अकथितं च
1-4-51 अकथितं च आ कडारात् एका सञ्ज्ञा कारके कर्म
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
अपादानादिसंज्ञाभिः अविवक्षितं कारकं कर्मसंज्ञं भवति । यथा - गां दोग्धि ।
Kashika
Up
अकथितं च यत् कारकम्, तत् कर्मसंज्ञं भवति। केनाकथितम्? अपादानादिभिर्विशेषकथाभिः। परिगणनं कर्तव्यम् —
दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ।
ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना॥
उपयुज्यत इत्युपयोगः पयःप्रभृति, तस्य निमित्तं गवादि, तस्योपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते। पाणिना कांस्यपात्र्यां गां दोग्धि पयः पाण्यादिकमप्युपयोगनिमित्तम्, तस्य कस्माद् न भवति? नैतदस्ति। विहिता हि तत्र करणादिसंज्ञा। तदर्थमाह — अपूर्वविधाविति। ब्रुविशासिगुणेन च यत् सचते। ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म धर्मादिकम्, तेन यत् संबध्यते, तदकीर्तितमाचरितं कविना, तदकथितमुक्तं सूत्रकारेण। दुहि — गां दोग्धि पयः। याचि — पौरवं गां याचते। रुधि — गामवरुणद्धि व्रजम्। प्रच्छि — माणवकं पन्थानं पृच्छति। भिक्षि — पौरवं गां भिक्षते। चिञ् — वृक्षमवचिनोति फलानि। ब्रुवि — माणवकं धर्मं ब्रूते। शासि — माणवकं धर्ममनुशास्ति॥
Siddhanta Kaumudi
Up
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ॥ दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि । कारकं किम् ? माणवकस्य पितरं पन्थानं पृच्छति ॥<!अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् !> (वार्तिकम्) ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते ॥
Laghu Siddhanta Kaumudi
Up
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ-मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥
गां दोग्धि पयः । बलिं याचते वसुधाम् । तण्डुलानोदनं पचति । गर्गान् शतं दण्डयति । व्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति हरति कर्षति वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते वसुधाम् । माणवकं धर्मं भाषते अभिधत्ते वक्तीत्यादि॥ इति द्वितीया ॥ <<स्वतन्त्रः कर्ता>> <{LSK694}> - क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ॥
Neelesh Sanskrit Detailed
Up
<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं अष्टमं सूत्रम् । अपादान-इत्यादिभिः कारकसंज्ञाभिः यस्य कारकस्य विवक्षा नैव कृता अस्ति, तत् कारकं कर्मसंज्ञं भवति - इति अस्य सूत्रस्य आशयः वर्तते । <<कारकाणि विवक्षातः भवन्ति>> इति वचनम् अनुसृत्य, कदाचित् <<ध्रुवमपायेऽपादानम्>> 1.4.24 इत्यादिभिः सूत्रैः दत्ता अपादानादिसंज्ञा नैव विवक्ष्यते चेत् तत् कारकं अविवक्षितम् (अकथितम्) एव तिष्ठति । अस्यां स्थितौ तस्य कर्मसंज्ञा भवेत् इति हेतुना अस्य सूत्रस्य निर्माणं कृतं वर्तते ।
यद्यपि अत्र सूत्रे विशिष्टानां धातूनां परिगणनं कृतं नास्ति, तथापि एतादृशी अन्यकारकस्य अविवक्षा, तथा च तदनुषङ्गेण कर्मसंज्ञायाः विधानम् केवलं विशिष्टानां धातूनां विषये एव भवति । एते धातवः काशिकाकौमुद्यादिषु ग्रन्थेषु भिन्नाभिः कारिकाभिः परिगणिताः सन्ति । तत्र कौमुद्यां दत्ता कारिका सुप्रसिद्धा वर्तते, अतः तस्याः आधारेण एव अत्र उदाहरणानि पश्यामः । सिद्धान्तकौमुदीस्था सा कारिका इयम् -
दुह्याच्पच्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ।
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ॥
अस्यां कारिकायां भट्टोजिदीक्षितेन आहत्य षोडष धातवः परिगणिताः वर्तन्ते । एतेषाम् योगे, तथा च एतेषाम् ये अर्थाः तेषु प्रयोज्यमानानां अन्येषाम् अपि धातूनां योगे विशिष्टस्य कारकस्य अविवक्षां कृत्वा तस्य प्रकृतसूत्रेण कर्मसंज्ञा भवितुम् अर्हति । तत्र विशेषः अयम् - एतेषाम् सर्वेषाम् अपि धातूनां एकं कर्मपदं तु मूलरूपेण अवश्यमेव विद्यते, यस्य <<कर्तुरीप्सिततमं कर्म>> 1.3.49 इत्यनेनैव कर्मसंज्ञा भवति । एतत् कर्मपदं प्रधानं कर्म इति नाम्ना अपि ज्ञायते । परन्तु, एनं विहाय, प्रकृतसूत्रेण एतेषाम् द्वितीयम् अपि किञ्चित् कर्मपदं सम्भवति । अस्य कर्मपदस्य गौण कर्म इति नाम्ना अपि निर्देशः क्रियते । अनेन प्रकारेण दुह्यादयः एते षोडष धातवः द्विकर्मकाः भवन्ति ।
एतेषाम् सर्वेषाम् उदाहरणानि अधः क्रमेण विव्रीयन्ते ।
1. <<दुह् प्रपूरणे>> <{2.4}> - गोपालः गाम् पयः दोग्धि ।
<<दुह्>>-धातोः प्रधानं कर्म अस्ति पयःपदार्थः, यतोहि दोहनस्य फलं तत्रैव लभ्यते । अतश्च तस्य निर्देशार्थम् द्वितीयायाः प्रयोगं कृत्वा वाक्यं भवति - गोपालः पयः दोग्धि । अपि च, अस्य दोहनस्यगौः इत्यादिपदार्थः अपादानम् । अतः तस्य निर्देशं पञ्मीविभक्त्या कृत्वा वाक्यं सिद्ध्यति - गोपालः गोः पयः दोग्धि । परन्तु अत्र कथञ्चित् गोपदार्थे अपादानत्वस्य अविवक्षा अपि सम्भवति । एतादृश्याम् अविवक्षायां कृतायाम्, गोपदार्थे विद्यमानं कारकत्वं न केनापि कारकेण "कथितम्" भवति । अस्यां स्थितौ एतादृशस्य अकथित-कारकस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते । कर्मसंज्ञायां लब्धायाम्, अनभिहित-कर्मणः निर्देशार्थम् <<कर्मणि द्वितीया>> 2.3.2 इति सूत्रेण द्वितीयायाः प्रयोगः क्रियते, येन गोपालः गाम् पयः दोग्धि इति वाक्यं सिद्ध्यति । अत्र गाम् इत्यत्र विद्यमानं कर्म अकथितं कर्म अस्ति । पयः इत्यत्र विद्यमानं कर्म तु फलाश्रयं, इत्युक्ते ईप्सिततमं कर्म अस्ति ।
2. <<याच् याच्ञायाम्>> <{1.1001}> - वामनः बलिं वसुधां याचते ।
<<याच्>>-धातोः प्रधानं कर्म अस्ति वसुधाइत्यादिकः कश्चन याच्यमानः पदार्थः । यस्मात् याचना क्रियते, तस्य तु <<ध्रुवमपायेऽपादानम्>> 1.2.24 इत्यनेन अपादानसंज्ञा भवति । द्वयोः अपि संज्ञयोः प्रयोगेण वामनः बलेः वसुधां याचते इति वाक्यं सिद्ध्यति । परन्तु अत्र कथञ्चित् बलिपदार्थे अपादानत्वस्य अविवक्षा अपि सम्भवति । एतादृश्याम् अविवक्षायां कृतायाम्, बलि-पदार्थे विद्यमानं कारकत्वं अपादानेन अन्यैः वा कारकैः "अकथितम्" तिष्ठति । अस्यां स्थितौ एतादृशस्य अकथित-कारकस्य प्रकृतसूत्रेण कर्मसंज्ञा विधीयते, येन वामनः बलिं वसुधां याचते इति वाक्यं सिद्ध्यति ।
3. <<पच् पाके>> <{1.1151}> - देवदत्तः तण्डुलान् ओदनं पचति ।
<<पच्>>-धातोः प्रधानं कर्म अस्ति ओदन इत्यादिकः कश्चन याच्यमानः पदार्थः । अस्य ओदनस्य यत् मूलस्वरूपम् (तण्डुलाः इति), तेषां विषये तु कारकत्वे सति अपि, न केनापि सूत्रेण कस्यचित् कारकस्य विधानं सम्भवति, अतः तण्डुलपदार्थः अत्र अकथितः एव तिष्ठति । एतादृशस्य तण्डुलपदार्थस्य निर्देशार्थम् <<षष्ठी शेषे>> 2.3.50 इत्यनेन शेषषष्ठ्याः प्रयोगं कृत्वा देवदत्तः तण्डुलानाम् ओदनं पचति इति वाक्यं सिद्ध्यति । परन्तु अस्मिन्नेव तण्डुलपदार्थे प्रकृतसूत्रेण कर्मकारकस्य विवक्षां कृत्वा देवदत्तः तण्डुलान् ओदनं पचति इति प्रयोगः अपि सिद्ध्यति ।
4. <<दण्ड दण्डनिपाते>> <{10.472}> - राजा गर्गान् शतं दण्डयति ।
<<दण्ड्>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः पदार्थः यः दण्डरूपेण स्वीक्रियते । यस्मात् अयं पदार्थः दण्डरूपेण स्वीक्रियते तस्य तु अपादानसंज्ञा भवति । द्वयोः संज्ञयोः प्रयोगेण राजा गर्गेभ्यः शतं दण्डयति इति वाक्यं सिद्ध्यति । परन्तु अत्र गर्गपदार्थे अपादानस्य अविवक्षा अपि कर्तुं शक्यते । अस्यां स्थितौ गर्गपदार्थे विद्यमानम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया विधीयते, अतश्च राजा गर्गान् शतं दण्डयति इति प्रयोगः सिद्ध्यति ।
5. <<रुध् आवरणे>> <{7.1}> - गोपालः गां व्रजम् अवरुणद्धि ।
<<रुध्>>-धातोः प्रधानं कर्म अस्ति गो इत्यादिकः पदार्थः यस्य रोधनं क्रियते । यस्मिन् स्थले रोधनं क्रियते, तस्य तु आधारत्वात् अधिकरणसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण गोपालः गां व्रजे अवरुणद्धि इति वाक्यं सिद्ध्यति । परन्तु अत्र व्रजपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः गां व्रजम् अवरुणद्धि इति प्रयोगः सङ्गच्छते ।
6. <<प्रच्छ् ज्ञीप्सायाम्>> <{6.149}> - पान्थः माणवकं पन्थानं पृच्छति ।
<<प्रच्छ्>>-धातोः प्रधानं कर्म अस्ति मार्ग इत्यादिकः पृच्छ्यमानः पदार्थः । यस्मात् प्रश्नस्य उत्तरम् अपेक्ष्यते, तस्य तु अपादानसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण पान्थः माणवकात् मार्गं पृच्छति इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन पान्थः माणवकं पन्थानं पृच्छति इति प्रयोगः सङ्गच्छते ।
7. <<चिञ् चयने>> <{5.5}> - वटुः वृक्षं फलानि अवचिनोति ।
<<चि>>-धातोः प्रधानं कर्म अस्ति फल इत्यादिकः चीयमानः पदार्थः । यस्मात् फलं निष्कृष्यते, तस्य तु अपादानसंज्ञा भवति । एतयोः द्वयोः संज्ञयोः प्रयोगेण वटुः वृक्षात् फलम् अवचिनोति इति वाक्यं सिद्ध्यति । परन्तु अत्र वृक्षपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन वटुः वृक्षं फलानि अवचिनोति इति प्रयोगः सिद्ध्यति ।
8. <<ब्रू व्यक्तायां वाचि>> <{2.39}> - आचार्यः माणवकं धर्मं ब्रूते ।
<<ब्रू>>-धातोः प्रधानं कर्म अस्ति धर्म इत्यादिकः उच्यमानः पदार्थः । यस्य कृते धर्मादिकम् उच्यते, तस्य तु सम्प्रदानसंज्ञा भवति, येन आचार्यः माणवकाय धर्मं ब्रूते इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे सम्प्रदानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन आचार्यः माणवकं धर्मं ब्रूते इति प्रयोगः सिद्ध्यति ।
9. <<शास् अनुशिष्टौ>> <{2.70}> - आचार्यः माणवकं धर्मं शास्ति ।
<<शास्>>-धातोः प्रधानं कर्म अस्ति धर्म इत्यादिकः शिष्यमाणः पदार्थः । यस्य कृते धर्मादिकम् शिष्यते, तस्य तु सम्प्रदानसंज्ञा भवति, येन आचार्यः माणवकाय धर्मं शास्ति इति वाक्यं सिद्ध्यति । परन्तु अत्र माणवकपदार्थे सम्प्रदानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन आचार्यः माणवकं धर्मं शास्ति इति प्रयोगः सिद्ध्यति ।
10. <<जि अभिभवे>> <{1.1096}> - यज्ञदत्तः देवदत्तं शतं जयति ।
<<जि>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः जेयः पदार्थः । यस्मात् अयं पदार्थः जीयते, तस्य तु अपादानसंज्ञा भवति, येन यज्ञदत्तः देवदत्तात् शतं जयति इति प्रयोगः सिद्ध्यति । परन्तु अत्र देवदत्तपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन यज्ञदत्तः देवदत्तं शतं जयति इति प्रयोगः सिद्ध्यति ।
11. <<मन्थ् विलोडने>> <{9.47}> - सुरासुरगणः क्षीरनिधिं सुधां मथ्नाति ।
<<मन्थ्>>-धातोः प्रधानं कर्म अस्ति "सुधा" इत्यादिकः मथ्यमानः पदार्थः । यस्य विलोडनं कृत्वा अस्य पदार्थस्य मथनं भवति तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन सुरासुरगणः क्षीरनिधौ सुधां मथ्नाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र क्षीरनिधिपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन सुरासुरगणः क्षीरनिधिं सुधां मथ्नाति इति प्रयोगः सिद्ध्यति ।
12. <<मुष् स्तेये>> <{9.66}> - यज्ञदत्तः देवदत्तं शतं मुष्णाति ।
<<मुष्>>-धातोः प्रधानं कर्म अस्ति शतम् इत्यादिकः मुष्यमाणः पदार्थः । यस्मात् अयं पदार्थः मुष्यते, तस्य अपादानसंज्ञा भवति, येन यज्ञदत्तः देवदत्तात् शतं मुष्णाति इति प्रयोगः सिद्ध्यति । परन्तु अत्र देवदत्तपदार्थे अपादानस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन यज्ञदत्तः देवदत्तं शतं मुष्णाति इति प्रयोगः सिद्ध्यति ।
13. <<नी प्रापणे>> <{1.1049}> - गोपालः अजां ग्रामं नयति ।
<<नी>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः नीयमानः पदार्थः । यत्र अयं पदार्थः नीयते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे नयति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं नयति इति प्रयोगः सिद्ध्यति ।
14. <<हृ हरणे>> <{1.1046}> - गोपालः अजां ग्रामं हरति ।
<<हृ>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः ह्रियमाणः पदार्थः । यत्र अयं पदार्थः ह्रियते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे हरति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं हरति इति प्रयोगः सिद्ध्यति ।
15. <<कृष् विलेखने>> <{1.1145}> - गोपालः अजां ग्रामं कर्षति ।
<<कृष्>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकः कृष्यमाणः पदार्थः । यत्र अयं पदार्थः कृष्यते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे कर्षति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं कर्षति इति प्रयोगः सिद्ध्यति ।
16. <<वह् प्रापणे>> <{1.1159}> - गोपालः अजां ग्रामं वहति ।
<<वह्>>-धातोः प्रधानं कर्म अस्ति अजा इत्यादिकःउह्यमानः पदार्थः । यत्र अयं पदार्थः उह्यते, तस्य आधारत्वात् अधिकरणसंज्ञा भवति, येन गोपालः अजां ग्रामे वहति इति प्रयोगः सिद्ध्यति । परन्तु अत्र ग्रामपदार्थे अधिकरणस्य अविवक्षां कृत्वा तत्रस्थम् अकथितं कारकं प्रकृतसूत्रेण कर्मसंज्ञया अपि दर्शयितुम् शक्यते, येन गोपालः अजां ग्रामं वहति इति प्रयोगः सिद्ध्यति ।
अर्थनिबन्धना कर्मसंज्ञा
प्रकृतसूत्रेण निर्दिष्टा कर्मसंज्ञा अर्थनिबन्धना अस्ति । इत्युक्ते, सा केवलम् एतेषाम् षोडशानाम् धातूनाम् विषये एव न, अपितु एतेषाम् एव अर्थेषु प्रयुक्तानाम् अन्येषाम् धातूनां विषये अपि विधीयते । इत्युक्ते, एतेषाम् अर्थे प्रयुक्ताः अन्येऽपि सर्वे धातवः द्विकर्मकाः एव परिगण्यन्ते । कानिचन उदाहरणानि एतादृशानि -
1. <<ब्रू>>-धात्वर्थकाः <<वद्>>, <<भाष्>>, <<कथ>> इत्येते धातवः अपि द्विकर्मकाः सन्ति । यथा - पिता माणवकं धर्मं वदति / भाषते / कथयति ।
2. <<मुष्>>-धात्वर्थकाः <<चुर्>>, <<लुण्ठ्>>, <<लुण्ट्>> इत्येते धातवः अपि द्विकर्मकाः सन्ति । यथा - देवदत्तः यज्ञदत्तं शतं चोरयति / लुण्ठयति / लुण्टयति ।
3. <<याच्>>-धात्वर्थकः <<भिक्ष्>> इति धातुः अपि द्विकर्मकः । यथा - वामनः बलिं वसुधां भिक्षते ।
द्विकर्मकधातूनां कर्मणिप्रयोगः
द्विकर्मकधातूनां कर्मणि प्रयोगे केवलम् एकस्यैव कर्मणः लकारेण अभिधानं सम्भवति । यत् कर्म लकारेण अभिधीयते तस्य प्रथमाविभक्त्या निर्देशः भवति । अपरस्य च द्वितीयया निर्देशः भवति । अस्मिन् सन्दर्भे एका पङ्क्तिः प्रसिद्धा वर्तते - गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । कर्मणि प्रयोगे लकारेण कस्य अभिधानं भवति इति अस्यां पङ्क्तौ उक्तं वर्तते । अस्याः पङ्क्तेः आशयः अयम् - <<दुह्>> इत्यस्मात् आरभ्य <<मुष्>> इतिपर्यन्तं ये द्वादश धातवः कारिकायाः प्रथमायाः पङ्क्तौ निर्दिष्टाः वर्तन्ते, तेषां विषये कर्मणिप्रयोगे लकारप्रत्ययेन गौणकर्मणः (इत्युक्ते, <<अकथितं च>> 1.4.51 इत्यनेन यस्य कर्मसंज्ञा प्राप्ता तस्य) निर्देशः भवति, अतश्च गौणकर्मणः प्रथमाविभक्तिः, प्रधानकर्मणः च द्वितीयाविभक्तिः भवति । अन्येषां चतुर्णां धातूनां विषये तु विरुद्धं भवति - इत्युक्ते, तेषां कर्मणिप्रयोगे लकारप्रत्ययेन प्रधानकर्मणः निर्देशः भवति, तस्य च प्रथमया प्रयोगः क्रियते । एतं नियमम् अनुसृत्य सर्वेषाम् अपि षोडशानाम् धातूनाम् कर्मणिवाक्यानि इत्थं सिद्ध्यन्ति -
(I) दुह्यादि-द्वादशानाम् विषये कर्मणिप्रयोगे गौणकर्मणः प्रथमा, प्रधानकर्मणः द्वितीया
1. दुह् - गोपालेन गौः पयः दुह्यते ।
2. याच् - वामनेन बलिः वसुधां याच्यते ।
3. पच् - देवदत्तेन तण्डुलाः ओदनं पच्यन्ते ।
4. दण्ड् - राज्ञा गर्गाः शतं दण्ड्यन्ते ।
5. रुध् - गोपालेन गां व्रजः अवरुध्यते ।
6. प्रच्छ् - पान्थेन माणवकः पन्थानं पृच्छ्यते ।
7. चि - वटुना वृक्षः फलानि अवचीयते ।
8. ब्रू - आचार्येण माणवकः धर्मम् उच्यते ।
9. शास् - आचार्येण माणवकः धर्मं शास्यते ।
10. जि - यज्ञदत्तेन देवदत्तः शतं जीयते ।
11. मथ् - सुरासुरगणेन क्षीरनिधिः सुधां मथ्यते ।
12. मुष् - यज्ञदत्तेन देवदत्तः शतं मुष्यते ।
(II) नी-हृ-कृष्-वह्-धातूनाम् विषये कर्मणिप्रयोगे प्रधानकर्मणः प्रथमा, गौणकर्मणः द्वितीया
13. नी - गोपालेन अजा ग्रामं नीयते ।
14. हृ -गोपालेन अजा ग्रामं ह्रियते।
15 कृष् - गोपालेन अजा ग्रामं कृष्यते ।
16. वह् - गोपालेन अजा ग्रामम् उह्यते ।
कारकस्यैव कर्मसंज्ञा, अन्यस्य न
प्रकृतसूत्रम् <<कारके>> 1.4.23 इत्यस्मिन् अधिकारे पाठ्यते, अतः अनेन निर्दिष्टा कर्मसंज्ञा तदा एव भवति यदा कश्चन कारकसंज्ञः पदार्थः अपादानादिभिः संज्ञाभिः अकथितः लभ्यते । इत्युक्ते, यदि अपादानादिभिः संज्ञाभिः अकथितः पदार्थः कारकसंज्ञः नास्ति (तस्मिन् क्रियाजनकत्वं नास्ति इत्याशयः) तर्हि प्रकृतसूत्रेण तस्य कर्मसंज्ञा अपि न भवति । यथा, माणवकस्य पितरं पन्थानं पृच्छति इत्यस्मिन् वाक्ये माणवकपदार्थे कारकत्वमेव नास्ति यतः पृच्छति इत्यनेन सह तस्य अन्वयः एव न विद्यते । अस्यां स्थितौ माणवकपदार्थः अपादानादिभिः संज्ञाभिः अवश्यमेव अकथितः वर्तते यतोहि अपादानादयः संज्ञाः कारकाणां एव विहिताः सन्ति । एतादृशस्य अकथित-अकारकस्य प्रकृतसूत्रेण कर्मसंज्ञा मा भूत्, इति स्पष्टीकर्तुमेव प्रकृतसूत्रम् अपि कारकाधिकारे एव पाठितं वर्तते । अतः अत्र माणवकपदार्थस्य (अकारकत्वात्) कर्मसंज्ञा न भवति ।
सिद्धान्तकौमुदीस्थं वार्त्तिकम्
प्रकृतसूत्रे सिद्धान्तकौमुदीकारः कर्मसंज्ञायाः एकं वार्त्तिकं पाठयति - । ये धातवः धातुपाठे अकर्मकरूपेण पाठिताः सन्ति, तेषां प्रयोगे अपि देशः, कालः, भावः, तथा च मार्गपरिमाणम् - एतेषां चतुर्णाम् अवश्यं हि कर्मसंज्ञा भवति इति अस्य वार्त्तिकस्य अर्थः । क्रमेण उदाहरणानि एतानि -
1. देशः (कुरुपञ्चालादिः) - यथा, देवदत्तः कुरून् स्वपिति । "देवदत्तः कुरूणां देशे स्वपिति" इति अत्र अर्थः वर्तते । <<स्वप्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये कुरु इति देशवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।
2. कालः (दिन-मास-वर्ष-इत्यादिः) - यथा, देवदत्तः मासम् आस्ते । "देवदत्तः एकं मासं यावत् उपविशति" इति अत्र अर्थः वर्तते । <<आस्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये मास इति कालवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।
3. भावः(दोहन-शयन-स्थान-इत्यादिः) - यथा, देवदत्तः गोदोहं तिष्ठति । " यावत् गोदोहनक्रिया (milking the cows) प्रचलन्ती अस्ति, तावत् देवदत्तः तिष्ठति" इति अत्र अर्थः वर्तते । <<स्था>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये गोदोह इति भाववाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।
4. मार्गस्य परिमाणवाचकः शब्दः (योजन-क्रोश-इत्यादिः) - यथा, देवदत्तः क्रोशम् हसति । " एकः क्रोशः इति यावति मार्गे देवदत्तः हसति" इति अत्र अर्थः वर्तते । <<हस्>>-धातुः वस्तुतः अकर्मकः अस्ति, परन्तु अत्र वाक्ये क्रोश इति मार्गपरिमाणवाचकः पदार्थः वर्तते, अतः तस्य अनेन वार्त्तिकेन कर्मसंज्ञा भवति ।
माधवीयधातुवृत्तौ उक्ताः अन्ये द्विकर्मकधातवः
माधवीयधातुवृत्तौ सायणाचार्येण द्विकर्मकधातूनां विषये अधोदत्ता कारिका पाठ्यते -
जयतेः कर्षतेर्मन्थेर्मुषेर्दण्डयतेः पचेः ।
तारेर्ग्राहेस्तथा मोचेस्त्याजेर्दीपेश्च सङ्ग्रहः ॥
कारिकायां चशब्देन सुधाकरमुखैः कृतः ।
अस्याः कारिकायाः द्वितीयायां पङ्क्तौ पञ्च णिजन्तधातवः द्विकर्मकरूपेण निर्दिष्टाः सन्ति । एतेषां विषये अण्यन्तवाक्यस्य यः कर्ता, तस्य विषये णिजन्तवाक्ये कर्तृत्वस्य अविवक्षा कर्तुं शक्यते । अस्यां स्थितौ अन्यैः कारकैः अकथितः अण्यन्तकर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञकः भवति । एतेषाम् उदाहरणानि एतानि -
1. तारि - <<तॄ (<{1.1124}>) + णिच्>> । अत्र शुद्धवाक्यम् - पयः समुद्रं तरन्ति । णिजन्तवाक्यम् - हनुमान् कपिभिः समुद्रं तारयति । णिजन्तवाक्ये कपिपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण कपिपदार्थस्य च कर्मसंज्ञां कृत्वा हनुमान् कपीन् समुद्रं तारयति इति प्रयोगः सिद्ध्यति ।
2. ग्राहि - <<ग्रह् (<{9.71}>) + णिच्>> । अत्र शुद्धवाक्यम् - पुत्रः वस्त्रं गृह्णाति । णिजन्तवाक्यम् - माता पुत्रेण वस्त्रं ग्राहयति । णिजन्तवाक्ये पुत्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण पुत्रपदार्थस्य च कर्मसंज्ञां कृत्वा माता पुत्रं वस्त्रं ग्राहयति इति प्रयोगः सिद्ध्यति ।
3. मोचि - <<मुच् (<{6.166}>) + णिच्>> । अत्र शुद्धवाक्यम् - छात्रः कोपं मुञ्चति । णिजन्तवाक्यम् - आचार्यः छात्रेण कोपं मोचयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं कोपं मोचयति इति प्रयोगः सिद्ध्यति ।
4. त्याजि - <<त्यज् (<{1.1141}>) + णिच्>> ।अत्र शुद्धवाक्यम् - छात्रः कोपं त्यजति । णिजन्तवाक्यम् - आचार्यः छात्रेण कोपं त्याजयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं कोपं त्याजयति इति प्रयोगः सिद्ध्यति ।
5. दीपि - <<दीप् (<{4.45}>) + णिच्>> । अत्र शुद्धवाक्यम् - छात्रः शास्त्रं दीप्यते (अवगच्छति इत्यर्थः) । णिजन्तवाक्यम् - आचार्यः छात्रेण शास्त्रं दीपयति । णिजन्तवाक्ये छात्रपदार्थस्य कर्तृसंज्ञायाः अविवक्षां कृत्वा, प्रकृतसूत्रेण छात्रपदार्थस्य च कर्मसंज्ञां कृत्वा आचार्यः छात्रं शास्त्रं दीपयति इति प्रयोगः सिद्ध्यति ।
एतेभ्यः पञ्चभ्यः धातुभ्यः "ग्राहि" धातोः द्विकर्मकत्वं बहुभिः वैयाकरणैः नाङ्गीक्रियते इति भट्टोजिदीक्षितेन प्रौढमनोरमायां स्पष्टीकृतं वर्तते ।
##Balamanorama
##Padamanjari
अकथितशब्दोऽयमस्त्यप्रधाने रूढः, तद्यथा - अकथितोऽहमस्मिन् ग्रामे, अप्रधानभूत इति गम्यते। अस्ति च क्रियाशब्दोऽकीर्तितपर्यायः।'कथ वाक्यप्रवन्धे' , चुरादावदन्तः पठ।ल्ते, तत्र पूर्वस्य ग्रहणे'पाणिना कांसपात्र्यां दोग्धि पयः' इत्यत्र पाणिकांसपात्र्योरपि स्यात्। करणाधिकरणसंज्ञयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गः;'दुहियाचि' इति परिगणनात्, अतो द्वितीयस्य ग्रहणम्, तदाह - केनाकथितम्? अपदानादिभिर्विशेषकथाभिरिति। किमत्र प्रमाणं तदाह - केनेति। करणनिर्देशः। रूढिशब्देषु हि व्युत्पत्यर्थमेव क्रियोपादीयते; न तत्र करणादि सम्बध्यते, न हि गच्छतीति गौरित्यत्र केनेति प्रश्नो रथेनेति प्रतिवचनं वा भवति। इह'कारके' इत्यनुवर्तनात् सत्येव कारकत्वेऽकथितस्य संज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरित्युक्तम्। परिगणनं कम धर्मादीति। तस्य तु प्राधान्यं तदर्थत्वात् प्रवृतेः। सम्बध्यत इति। सचत इत्यस्यार्थकथनमेतत्'षच समवाये' स्वरितेत्। केचितु परस्मैपदिभिः सह धातुमेनं पठन्ति'षच सवाये' रप लप व्यक्तायां वाचिऽ इति। तत्राहुः-ठ्षचसेवनेऽ इत्यस्यानुदातेतोऽनेकार्थत्वात्समवाये प्रवृत्तिरिति, सम्बध्नातेश्च कर्मव्यापारे सचिर्वर्तत इति कर्तृपदस्य कर्मपदेनार्थकथनं नानुपपन्नम्, यथा - राध्यत्योदन इत्यस्य पच्यत इति। उक्तमिति। आचरितमित्यस्य विवरणम्। सूत्रकारेणेति। कविशब्दो मेधाविमात्रवचनोऽपि प्रकरणात् सूत्रकारे प्रयुक्त इति दर्शयति। गां दोग्धि पय इति। ननु चात्रायमर्थः- गौः पयस्त्यजति, दोग्धा गवा पयस्त्याजयतीति; तत्र प्रयोजकव्यापारेणाप्यमानत्वात् सिद्धा गोः कर्मसंज्ञा। न च वाच्यम् -'प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गत्यर्थादिष्वेवेत्युतरसूत्रे नियमादत्र न प्राप्नोपि, यथा - पचन्तं देवदतं प्रयुङ्क्ते, पाचयति देवदतेनेत्यत्र' इति;ण्यन्तष्वेव स नियमः, अयं तु प्रकृत्यन्तः, नैतदस्ति; यथा ण्यन्तेषु धातुषु क्रियाविशिष्टस्य प्रयुक्तिः प्रतीयते - गमयतीति, नैवमत्र विष्क्रियस्यापि गवादेर्दोहननयनादिषु विनियोगात्। तथा ह्यदुहानापि गौर्दुह्यते, अगच्छन्तो भारादयः शिरसा नीयन्ते, तस्माद्देग्धीत्येकस्या एव क्रियायाः श्रवणाद् गोपयसोर्भेदेन कर्मत्वं न भवति। णिचि तु सति प्रकृत्यंशस्य प्रत्ययांशस्य च भेदेन द्वे वाच्ये इति कर्मभेदोपपतिः। गमयति ग्रामं देवदतमिति। यदा तु दुहेः क्षरणमर्थः-क्षरति गोः क्षीरम्, क्षीरं क्षारयति देवदत इति, तदा यद्यपि गोरपायेऽवधिभावो विद्यते; तथाप्यविवक्षिते तस्मिन्निमितत्वमात्रापेक्षायामुदाहरणोपपतिः। एवं चावधित्वविवक्षायामपादानसंज्ञायां भवत्येव - गेर्दुह्यते पय इति। यदा तु पयस्येव विशेषणं गौः, तदा षष्ठी - गोः पयो दोग्धीति। पौरवं गां याचते इति। पुरोरपत्यं पौरवः। ननु विहितात्रापादानसंज्ञा पौरवादसौ गामादते, न याचनादेव तत आदते, याचितोऽसौ यदि ददाति तत आदते, ननु मा नामादिताऽऽदित्सते तावत्, तदपि न; यतः स्वभावपरिचिच्छित्सुरनादित्समानोऽपि याचते। गामवरुणद्धि व्रजमिति। ननु च गां व्रजं प्रवेशयतीत्ययमत्रार्थः, ततश्च सिद्धं व्रजस्य कर्मत्वम्? अथ व्रजे गामवस्थापयतीत्यर्थः, तर्हि कथितात्राधिकरणसंज्ञा; यदा तर्ह्यवरोधनक्रियां प्रति निमितत्वमात्रं विवक्ष्यते न कर्मत्वं नाधिकरणत्वं तदेदमुदाहरणम्। व्रजेन हेतुनाऽवस्थापयतीत्यर्थः। माणवकं पन्थानं पृच्छतीति।'प्रच्छ ज्ञीप्सायाम्' , तुदादिः, ग्रहिज्यादिना संप्रसारणम्। ननु च कथितात्रापादानसंज्ञा, स हि तस्मादुपदेशमादते न प्रश्नमात्रादादते, पृष्टोऽसौ यद्यौपदिशति तत आदते। मा नामादिता, आदित्सते तावत् तदपि न, अनादित्समानोऽपि स्वभावपरिज्ञानाया पृच्छति। भिक्षिर्याचिवद्व्याख्येयः। किमर्थं पुनर्याचिभिक्ष्योरुभयोरुपादानम्, न ह्यनयोरर्थे भेदोऽस्ति, अर्थाश्रया चेयं संज्ञा, न दुह्यादिस्वरूपाश्रया। समानार्थेऽपि हि गृह्यते - देवदतं शतं प्रार्थयत इति? उच्यते, अननुयार्थस्य याचतेर्ग्रहणार्थम्। तेनाविनीतं विनयं याचते, क्रुद्धं प्रसादं याचत इत्यत्रापि भवति। सकृदुपातस्य चोरभयरूपानुपपतेः भिक्षिरपि गृहीतः। वृक्षमवचिनोति फलनीति। यद्यप्यवचिन्वद् वृक्षान् फलमादते इत्यपादानसंज्ञाया अयं विषयः, तथापि यदा वृक्षो नावधित्वेन विवक्ष्यते निमितरूपेणैव तु विवक्ष्यते, तदेदमुदाहरणम्। ब्रूतेऽनुशास्तीति।'ब्रूञ् व्यक्तायां वाचि' 'शासु अनुशिष्टौ' , अदादी, यद्यद्यप्यत्र धर्मेण वचनानुशासनकर्मणा माणवकस्याभिप्रेयमाणत्वम्, तथापि ददातिकर्माभावात्संज्ञाया अप्रसङ्गः। ये तु तत्र ददातिकर्मणेति नाश्रयन्ति, तेषामपि निमितत्वमात्रं विवक्षितं नाभिप्रेयमाणत्वमित्युदाहरणोपपतिः॥ अथान्येऽपि द्विकर्मकाः- नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च। द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥'गत्यर्थानाम्' इत्युतरसूत्रोपलक्षणम्। नी - अजां नयति ग्रामम्। वहिवहति भारं ग्रामम्। हरति - भारं हरति ग्रामम्। चकारेण जयत्यादयः समुच्चीयन्ते - शतं जयति देवदतम्, शतं मुष्णाति देवदतम्, शतं दण्डयति देवदतम्, कर्षति ग्रामं शाखाम्। इदं विचार्यते - द्विकर्मकेभ्यो धातुभ्यः कर्मणि लादय उत्पद्यमानाः किमीप्सिततमे कर्मणि प्रधाने उत्पद्यन्ते? आहोस्विदनेन यस्य कर्मत्वं तस्मिन् गुणकर्मणीति? तत्रोक्तम् - प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ इति॥ अयमर्थः- ये द्विकर्मका धातवस्तेषां प्रधाने कर्मणीप्सिततमे वाच्ये लादीनाहुःउलादयो भवन्तीत्याहुः। लादयःउलकृत्यक्तखलर्थाः। प्रधानाप्रधानयोर्भिन्नकक्षयोर्युगपदभिधानासंभवे प्रधानस्यैवाभिधानं न्याय्यम्, प्रधानत्वादेवेति भावः। नी - नीयते ग्राममजा, नेया, नीता, सुनया। वहि - उह्यते भारो ग्रामम्, वोढव्यः, ऊढः, सुवहः। हृञ् - ह्रियते भारो ग्रामम्, हर्तव्यः, हृतः, सुहरः। कृष् - कृष्यते शाखा ग्रामम्, क्रष्टव्या, कृष्टा, सुकर्षा। अप्रधाने दुहादीनामिति। अत्र दण्डिप्रभृतयोऽपि गृह्यन्ते, न तु दुहियाचीति श्लोकपठिता एव। एतेषां दुहादीनामप्रधाने कर्मण्याख्येये लादीनाहुः । एतदपि न्यायसिद्धम्; यतः पयोऽर्थी पूर्वं गवि प्रवर्तते, अतः शूद्धस्य दुहेर्गवाभिसम्बन्धः, गोदोहेन तु पयस इत्यन्तरङ्गत्वादकथितकर्मणस्तत्रैव लादयो भवन्ति। एवं सर्वत्र। दुहि - गौर्दुह्यते पयः, दोह्या, दुग्धा, सुदोहा। याचि - पौरवो गां याच्यते, याच्यः, याचितः, सुयाचः। रुधि - व्रजोऽवरुध्यते गाम्, अवरोध्यः, अवरुद्धः,स्ववरोधः। प्रच्छि - माणवकः पन्थानं पृच्छयते, प्रष्टव्यः, पृष्टः, सुप्रच्छः। भिक्षि - पौरवो गां भिक्ष्यते, भिक्षितव्यः, भिक्षितः, सुभिक्षः। चिञ् - वृक्षोऽवचीयते फलानि, अवचेतव्यः, अवचितः, स्ववचयः। ब्रूञ् - उच्यते माणवको धर्मम्, वक्तव्यः, उक्तः, सुवचः। शामु - अनुशिष्यते माणवको धर्मम्, अनुशासितव्यः, अनुशिष्टः, स्वनुशासः। दण्डि - गर्गाः शतं दण्ड।ल्न्ते, दश्ड्याः, दण्डिताः, सुदण्डाः। जि-शतं जीयते देवदतः, जेतव्यः, जितः, सुजयः। मुषि - मुष्यते देवदतः शतम्, मोषितव्यः, मुषितः, सुमोषः। ण्यन्ते कर्तुश्च कर्मण इति। अभिधान इति शेषः। अण्यन्तावस्थायां कर्तुर्ण्यन्तावस्थायां कर्मणः सतोऽभिधाने लादीनाहुरित्यर्थः। एतदुक्तं भवति-ये गत्यर्थादयोऽण्यन्तावस्थायामपि सकर्मका ण्यन्तावस्थायामुतरसूत्रेण द्विकर्मका जाताः, तेषु ण्यन्तावस्थायां यदुतरसूत्रेणोपजातं कर्म तत्र लादयो भवन्तीत्यर्थः। गमयति ग्रामं देवदतम्, गम्यते ग्रामं देवदतः, गमयितव्यः, गमितः; सुगमः। बुध्यर्थः- बोध्यते माणवको धर्मम्, बोधयितव्यः, बोधितः, सुबोधः। प्रत्यवसानार्थः- भोज्यते माणवक ओदनम्, भोजयितव्यः, भोजितः, सुभोजः। शब्दकर्म-पाठ।ल्ते माणवको वेदम्, पाठयितव्यः, पाठितः, सुपाठः। अकर्मकः- आस्यते माणवको मासम्, आसयितव्यः, आसितः, स्वासः। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि लादय इति मतान्तरम्। बोध्यते माणवकं धर्मः, भोज्यते माणवकमोदनः, पाठ।ल्ते माणवकं वेद इत्यादि। तदयमत्र निर्णयः- नीवहिहृकृषिभ्यः प्रधानकर्मणि लादयः; तत्सम्बन्धस्य पूर्वभावित्वात्। दुह्यादिभ्यो जिदण्डमुषिभ्यश्चाप्रधाने; तत्सम्बन्धस्यानन्तरङ्गत्वात्। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि प्रधाने वा यथेष्टम्; गत्यर्थाकर्मकयोः हृक्रोश्च ण्यन्तयोः प्रयोज्ये कर्मणीति। प्रयोज्यस्य च प्राधान्येनाभिधीयमानाप्रयोजकव्यापारेणाप्यमानत्वात् प्राधान्यम्। गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभाव आर्थन न्ययेन प्रयोज्यव्यापारप्राधान्यम्, तदर्थत्वात् प्रयोजकव्यापारस्य। तत्प्राधान्याच्च तत्कर्मणोऽपि प्राधान्यमित्यन्ये। सर्वथा लादयः प्रयोज्यकर्मणीति स्थितम्। अकर्मकाणां च धातूनां कालभावाध्वगन्तव्यदेशाः कर्मसंज्ञका इष्यन्ते। उक्तं च -'कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्, देशश्चाकर्मकाणां तु कर्मसंज्ञो भवतीति वक्तव्यम्' इति। अध्वगन्तव्येति - गन्तव्योऽध्वा, अध्वा गन्तव्यः, कडारादिष्वध्वशब्दे द्रष्टव्यः। गन्तव्यत्वेन प्रसिद्धस्य नियतपरिमाणस्य क्रोशादेर्ग्रहणार्थं गन्तव्यग्रहणम्, तेनाध्वानं स्वपितीति न भवति। ननु च'कालाध्वनोः' इति सिद्धा द्वितीया, किं कर्मसंज्ञया? देशस्य तावद्वक्तव्या। कालाध्वनोरपि लादिविधानार्थ कर्मत्वमेषितव्यम्। आस्यते मासः, आसितः, आसितव्यः,स्वासः। एवं शय्यते क्रोश इत्यादि। भावः- गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्त इत्यर्थः। गोदोहादीनां मासादिवत् कालत्वेनाप्रसिद्धत्वाद्भावस्य पृथग् ग्रहणम्। देशः- कुरून् स्वपिति, कुरवः सुप्यन्त इत्यादि।'कालाध्वनोरत्यन्तसंयोगे' इति तु सूत्रमक्रियात्यन्तसयोगार्थम् - मासं गुडधानाः, सर्वरात्रं कल्याणी, क्रोशं कुटिला नदीति। न तर्हि वक्तव्यम् - कालाभावाध्वगन्तव्या इति? न वक्तव्यम्, नात्रासिरासनमात्रे वर्तते, किं तु तत्पूर्वके व्यापने वर्तते - मासमास्ते । कोऽर्थः? मासमासनएन व्याप्नोतीति। एवं वदेमधीते, मासं वेदाध्ययनेन व्याप्नोतीत्यर्थः। अथ'कर्तृ कर्मणोः कृति' इति षष्ठी द्विकर्मकेषु किं प्रधाने कर्मणि भवति? आहोस्विद् गुणे भवति? आहोस्विदुभयोः? उभयोरिति प्राप्तं द्वितीयावद्भाष्यकारवचनातु गुणकर्मणि विकल्पेन षष्ठी। प्रधानकर्मणि नित्या - नेताऽश्वस्य स्त्रुघ्नमिति वा। इहाकथितं कर्मेत्येतावदस्तु, मास्तु पूर्वसूत्रद्वयम्, तद्विषयस्याप्यकथीतत्वात्, सत्यम्; नटस्य शृणोतीत्यत्र मा भूदिति दुह्यादिपरिगणनमवश्यं कर्तव्यम्, तस्मिंश्च क्रियमाणे ओदनं पचति, वृक्षमूलान्युपसर्पतीत्यत्र न स्यादिति पूर्वमपि योगद्वयमारभ्यत इति॥