अनुकरणं चानितिपरम्
1-4-62 अनुकरणं च अनितिपरम् आ कडारात् एका सञ्ज्ञा निपाताः क्रियायोगे गतिः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
यस्मात् परः "इति" शब्दः नास्ति तादृशस्य अनुकरणवाचिशब्दस्य क्रियायोगे गतिसंज्ञा भवति । यथा - खाट्कृत्य ।
Kashika
Up
इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृ॑तम्। यत् खा॑ट्क॒रोति॑। अनितिपरमिति किम्? खाडिति कृत्वा निरष्ठीवत्॥
Siddhanta Kaumudi
Up
खाट्कृत्य । अनितिपरं किम् । खाडिति कृत्वा निरष्ठीवत् ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं तृतीयं सूत्रम् । अनेन सूत्रेण अनुकरणवाचिशब्दस्य विषये क्रियायोगे गतिसंज्ञा विधीयते । यस्मात् अनुकरणवाचिनः शब्दात् अव्यवहितपरः इति अयं शब्दः नास्ति, सः क्रियायाः योगे गतिसंज्ञकः भवति इति अस्य सूत्रस्य आशयः ।
अनुकरणवाची शब्दः इत्युक्ते सः शब्दः यः कस्यचित् ध्वनेः अनुकरणार्थं प्रयुज्यते (A word used to copy a sound). । खाट्, श्रत् इत्यादयः शब्दाः भाषायाम् अनुकरणवाचिशब्दाः नाम्ना ज्ञायन्ते । एते यदा क्रियायाः योगे प्रयुज्यन्ते, तदा एतेषां गतिसंज्ञा भवति ।गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - खाट्कृतम्, खाट्कृत्य । परन्तु अस्मात् अनुकरणवाचिशब्दात् अव्यवहितः परः इति अयं शब्दः अस्ति चेत् एतेषां गतिसंज्ञा न भवति । गतिसंज्ञायाः अभावात् उपपदसमासः अपि न सम्भवति । यथा - खाट् इति कृत्वा । अत्र समासस्य अभावात् <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि नैव कृतः वर्तते ।
इति-शब्दपरकत्वात् क्रियायोगः कथम् ?
प्रकृतसूत्रेण
गतिसंज्ञा तदा एव भवति यदा अनुकरणवाचिनः शब्दस्य
क्रियया सह योगः विद्यते । "अयं क्रियायोगः कथं भवेत्" इति प्रश्ने पृष्टे, अग्रे वक्ष्यमाणेन <<ते प्राग्धातोः>>
1.4.80 इत्यनेन अस्य उत्तरं लभ्यते - "धातोः अव्यवहितपूर्वे एव अनुकरणवाची शब्दः भवेत्" इति । इत्युक्ते, क्रियायोगे सिद्धे, अनुकरणवाचिनः शब्दात् अनन्तरम् धातुः एव भवति, अतश्च तत्र
इति इदं पदं नैव सम्भवति । किञ्च, अनुकरणवाचिनः शब्दात् अनन्तरम्
इति इदं पदं विद्यते चेत् तत्र क्रियायोगः एव न भवति, येन गतिसंज्ञा अपि नैव शक्या । अस्यां स्थितौ प्रकृतसूत्रे प्रयुक्तस्य
अनितिपरम् इति शब्दस्य किं प्रयोजनम् - इति प्रश्नः उदेति । अस्य उत्तरार्थम् तत्त्वबोधिनीकारः ब्रूते -
इतिकृत्वा इति समुपदाये एवंकृत्वा इत्यर्थे वर्तते । तथा च इतिशब्दः क्रियाविशेषकः, इति तद्घटितसमुदायस्य क्रियावाचकत्वात् अस्ति एव क्रियायोगः ।
इतिकृत्वा इत्यस्य शब्दसमुदायस्य अर्थः
एवंकृत्वा इति वर्तते, अतः अत्र <<इति>> शब्द: अपि क्रियार्थम् अवश्यमेव बोधयति - इति अत्र तत्त्वबोधिनीकारस्य आशयः वर्तते । अस्यां स्थितौ
खाट् इतिकृत्वा इत्यत्र क्रियायोगे सिद्धे अनिष्टा गतिसंज्ञा अपि प्राप्नोति । अस्याः बाधनार्थम्
अनितिपरम् इति निषेधः प्रकृतसूत्रे दत्तः वर्तते ।
यद्यपि सूत्रे क्रियायोगे इति सामान्यनिर्देशः वर्तते, तथापि लोके प्रकृतसूत्रस्य प्रयोगः केवलं <<कृ>>/<<भू>>/<<अस्>>-धातूनां योगे एव कृतः दृश्यते ।
Balamanorama
Up
<<अनुकरणं चानितिपरम्>> - अनुकरणं चा । अनुकरणं गतिसंज्ञं स्यादितिपरं वर्जयित्वेत्यर्थः । खाट्कृत्येति । खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे क्त्वो ल्यप् । खाडिति कृत्वेति । न चात्र इतिशब्देन व्यवहितत्वे क्रियायोगाऽभावादेव गतिसंज्ञा न भविष्यति तत्किमनितिपरग्रहणेनेति वाच्यं, यथाकथंचित्क्रियायोगसत्त्वात् । 'ते प्राग्धातोः' इति सूत्रं तुते गत्युपसर्गा धातोः प्रागेव प्रयोज्याः, न तु परत॑ इति प्रयोगनियमपरमेवेति भावः ।
Padamanjari
Up
इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्।'ष्ठिवु निरसने' ,'ष्ठिवुक्लमुचमां शिति' इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः-'चुम्बनसक्तः सो' स्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥