अनोरकर्मकात्

1-3-49 अनोः अकर्मकात् धातवः आत्मनेपदम् कर्तरि वदः व्यक्तवाचां समुच्चारणे

Kashika

Up

index: 1.3.49 sutra: अनोरकर्मकात्


वदः इति, व्यक्तवाचाम् इति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुः सादृश्ये। यथा कलापोऽधीयानो वदति तथा कठः इत्यर्थः। अकर्मकातिति किम्? पूर्वम् एव यजुरुदितमनुवदति। व्यक्तवाचम् इत्येव। अनुवदति वीणा।

Siddhanta Kaumudi

Up

index: 1.3.49 sutra: अनोरकर्मकात्


व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ।

Balamanorama

Up

index: 1.3.49 sutra: अनोरकर्मकात्


अनोरकर्मकात् - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् ।

Padamanjari

Up

index: 1.3.49 sutra: अनोरकर्मकात्


व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह - व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥