1-2-59 अस्मदः द्वयोः च तदशिष्यं अर्थस्य अन्यप्रमाणत्वात् एकस्मिन् बहुवचनम् अन्यतरस्याम्
अस्मदो योऽर्थस्तस्यैकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति। अहं ब्रवीमि, वयं ब्रूमः। आवां ब्रूवः, वयं ब्रूमः॥ सविशेषणस्य प्रतिषेधो वक्तव्यः॥ अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो ब्रवीमि। अहं पटुर्ब्रवीमि॥ युष्मदि गुरावेकेषाम्॥ त्वं मे गुरुः। यूयं मे गुरवः॥
एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षे अहं ब्रवीमि । आवां ब्रूवः इति वा ।<!सविशेषणस्य प्रतिषेधः !> (वार्तिकम्) ॥ पटुरहं ब्रवीमि ॥
<<अस्मदो द्वयोश्च>> - अस्मदो द्वयोश्च । सविशेषणस्येति ।त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमान्नोन्नताः॑ इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम् ।
ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह - अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥