1-4-78 प्राध्वं बन्धने आ कडारात् एका सञ्ज्ञा निपाताः गतिः कृञि
"बन्धनं कृत्वा अनुकूलम्" इत्यस्मिन् अर्थे प्राध्वम् इत्यस्य कृ-धातोः योगे नित्यं गतिसंज्ञा भवति ।
कृञीति वर्तते। प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानुकूल्यं बन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति। प्राध्वंकृत्य। बन्धन इति किम्? प्राध्वं कृत्वा शकटं गतः॥
प्राध्वमित्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ॥
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं नवदशं सूत्रम् ।
<<प्राध्वं बन्धने>> - प्राध्वं बन्धने । प्राध्वमिति न द्वितीयान्तमित्याह — प्राध्वमित्यव्ययमिति । बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वङ्कृत्येति । गतिसमासे क्त्वे ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते । तदाह — बन्धनेनेति । बन्धनग्रहणस्य प्रयोजनमाह — प्रार्थनादिनेति ।
मकारान्तमव्ययमिति। चादिषु पाठात्। आनुकूल्ये वर्तते इति। तेन बन्धने वर्तमानः प्राध्वंशब्दः इत्ययमर्थो न भवति। कथं तर्हि बन्धने इत्यस्यान्वय इत्यत आह - तदिति। बन्धन इति। सत्सप्तम्यर्थद्वारकश्च प्राध्वमित्यनेन सम्बन्धः, बन्धने सति यदानुकूल्यं तद्वन्धनहेतुकमिति भावः। प्राध्वं कृत्वा गत इति। प्रस्थितोऽध्वानं प्राध्वः, ठत्यादयः क्रान्ताद्यर्थेऽ इति समासः, ठुपसर्गादध्वनःऽ इत्यच् लाक्षणिकत्वादेवात्र न भविष्यति; तस्मादव्ययस्यैवायं प्रयोगः, आनुकूल्यं तु बन्धनहेतुकं न विवक्षितमिति व्याचक्षते॥