2-2-34 अल्पाच्तरम् आ कडारात् एका सञ्ज्ञा समासः पूर्वम् द्वन्द्वे
index: 2.2.34 sutra: अल्पाच्तरम्
द्वन्द्वे इति वर्तते। अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ। धवखदिरपलाशाः। बहुष्वनियमः शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः। ऋतुनक्षत्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः। हेमन्तशिशिरवसन्ताः। चित्रास्वाती। कृत्तिकारोहिण्यौ। समानाक्षराणाम् इति किम्? ग्रीष्मवसन्तौ। लघ्वक्षरं पूर्वं निपततीति वक्तव्यम्। कुशकाशम्। शरशादम्। अभ्यर्हितं च पूर्वं निपततीति वक्तव्यम्। मातापितरौ। श्रद्धमेधे। दीक्षातपसी। वर्णानामानुपूर्व्येण पूर्वनिपातः। ब्राह्मणक्षत्रियविट्शूद्राः। समानाक्षराणाम् इत्यत्र न अस्ति। भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः। युधष्ठिरार्जुनौ। सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः। द्वित्राः। त्रिचतुराः। नवतिशतम्।
index: 2.2.34 sutra: अल्पाच्तरम्
शिवकेशवौ ।<!ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण !> (वार्तिकम्) ॥ हेमन्ताशिशिरवसन्ताः । कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ ।<!लघ्वक्षरं पूर्वम् !> (वार्तिकम्) ॥ कुशकाशम् ।<!अभ्यर्हितं च !> (वार्तिकम्) ॥ तापसपर्वतौ ।<!वर्णानामानुपूर्व्येण !> (वार्तिकम्) ॥ ब्राह्मणक्षत्रियविट्शूद्राः ।<!भ्रातुर्ज्यायसः !> (वार्तिकम्) ॥ युधिष्ठिरार्जुनौ ॥
index: 2.2.34 sutra: अल्पाच्तरम्
शिवकेशवौ॥
index: 2.2.34 sutra: अल्पाच्तरम्
अल्पाच्तरम् - अल्पाच्तरम् । अल्पः=अल्पसङ्ख्योऽच्यस्य तदल्पाच्, तदेवाऽल्पाच्तरम् । अत एव निपातनात्स्वार्थे तरप्, कुत्लाऽभावश्च । अल्पसङ्ख्याऽच्कं पदं द्वन्द्वे पूर्वं प्रयोज्यमित्यर्थः । शिवकेशवाविति । हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्जवादत्वादिति भावः । यदि तु 'द्विवचनविभज्य' इत्यादिशयार्थे तरप्स्यात्, तदा 'धवखदिरपलाशा' इत्यत्र बहुषु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरबिति स्थितम् । ऋतुनक्षत्राणामिति ष समानसङ्ख्याऽच्कानाम् ऋतूनां नक्षत्राणां च द्वन्द्वे आनुपूर्व्येण=क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरबसन्ता इति । त्रयाणामृतूनामानुपूर्व्यं लोकप्रसिद्धम् । एवं कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति । विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः, किंतु अल्पाच्त्वाद्ग्रीष्मस्य पूर्वनिपातः । लघ्वक्षरं पूर्वं । लघु अक्षरमच् यस्य तद्द्वन्द्वे पूर्वं प्रयोज्यमिति वक्तव्यमित्यर्थः । कुशकाशमिति । समाहारद्वन्द्वोऽयम् । अभ्यर्हितं चेति । श्रेष्ठः पूर्वं प्रयोज्य इति वक्तव्यमित्यर्थः । तापसपर्वताविति । पर्वतस्य स्थावरजन्मतया तापसस्य तदपेक्षया अभ्यर्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदाहृतम् ।गर्भधारणपोषाभ्यां पितुर्माता गरीयसी॑त्यादिस्मृतेरिति तदाशयः ।वर्णानामानुपूर्व्येणेति । एषां क्रमेण पूर्वनिपातः ।ब्राहृक्षत्रियविट्छूद्वा वर्णाः॑ इत्यमरः । तेषामानुपूर्व्यं तुप्रजापतिरकामयत प्रजायेयेति, स मुखतस्त्रिवृत्तं निरमिभीते॑त्यादितैत्तिरीयब्राआहृणादिसिद्धम् । भ्रातुज्र्यायस इति । ज्येष्ठभ्रातुः पूर्वनिपात इत्यर्थः ।अत्र 'द्वन्द्वे घि'अजाद्यदन्त॑मिति विधिद्वयम् 'अल्पाच्तरं'लघ्वक्षरं पूर्वम्,ऋतुनक्षत्राणाम्, 'अभ्यर्हितं च' 'भ्रातुज्र्यायसः' इति विधिभिः परत्वाद्बाध्यते । भाष्ये तुसर्वत एवाभ्यर्हितं पूर्वं निपतती॑ति मतान्तरं स्थितम् ।
index: 2.2.34 sutra: अल्पाच्तरम्
अल्पाच्तरम्॥ अत एव निपानतात्स्वार्थे तरप्, कुत्वाभावश्च। यदि तु प्रकर्षे तरप् चेतदा'धवखदिरपलाशाः' इत्यादौ बहुषु सन्निहितेषु द्विवचनोपपदत्वाभावादस्याप्रवृतावनियमः स्यात्। द्वयोरेव तु स्यात् - प्लक्षन्यग्रोधाविति। शङ्खदुन्दुभिवीणा इति। तूर्याङ्गानामित्येकवद्भावो न भवति; तूर्यशिल्पोपजीविनामेव तत्र ग्रहणात्। नियतद्रव्यविवक्षायां जातिरत्वाभांवात्'जातिरप्राणिनाम्' इत्येतदपि न भवति। शङ्खवीणाभ्यां दुन्दुभेर्द्वन्द्वे दुन्दुभिशङ्खवीणा इत्यपि भवति। एवं मृदङ्गश्च शङ्खपणवौ च मृदङ्गशपणङ्खवाः, धनपतिश्च रामकेशवौ च प्रासादो धनपतिरामकेशवानामित्यादि भवति। तथा होता च पोता च नेष्टा चोद्राता चेति बहूनां युगपद् द्वन्द्वे तृतीयस्योतरपदमनन्तरमिति तस्यैवानङ् भवति, नेतरयोः - होतृपोतृनेष्टोद्रातारः। द्वयोर्द्वयोर्द्वन्द्वे त्रयाणामप्यानङ् भवति - होतापोतानेष्टोद्रातार इति। एवमन्यत्रापि द्वन्द्वक्रियायामानुपूर्व्यविशेषाद्रूपविशेषो वेदतव्यः। पूर्वाभ्यामल्पाच्तरमित्येतत्पूर्वानुसारेण गम्य मानत्वाद् वृतौ न पठितम्।'द्वन्द्वे घि' इत्यस्यावकाशः - पटुअगुप्तौ, ठल्पाच्तरम्ऽ इत्यास्यावकाशः - प्लक्षन्यग्रोधौ; वअगग्नी इत्यत्रोभयप्राप्तौ अल्पाच्तरमित्येतद्भवति। अजाद्यदन्तमित्यस्यावकाशः - उष्ट्रखरम्, अल्पाच्तरमित्यस्य स एव; वागिन्द्रावित्यत्रोभयप्राप्तौ ठल्पाच्तरम्ऽइत्येतद्भवति। ऋतुनक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। मातापितराविति। ठाचायं!श्रेष्ठो गुरूणाम्, मातेत्येके, इति स्मृतिः।'पितुर्द्दशगुणं माता गौरवेणातिरिच्यते' इति च। श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेत्यभ्यर्हितत्वं श्रद्धायाः। दीक्षातपसी इति दीक्षार्थं तप इत्यभ्यर्हितत्वं दीक्षायाः। लघ्वक्षरादपि तपसो विप्रतिषेधादभ्यर्हितमित्येतदेव भवति। समानाक्षराणामित्यत्र नास्तीति। तेन ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं न कृतमिति भावः। वर्णानामुत्पत्तिकृतमानुपूर्व्यं श्रूयत एव -'मुखतो ब्राह्मणमसृजद्वाहुभ्यां राजन्यमूरुभ्यां वैश्यं पद्भ्यां शूद्रम्' इति। संख्याया अल्पीयस्या इति। द्वन्द्वे चाद्वन्द्वे चेत्याहुः। अल्पीयस इति पाठे अल्पीयसोऽर्थस्य वाचिकाया इत्यर्थः। नवतिशतमिति। द्वन्द्वः,'द्व्येकयोः' इति तु सौत्रो निर्देशः॥