नेर्विशः

1-3-17 नेः विशः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

नेः विशः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

'नि' उपसर्गात् 'विश्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When the उपसर्ग 'नि' is attached to the verb 'विश्', it gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

<<शेषात् कर्तरि०>> १.३.७८ इति परस्मैपदे प्राप्ते निपूर्वाद् विश आत्मनेपदं विधीयते। नेःपरस्माद् विश आत्मनेपदं भवति। निविशते। निविशन्ते। नेरिति किम्? प्रविशति। <<यदागमास्तद्ग्रहणेन गृह्यन्ते>>, तेनाटा नास्ति व्यवधानम्। न्यविशत। नेरुपसर्गस्य ग्रहणम् <<अर्थवद्ग्रहणे नानर्थकस्य>> इति। तस्मादिह न भवति — मधुनि विशन्ति भ्रमराः॥

Siddhanta Kaumudi

Up

निविशते ॥

Laghu Siddhanta Kaumudi

Up

निविशते॥

Neelesh Sanskrit Detailed

Up

यद्यपि विश् (प्रवेशने) अयं परस्मैपदी धातुः, तथापि नि-उपसर्गपूर्वकः विश्-धातुः आत्मनेपदस्य प्रत्ययान् प्राप्नोति । यथा - निविशते (इत्युक्ते, अन्तर्गच्छति / अदृश्यः भवति, आदयः) । ज्ञातव्यम् - लङ् / लृङ् / लुङ्-लकारेषु यद्यपि 'नि + विश्' एतयोः मध्ये अडागमस्य व्यवधानं दृश्यते, तथापि << यदागमाः तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते >> अनया परिभाषया सः अडागमः धात्ववयवः एव मन्यते, अतः तत्रापि आत्मनेपदमेव भवति । यथा - न्यविशत ।

Balamanorama

Up

<<नेर्विशः>> - नेर्विशः । निपूर्वाद्विश आत्मनेपदं स्यादित्यर्थः । नेति निवृत्तम् । यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः, अटा व्यवधानात्टो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वऽभावात्, तथापिअड्व्यवाये उपसङ्ख्यान॑मिति वार्तिकाद्भवतीति 'शदेः शितः' इत्यत्र भाष्ये स्पष्टम् ।

Padamanjari

Up

शेषात्कर्तरि परस्मैपदे प्राप्ते इति। अनारम्भस्यापि शेषपक्षे निक्षेपात्। आत्मनेपदं विधीयत इति। यद्यपि तिबादिसूत्रापेक्षया सर्वस्यैव प्रकरणस्य नियमार्थत्वम्, ठनुदातङ्ति आत्मनेपदम्ऽठ्भावकर्मणोःऽ इति सूत्रद्वयायेक्षया तु विध्यर्थत्वमपि सम्भवतीति मत्वैवमुक्तम्। एवं सर्वत्र द्रष्टव्यम्। न्यविशतेत्यत्र लङ् इनिविश् ल् इति स्थिते लादेशो लकारमात्रापेक्षत्वाद् अन्तरङ्गः, अडागमस्तु लुङदिविशेषापेक्षत्वाद्बहिरङ्ग इति पूर्वं लादेशे विकरणश्च प्राप्नोति अडागमश्च, नित्यत्वाद्विकरणः। अडागमो हि विकरणे कृते तदन्तमेव लङ् पिरतोऽङ्गम् तदादिग्रहणस्य स्यादिनुमर्थत्वादिति तस्यैव प्राप्नोति, अकृते विकरणे धातुमात्रस्योति शब्दान्तरप्राप्तेरनित्यः;ततश्च विकरणान्तस्य विधीयमानोऽडागमो धातुमात्रं प्रत्यभक्त इति नेश्च धातोश्च व्यवधायक इत्यात्मनेपदं न प्राप्नोतीत्यत आह-यदागमा इत्यदि। एवं मन्यते-बाह्यएपसर्गसम्बन्धापेक्षत्वादयं विधिर्बहिरङ्गः, अस्मिंश्चाप्रवृते लादेशोऽप्यप्रवृत एव, अपवादविषयपरिहारेण हि तेन प्रवर्तितवयम्। अनिर्वृतश्च लादेशो विकरणोत्पतौ न निमितम्, तेन लावस्थायामेवाड् भवन् धातुमात्रस्यैव भवति, ततश्च तदवयवत्वान्न तस्यैव वयवधायक इति । कथं तर्ह्युक्तम् - व्यवधानेऽपि भवतीति? श्रुतिमात्रापेक्षया। क्वचितु-अटा नास्ति व्यवधानमित्येव पाठः। मधुनि विशन्तीति अङ्गभक्तो नुम् णेóरनवयव इति निशब्दस्यानर्थक्यम्। क्वचितु मधूनि निविशन्ति भ्रमरा इति शसन्तं पठ।ल्ते॥