बहुषु बहुवचनम्
1-4-21 बहुषु बहुवचनम्? आ कडारात् एका सञ्ज्ञा
Sampurna sutra
Up
बहुषु बहुवचनम्
Neelesh Sanskrit Brief
Up
बहुत्वस्य निर्देशार्थम् बहुवचनसंज्ञकप्रत्ययाः प्रयुज्यन्ते । यथा - बालाः गच्छन्ति ।
Neelesh English Brief
Up
For referring to many, the बहुवचन forms are used.
Kashika
Up
ङ्याप्प्रातिपदिकात् स्वादयः, लस्य तिबादय इति सामान्येन बहुवचनं विहितम्, तस्यानेन बहुत्वसंख्या वाच्यत्वेन विधीयते। बहुषु बहुवचनं भवति। बहुत्वमस्य वाच्यं भवतीति यावत्। कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः, तदीये बहुत्वे बहुवचनम्। कर्मादिषु बहुषु बहुवचनमित्यर्थः। ब्राह्मणाः पठन्ति। यत्र च संख्या संभवति तत्रायमुपदेशः। अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव॥
Siddhanta Kaumudi
Up
बहुत्वे एतत्स्यात् । रुत्वविसर्गौ । रामः ॥
Laghu Siddhanta Kaumudi
Up
बहुत्वविवक्षायां बहुवचनं स्यात्॥
Neelesh Sanskrit Detailed
Up
यत्र बहुत्वस्य (इत्युक्ते, एकत्वं द्वित्वं च विहाय अन्यसङ्ख्यात्वस्य) निर्देशः करणीयः, तत्र बहुवचनसंज्ञकप्रत्ययाः एव प्रयोक्तव्याः - इति अस्य सूत्रस्य आशयः । यथा, बालाः गच्छन्ति इत्यत्र बालकानां बहुत्वनिर्देशार्थम् बाल-प्रातिपदिकात् बहुवचनसंज्ञकः जस्-प्रत्ययः प्रयुक्तः अस्ति, तथा च गमनक्रियायाः कर्तॄणाम् बहुत्वस्य निर्देशार्थम् गम्-धातोः बहुवचनसंज्ञकः झि इति प्रत्ययः प्रयुक्तः अस्ति ।
बहुवचनम् इति संज्ञा
अष्टाध्याय्याम्
बहुवचनम् इति संज्ञा द्वाभ्यां सूत्राभ्यां पाठ्यते -
1. <<तान्येकवचनद्विवचनबहुवचनान्येकशः>> 1.4.102 इति सूत्रेण आहत्य झि, थ, मस्, झ, ध्वम् तथा च महिङ् इति षण्णाम् तिङ्-प्रत्ययानाम् बहुवचनम् इति संज्ञा विधीयते ।
2. <<सुपः>> 1.4.103 इति सूत्रेण आहत्य जस्, शस्, भिस्, भ्यस्, भ्यस्,आम् तथा च सुप् इति सप्तानां सुप्-प्रत्ययानाम् बहुवचनम् इति संज्ञा विधीयते ।
एतेषाम् बहुवचनसंज्ञकप्रत्ययानां प्रयोगः कुत्र करणीयः इत्यस्मिन् विषये प्रकृतसूत्रेण -
यत्र बहुवचनस्य विवक्षा अस्ति, तत्रैव बहुवचनस्य प्रत्ययः प्रयोक्तव्यः - इति
नियमः कृतः अस्ति । अतः
इदं नियमसूत्रम् ।
सर्वेषाम् कारकाणाम् बहुवचनविवक्षा वर्तते
प्रकृतसूत्रस्य काशिकाव्याख्याने ग्रन्थकारः ब्रूते -
कर्मादिषु बहुषु बहुवचनम् । सर्वषाम् अपि कारकाणाम् बहुवचनत्वविवक्षा सम्भवति, तदर्थं च बहुवचनस्य प्रत्ययाः एव प्रयुज्यन्ते इति अस्य अर्थः । एवमेव न, अपितु सम्बन्धस्य, प्रातिपदिकमात्रस्य च बहुत्वनिर्देशार्थम् अपि बहुवचनस्य प्रत्ययाः प्रयुज्यन्ते । तद्यथा -
1. बालैः गम्यते इत्यत्र कर्तृकारकस्य बहुत्वनिर्देशार्थम् बाल इति प्रातिपदिकात् भिस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
2. ग्रन्थान् पठति इत्यत्र कर्मकारकस्य बहुत्वनिर्देशार्थम् ग्रन्थ इति प्रातिपदिकात् शस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
3. पादैः चलति इत्यत्र करणकारकस्य बहुत्वनिर्देशार्थम् पाद इति प्रातिपदिकात् भिस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
4. ब्राह्मणेभ्यः ददाति इत्यत्र सम्प्रदानकारकस्य बहुत्वनिर्देशार्थम् ब्राह्मण इति प्रातिपदिकात् भ्यस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
5. ब्राह्मणेभ्यः स्वीकरोति इत्यत्र अपादानकारकस्य बहुत्वनिर्देशार्थम् ब्राह्मण इति प्रातिपदिकात् भ्यस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
6. ग्रामेषु विहरति इत्यत्र अधिकरणकारकस्य बहुत्वनिर्देशार्थम् ग्राम इति प्रातिपदिकात् सुप् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
7. देवानां राजा इत्यत्र सम्बन्धस्य निर्देशार्थम् देव इति प्रातिपदिकात् आम् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
8. बालाः गच्छन्ति इत्यत्र प्रातिपदिकमात्रस्य बहुत्वनिर्देशार्थम् बाल इति प्रातिपदिकात् जस् इति बहुवचनसंज्ञकः प्रत्ययः प्रयुक्तः अस्ति ।
बहुत्वभिन्नस्थलेषु अपि बहुवचनस्य प्रयोगः
कुत्रचित् बहुत्वं विना अपि विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । तदर्थम् अष्टाध्याय्यां त्रीणि सूत्राणि पाठितानि सन्ति -
1. <<जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्>> 1.2.58 इति सूत्रेण जातिनिर्देशार्थम् विकल्पेन बहुवचनं प्रयोक्तुं शक्यते । यथा - ब्राह्मणाः पूज्याः । अत्र अनेके ब्राह्मणाः पूज्याः इति अर्थः विवक्षितः नास्ति, अपितु ब्राह्मणजातिः पूज्या इति अर्थः विवक्ष्यते ।
2. <<अस्मदो द्वयोश्च>> 1.2.59 इति सूत्रेण अस्मद्-शब्दस्य सन्दर्भेण एकत्वविवक्षायां द्वित्वविवक्षायां च विकल्पेन बहुवचनस्य प्रयोगः सम्भवति । यथा - एकः एव मनुष्यः स्वस्य निर्देशं कुर्वन् वयं ब्रूमः इति वक्तुम् अर्हति । एवमेव द्वौ जनौ अपि पुनः मिलामः इति वदतः चेत् तद् साधु एव ।
3. <<फल्गुनीप्रोष्ठपदानां च नक्षत्रे>> 1.2.60 इति सूत्रेण फल्गुनी तथा च प्रोष्ठपद इत्येतयोः नक्षत्रयोः निर्देशः विकल्पेन बहुवचनप्रत्ययेन अपि सम्भवति । यथा - कदा पूर्वाः फल्गुन्यः, कदा पूर्वाः प्रोष्ठपदाः ।
भाषाविशेषः - आदरार्थे बहुवचनम्
अद्यतनकाले
आदरस्य निर्देशार्थम् लोके
एकत्वे विवक्षिते अपि बहुवचनम् एव प्रयुक्तम् दृश्यते । यथा, एकसङ्ख्यात्मकम् अपि गुरुम्, ज्येष्ठम् वा उद्दिश्य
भवन्तः कथम् सन्ति,
भवद्भ्यः नमः,
आचार्याः वदन्ति इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति । एतेषां साधुत्वार्थम् <<अस्मदो द्वयोश्च>>
1.2.59 इति सूत्रस्य साहाय्यं स्वीक्रियते । अस्मिन् सूत्रे विद्यमानः चकारः
अनुक्तसमुच्चयार्थः अस्ति इति मत्वा अनेन चकारेण एतादृशानां प्रयोगाणाम् सङ्ग्रहः भवति इति अत्र शिष्टानाम् अभिप्रायः अस्ति ।
##Balamanorama
<<बहुषु बहुवचनम्>> - बहुषु । पूर्वसूत्राऽवैरूप्यायेहापि बहुशब्दो बहुत्वपर इत्याह — बहुत्व इति । नचात्र सूत्रे बहुशब्दस्य बहुत्वपरत्वेऽपि बहुत्वस्य एकत्वाद्बहुष्विति बहुवचनं कथमिति शङ्क्यम्, बहुत्वसंख्याधरद्रव्यगतबहुत्वस्य बहुत्वगुणे आरोपेण तदुपपत्तेः । बहुत्वं च त्रित्वचतुष्ट्वादिपराद्र्धसङ्ख्याव्यापकीभूतधर्मविशेषः, नतु त्रित्वाद्यन्यतममित्येकादशस्य प्रथमेबहुवचनेन सर्वप्राप्तेर्विकल्पः स्या॑दिति कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयोः स्थितम् । प्रपञ्चितं चास्माभिरध्वरमीमांसाकुतूहलवृत्तौ । एवंच बहुरोदन इति वैपुल्यवाचिनो बहुशब्दान्न बहुवचनम् । द्वयेकयोरित्यादिप्रायपाठबलेन सङ्ख्यानियतस्यैव तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्र्यादिव्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्बहुवचनं कोशवृद्धव्यवहारबलादित्यलम् । रुत्वविसर्गाविति । रामशब्दात्प्रथमाविभक्तौ एकवचने सुप्रत्यये सति, उकारस्य इत्त्वेन लोपे,ससजुषो॑रिति रुत्वे,खरवसानयो॑रिति विसर्ग इत्यर्थः । स इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थः । असीत्युक्ते हि असकारादावित्यर्थः स्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्न प्रवर्तेत । नचात्र रोरसुप्त्वात्तदन्तस्य पदत्वाऽभावाद्रेफस्य पदान्तत्वाऽभावात्कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोः सुप्त्वात् । नच स्थानिवद्भावे कर्तव्ये त्रैपादिकस्य रोरसिद्धत्वं शङ्क्यम्,इदुदुपधस्य चाप्रत्ययस्ये॑त्यप्रत्ययग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाऽभावज्ञापनात् । तत्र ह्रप्रत्ययग्रहणमग्निᳵकरोति, कविभिᳵकृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्त्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यैवाऽबावात्तद्वैयथ्र्यं स्पष्टमेवेत्यलम् । राम इति ।रमन्ते योगिनो ।ञनन्ते सत्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्राहृआभिधीयते । इति श्रुतिः । 'करणाधिकरणयोश्च' इत्यधिकारे 'हलश्च' इत्यधिकरणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नः संज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् ।
##Padamanjari
बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव। इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमितं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमितम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। तेन स्वरूपमपि स्वार्थो युज्यते। स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते॥ पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः'तूष्णीमि भूवः' इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च ततद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ ततत्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिण्ंó कर्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, च्छिदित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयते इति भेतेत्यादावपि कर्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातपिदिकार्थः। धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति। केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि'पशुना चजेत' इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासतेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वातत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं'कर्मणि द्वितीया' इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति।'कर्मणि द्वितीया' इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति॥