चतुर्थी सम्प्रदाने

2-3-13 चतुर्थी सम्प्रदाने अनभिहिते अत्यन्तसंयोगे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

संप्रदाने कारके चतुर्थी विभक्तिर्भवति। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयतीत्यादि॥ चतुर्थीविधाने तादर्थ्य उपसंख्यानम्॥ यूपाय दारु। कुण्डलाय हिरण्यम्। रन्धनाय स्थाली। अवहननायोलूखलम्॥ क्ऌपिसंपद्यमाने चतुर्थी वक्तव्या॥ मूत्राय कल्पते यवागूः। उच्चाराय कल्पते यवागूः॥क्ऌपीत्यर्थनिर्देशः॥ मूत्राय संपद्यते यवागूः। मूत्राय जायते यवागूः॥ उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या॥

वाताय कपिला विद्युदातपायातिलोहिनी।

पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्॥

॥ हितयोगे चतुर्थी वक्तव्या॥ गोभ्यो हितम्। अरोचकिने हितम्॥

Siddhanta Kaumudi

Up

विप्राय गां ददाति । अनभिहित इत्येव । दानीयो विप्रः ।<!क्रियया यमभिप्रैति सोऽपि संप्रदानम् !> (वार्तिकम्) ॥ पत्ये शेते ।<!यजेः कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा !> (वार्तिकम्) ॥ पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

विप्राय गां ददाति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चतुर्थी सम्प्रदाने>> - चतुर्थी सम्प्रदाने । विप्रायेति । विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहित इत्येवेति । अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति । दानोद्देश्य इत्यर्थः ।कृत्यल्युटो बहुल॑मिति बहुलग्रहणात्संप्रदानेऽनीयर् । तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे 'पत्ये शेते' इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायांक्रियाग्रहणमपि कर्तव्य॑मिति वार्तिकं प्रवृत्तम् ।तदेतदर्थतः सङ्गृह्णाति-क्रियया यमिति । क्रियोद्देश्यमपि संप्रदानमिति यावत् । पत्ये शेते इति । पति मुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः । न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, 'पत्ये शेते' इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात् । तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः । कर्मणः करण संज्ञेत्यादि । वार्तिकमिदम् ।एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती॑ति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति — पशुना रुद्रं यजत इति । अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह — ददातीत्यर्थ इति । इदं वार्तिकं छान्दसमेवेति कैयटः ।

Padamanjari

Up

चतुर्थी संप्रदाने॥ तादर्थ्य इति। तच्छब्देन कार्थं प्रति निर्दिश्यते, तस्मै इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते। तदर्थस्य भावस्तादर्थ्यमिति ष्यञा कार्यकारणसम्बन्धोऽभिधीयते; समासकृतद्धितेषु सम्बन्धाभिधानां भावप्रत्ययेनेति वचनात्। तत्र द्विष्ठत्वेऽपि सम्बन्धस्य षष्ठीवद्विशेषणादेव चतुर्थी भवती - यूपाय दार्विति। हेतुतृतीयापि विशेष्यान्न भवति। हेतुहेतुमद्भावस्यापि चतुर्थ्यैव प्रत्यायितत्वात्, षष्ठीविषये च हेतुतृतीया। इह तु प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमैव भवति। यदि तर्हि तादर्थ्य उपसंख्यानं क्रियते, नार्थः संप्रदाने चतुर्थ्या, योऽपि ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। अवश्यं संप्रदानग्रहणं कर्तव्यम् रुच्यर्थानां प्रीयमाणःऽ इत्याद्यर्थम्। वलृपि संपद्यमान इति। संपतिरभूतप्रादुर्भावरूपोत्पतिरिह गृह्यते, तत्र यद्रूपमुपजायते ततो विकाराच्चतुर्थी। मूत्राय कल्पते यवागूरिति । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायां तु मूत्रं संपद्यते यवागूरिति प्रथमैव भवतीति केचिदाहुः। अन्ये त्वभेदविवक्षायामेव चतुर्थीमिच्छन्ति। यदा तु'जनिकर्तुः प्रकृतिः' इत्यपादानत्वं विवक्ष्यते, तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः - मूत्रं संपद्यते यवाग्वा इति। अन्ये तत्रापि चतुर्थीमिच्छन्ति - मूत्राय संपद्यते यवाग्वा इति। उत्पातेनेति। प्राणिनां शुभाशुभयो सूचको भूतविकार उत्पातः। अरोचकिन इति। अरुचिःउअरोचकम्, रोगाख्यायाम्ऽ इति ण्वुल्, बहुलवचनादस्त्रीलिङ्गता॥