1-2-24 वञ्चिलुञ्च्यृतः च कित् सेट् क्त्वा वा
वञ्चि लुञ्चि ऋत् इत्येतेभ्यः परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। वचित्वा, वञ्चित्वा। लुचित्वा, लुञ्चित्वा। ऋतित्वा, अर्तित्वा। <<ऋतेरीयङ्>> (३.१.२९) आर्धधातुके विकल्पितः। स यत्र पक्षे नास्ति तत्रेदम् उदाहरणम्। सेड् इत्येव — वक्त्वा॥
सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥
ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥