1-3-78 शेषात् कर्तरि परस्मैपदम् धातवः कर्तरि
शेषात् कर्तरि परस्मैपदम्
यस्मात् धातोः आत्मनेपदस्य प्रत्ययाः न विहिताः सन्ति, तेभ्यः परस्मैपदस्य प्रत्ययाः भवन्ति ।
The verbs that do not get the प्रत्ययाः of आत्मनेपद will get the प्रत्ययाः of परस्मैपद.
पूर्वेण प्रकरणेनात्मनेपदनियमः कृतः, न परस्मैपदनियमः। तत् सर्वतः प्राप्नोति, तदर्थमिदमुच्यते। येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदमुक्तं ततो यदन्यत् स शेषः। शेषात् कर्तरि परस्मैपदं भवति, शेषादेव नान्यस्मात्। अनुदात्तङित आत्मनेपदमुक्तम् — आस्ते। शेते। ततोऽन्यत्र परस्मैपदं भवति — याति। वाति। नेर्विश आत्मनेपदमुक्तम् — निविशते। ततोऽन्यत्र परस्मैपदम् — आविशति। प्रविशति। कर्तरीति किम्? पच्यते। गम्यते। कर्मकर्तरि कस्मात् परस्मैपदं न भवति — पच्यत ओदनः स्वयमेव? कर्तरि कर्मव्यतिहार इति द्वितीयं कर्तृग्रहणमनुवर्तते। तेन कर्तैव यः कर्ता, तत्र परस्मैपदम्, कर्मकर्तरि न भवति॥
आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥
आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥
<<अनुदात्तङित आत्मनेपदम्>> 1.3.12 इत्यतः <<विभाषोपपदेन प्रतीयमाने>> 1.3.77 इति यावत्सु सूत्रेषु केभ्यः धातुभ्यः कासु कासु अवस्थासु आत्मनेपदस्य प्रत्ययः भवन्ति अस्मिन् विषये उच्यते । एतान् स्थितीन् विहाय अन्येभ्यः सर्वेभ्यः धातुभ्यः कर्तरि प्रयोगे परस्मैपदस्य प्रत्ययाः भवन्ति । ज्ञातव्यम् - <<लः परस्मैपदम्>> 1.4.99 इत्यनेन लकारस्य स्थाने विधीयमानाः आदेशाः 'परस्मैपद' संज्ञां प्राप्नुवन्ति । एतेषु त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति (अतः परस्मैपदसंज्ञा निषिध्यते) । अतः ये अवशिष्टाः - इत्युक्ते 'तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-म्-शतृ-क्वसु' - एतेषाम् एव 'परस्मैपदम्' संज्ञा भवति ।
<<शेषात् कर्तरि परस्मैपदम्>> - शेषात्कर्तरि । 'अनुदात्तङित' इति 'स्वरितञित' इति चोक्तादात्मनेपदविषयादन्यः शेषः । तदाह — आत्मनेपदनिमित्तहीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् । तत्र तिबादिनवके युगपत्पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्तेयुष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॑ 'अस्मद्युत्तमः' 'शेषे प्रथमः' इति व्यवस्थां वक्ष्यन् प्रथमादिसंज्ञां तावदाह — तिङस्त्रीणि त्रीणि ।
आत्मनेपदनियमः कृत इति। प्रकृत्याश्रयोऽर्थाश्रयश्च, अनुदातङितोरेवात्मिनेपदं भावकर्मणोरेवेति। सर्वत इति सर्वाभ्यः प्रकृतिभ्यः सर्वेषु चार्थेष्वित्यर्थः। तदर्थमिति। सर्वतः प्राप्तिनिवृत्यर्थमित्यर्थः। येन विशेषणेनेति। अनुबन्धादिना। याति वातीत्यनुबन्धशेषः, आविशति प्रविशतीत्युपसर्गशेषः, गन्धनादेरन्यत्र करोतीत्यादिरर्थशेषः। गन्धनादिविशिष्टो हि कृञादिः शेषग्रहणेन पञ्चम्यन्तेन निवर्त्यमानो नागृहीतविशेषणन्यायेन विशेषणं गन्धनाद्यपि व्यावर्तयति। शेषादेव नान्यस्मादिति। उपलक्षणमेतत्, कर्तर्येव नान्यत्रेत्यपि द्रष्टव्यम्। पच्यते, गम्यत इति। ननु क्रियमाणेऽपि कर्तरिग्रहणे यदि तावदेवं नियमः- कर्तरि यदि भवति शेषादेवेति; ततोऽशेषात्कर्तरि मा भूत्, शेषातु भावकर्म कर्तृ षु त्रिष्वपि प्राप्नोति। अथाप्येवं नियमः- शेषाद्यदि भवति कर्तर्येवेति, ततः शेषाद्भावकर्मणोर्मा भूद्, अशेषातु त्रिष्वपि प्राप्नोति । उक्तोऽत्र परिहारः-'योगविभागो' त्राभिप्रेतःऽइति। तत्र प्रथमे योगे शेषादेवेति नियमः, द्वितीये तु कर्तर्येवेति। कर्मकर्तरीत्यपि भावकर्मणोरित्यत्रोक्त एवार्थो विस्मरणशीलाननुग्रहीतुं पुनरपि स्मारितः॥