नित्यं हस्ते पाणावुपयमने

1-4-77 नित्यं हस्ते पाणौ उपयमने आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

विवाहस्य सन्दर्भेण "हस्ते" तथा "पाणौ" इति शब्दौ कृ-धातोः योगे नित्यं गतिसंज्ञकौ भवतः । हस्तेकृत्य । पाणौकृत्य ।

Kashika

Up

कृञीति वर्तते। हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमने। उपयमनं दारकर्म। पाणौकृत्य। हस्तेकृत्य। दारकर्म कृत्वेत्यर्थः। उपयमन इति किम्? हस्ते कृत्वा कार्षापणं गतः॥

Siddhanta Kaumudi

Up

कृञि । उपयमनं विवाहः । स्वीकारमात्रमित्यन्ये । हस्तेकृत्य । पाणौकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं अष्टादशं सूत्रम् । हस्ते तथा च पाणौ इति शब्दौ यदा उपयमनम् (= विवाहः / विवाहार्थं स्वीकारः) इत्यस्मिन् अर्थे प्रयुज्येते, तदा एतयोः <<कृ>>-धातोः योगे नित्यं गतिसंज्ञा भवति । गतिसंज्ञायां प्राप्तायाम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन एतयोः शब्दयोः कृदन्तैः सह उपपदसमासः सम्भवति । यथा - पाणौकृत्य / हस्तेकृत्य गच्छति (= विवाहं कृत्वा अथवा विवाहार्थं कन्यां स्वीकृत्य गच्छति इत्याशयः) । यत्र विवाहः इति अर्थः नास्ति, तत्र तु प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - काषार्पणं हस्ते कृत्वा गतः (काषार्पणम् हस्ते संस्थाप्य अगच्छत् इत्याशयः) । अत्र विवाहस्य सन्दर्भः नास्ति अतः अत्र हस्ते-शब्दस्य गतिसंज्ञा न भवति । <hl>हस्ते</hl> तथा <hl>पाणौ</hl> इति शब्दौ प्रकृतसूत्रे प्रयुक्तयोः हस्ते तथा पाणौ इति शब्दयोः विषये वैयाकरणेषु द्वौ पक्षौ स्तः -

  • 1. हस्ते तथा पाणौ एतौ शब्दौ सप्तमीप्रतिरूपकौ निपातौ, तथा च निपातनेन साधु स्वीक्रियेते । इत्युक्ते, हस्ते इति शब्दः हस्त-शब्दस्य सप्तम्येकवचनस्य अर्थे एव एकारान्तः निपातितः स्वीक्रियते, एवमेव पाणौ इति शब्दः पाणि-शब्दस्य सप्तम्येकवचनस्य अर्थे एव औकारान्तः निपातितः मन्यते । अस्मिन् पक्षे हस्ते कृत्वा तथा च पाणौ कृत्वा इत्यत्र गतिसमासम्, तदनुषङ्गेन क्त्वा-प्रत्ययस्य च ल्यबादेशं कृत्वा हस्तेकृत्य, पाणौकृत्य इति शब्दौ सिद्ध्यतः ।
  • 2. हस्ते तथा पाणौ एतौ शब्दौ सप्तम्यन्तौ एव स्वीक्रियेते । अस्मिन् पक्षे हस्ते कृत्वा तथा च पाणौ कृत्वा इत्यत्र गतिसमासे कृते, हस्ते तथा पाणौ एतयोः विहितस्य <<ङि>>-प्रत्ययस्य <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन लुकि प्राप्ते, <<तत्पुरुषे कृति बहुलम्>> 6.3.14 इत्यनेन <<ङि>>-प्रत्ययस्य अलुक् भवति, येन हस्तेकृत्य, पाणौकृत्य इति शब्दौ सिद्ध्यतः । <hl>उपयमनम्</hl> इत्यस्य अर्थः प्रकृतसूत्रे प्रयुक्तस्य उपयमनम् इति शब्दस्य अर्थः विवाहः / विवाहार्थं स्वीकारः इति स्वीक्रियते । काशिकाकारः वदति - उपनयनं दारकर्म । दारकर्म इत्यनेन "भार्याकरणम्" इति अर्थः अत्र विवक्षितः अस्ति । सूत्रे <hl>नित्यम्</hl> इति शब्दस्य ग्रहणम् प्रकृतसूत्रे प्रयुक्तः नित्यम् इति शब्दः विभाषा इति शब्दस्य निवृत्त्यर्थम् स्थापितः अस्ति । <<विभाषा कृञि>> 1.4.72 इत्यस्मात् सूत्रात् पूर्वसूत्रं यावत् द्वे अपि पदे अनुवृत्तिरूपेण स्वीक्रियेते । परन्तु प्रकृतसूत्राद् आरभ्य विभाषा इति पदं त्यक्त्वा केवलम् कृञि इत्येव अनुवर्त्तनीयम् - इति सूचयितुम् अत्र नित्यम् इति शब्दः स्थापितः अस्ति । ##Balamanorama <<नित्यं हस्ते पाणावुपयमने>> - नित्यं हस्ते । शेषपूरणेन सूत्रं व्याचष्टे-कृञीति । हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमन इति यावत् । हस्तेकृत्य, पाणौकृत्येति । कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वं चानयोर्निपात्यते । उपयमने किं । हस्ते कृत्वा सुवर्णं गतः । अन्यदीयमिति बुद्ध्या दातु परावृत्त इत्यर्थः । ##Padamanjari दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ॥