वा तस्यैव गोत्रसंज्ञा विधीयते, एकैकस्मिन्नपत्ये गोत्रशब्दप्रयोगः, समुदायेषु वृताः शब्दा अवयवेष्वपीति न्यायात् । अत्रत्येन वा गोत्रशब्देनावयवधर्मेण समुदायव्यपदेशात्पौत्रप्रभृत्यपत्यसमुदायोऽभीधीयते तदा नियमार्थम् - गोत्रसमुदाये एक एव प्रत्ययो भवतीति । यद्यप्येकैकस्मिन्नपत्ये एकैकः प्रत्ययः प्राप्नोति, तथापि पौत्र एकस्तदपत्ये चापर इति सकलनिरूपणे समुदाये बहवः प्रत्ययाः कृताः स्युरिति नियम उपपद्यते । अस्मिन्पक्षे दोषः - अनन्तरापत्यप्रत्ययान्तातृतीये प्रत्ययः प्राप्नोति, गोत्रशब्दोपादानेन हि नियमः क्रियते - गोत्र एक एवेति, ततश्च गोत्रेऽनेकः प्रत्ययो मा भूत् । अनन्तर एकस्तृतीये चापर इत्येवमनेकः कस्मान्न स्यात् ? एवमपि गोत्रे एक एव हि कृतो भवति । अथ वा - गोत्रसमुदाये एव एवेत्यनेन किं क्रियते ? तृतीयादेश्चतुर्थादौ प्राप्तः प्रतिषिध्यते । यदि तृतीयादेः स्यात्समुदायेऽनेकः प्रत्ययः कृतः स्यादिति । यस्त्वनन्तरस्तृतीये प्राप्तः सोऽभ्यनुज्ञायते - एक एवेतीतरव्यावृतौ नियमेषु तात्पर्यम् । ततश्च यतः प्रत्यये क्रियमाणे समुदायेऽनेकः प्रत्ययः कृतो भवति । ततो न भवतीत्येव वचनार्थो भवति । एवं चतुथस्यापत्यप्रत्ययेनाभिधानं न प्राप्नोति, द्वितीयादुत्पन्नस्तृतीयमेवाचष्टे न तृतीयादुत्पद्यत इति, किन्तु औपगवेरपत्यमिति वाक्यमेव । पञ्चमादेस्तु वाक्येनाप्यभिधानं न प्राप्नोति, न हि ततत्पितृवचनः कश्चिदपत्यप्रत्ययान्तः शब्दोऽस्ति येन विगृह्यएत । परमवकृतेश्च तृतीयादौ न कुत्रचित्प्रत्ययः प्राप्नोति, ओयोगात् । तदेवमस्मिन्पक्षे परमप्रकृतेश्चोत्पतिर्वक्तव्या, अनन्तराच्च तृतीये प्राप्तस्य प्रतिषेधो वक्तव्यः । स्यादेतत् - न परमप्रकृतेरुत्पत्तिर्वक्तव्या, अभेदोपचारेणैव सिद्धेः । अभेदोपचारश्चोपग्वौपगवयोरौपगवतदपत्ययोर्वा । तदेवं शततमेऽप्यपत्येऽभेदोपचारपरम्परया औपगव इत्यभिधानं सिध्यति, न चैवमभेदोपचारेणैवेष्टस्य सिद्धेः सूत्रस्य वैयर्थ्यम्, भेदविवक्षायां प्रत्ययमालाप्रसङ्गनिवृत्यर्थत्वादिति ? एवमप्यनन्तरस्य तृतोयस्य च भेदविवक्षायां तृतीय औपगविः स्यात्, तथाऽनन्तरे तृतीयादौ च यत्र प्रत्ययो भिद्यते, यथा - गर्गादौ, तत्राप्यनिष्टप्रसङ्गः । यदि तावद् गार्ग्ये गर्गापचारस्तदा तदपत्यमपि गार्गिः स्याद्, गार्ग्यश्चेष्यते । अथापि गर्गेस्तदपत्यस्य चाभेदोपचारः, एवमपि गार्गिः स्यादितीत्यादौ विषये दोषवानेवाभेदोपचारः । तदेवं प्रथमपक्षे विधौ नियमे च दोषप्रसङ्गाद् द्वितीयः पक्ष आश्रीयते, तत्रापि नियमः । यद्यप्येकैकस्मिन्प्रयोगे एकस्याः प्रकृतेरेक एव प्रत्ययः प्राप्नोति, तथाप्युपगोः पञ्चमे पूर्वाभ्यश्चतसृभ्यः प्रकृतिभ्यः प्रयोगभेदेन नानाप्रत्ययप्रसङ्गे नियमः क्रियते - एव एवेति । तदिदमुक्तम् - भेदेन प्रत्ययप्रसङ्गे नियमः क्रियते । ननु न ज्ञायते -क एवो भवतीति, यो वा परमप्रकृतेर्यो वा प्रत्ययान्तादिति ? नन्वेक इत्युच्यते, यदि च प्रत्ययान्तात्प्राप्तः प्रत्ययः स्यादनेकः कृतः स्यात् । क्व ? न तावत्पञ्चमे; पूर्वेषां प्रत्ययानामस्मिन्प्रयोगे प्रसङ्गोऽपत्यान्तरविषयत्वात् । अथ गोत्रसमुदाये केनासौ निवार्येत ? न तावदनेनैव, न हि गोत्रसमुदायो गोत्रग्रहणेन गृह्यते । अथापि गृह्यएत, एवमपि न ज्ञायते - यो वा परमप्रकृतेः, यो वाऽनन्तरादिति ? यदि पुनर्गोत्रग्रहणं न क्रियते, क्रियमाणं वाऽपत्यमात्रपरं विज्ञायते, न स्यादेष दोषः; अपत्ये समुदाये एक एवेति नियमात् । अपत्याधिकारे गोत्रग्रहणात्वेष दोषो जायते ? नैष दोषः; अपत्यमिति वर्तते, गोत्रेऽपत्ये एक एवापत्यप्रत्ययो भवतीति वचनव्यक्तिः । यदि च प्रत्ययान्तात्प्रत्ययः स्यादपत्यप्रत्ययोऽनेको गोत्रे कृतः स्यात्, सामर्थ्येन वा प्रत्ययो विशेष्यते - गोत्राभिधाने समर्थानां मध्ये एक एवेति । यदि च प्रत्ययान्तात् प्रत्ययः स्याद् गोत्राभिदानसमर्थोऽनेकः कृतः स्यात्प्रथमस्यापि समर्थत्वात् । यद्यप्यस्मिन्प्रयोगेऽपत्यान्तरे वर्तते पञ्चमं प्रत्यपि सामर्थ्यं तावदस्ति, यदि वा'तस्यापत्यम्' इत्यादिलक्षणैरेक एव प्रत्ययः कर्तव्यः, क्व ? गोत्रे, यस्मिन्प्रत्यये गोत्रम्भिदित्सितं तत्रेत्यर्थः । प्रत्ययान्ताच्च प्रत्यये तस्मिन्नेव प्रयोगे प्रकृतिरूपसम्पादनायापि तावदनेक कृतः स्यात् । यदि वा प्रथमवचन एकशब्दः, कश्च प्रथमः ? यमकृत्वा प्रत्ययान्तरं कर्तुं न शक्यते । साधारणवचनो वा, अपत्याधिकाराच्च यः सर्वापत्यसाधारणः स एव गोत्रे भवतीति, गर्गशब्दाद्यञेव भवतीति । गर्गशब्दाद्यो यञ् प्राप्तः स एव भवति, न प्रकृत्यन्तरेभ्यः प्राप्ताः प्रत्यया इत्यर्थः, तदाह - प्रत्ययो नियम्यत इति । प्रत्ययान्तरं वार्यत इत्यर्थः । एतेन प्रकृतिर्नियम्यते इत्यपि व्याख्यातम् । अथ वेत्यादि । अस्मिन्पक्षे प्रथमवचन एव शब्द इति दर्शितम् । प्रथमा प्रकृतिरिति । सूत्रे तु शब्दापेक्षया पुंल्लिङ्गनिर्देश इति दर्शितम् । एक एव शब्द इति । अथ वा - अस्मिन्पक्षे साधारणवचन एकशब्दः परमप्रकृतिश्च सर्वप्रत्ययसाधारणी, सङ्ख्यावचनो वा प्रथमातिक्रमे कारणाभावात्परमप्रकृतिरेकशब्देन गृह्यते । अनयोः पक्षयोः प्रथमा प्रकृतिरिति । एकशब्दस्यार्थतो विवरणं द्रष्टव्यम् ॥