1-2-58 जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् तदशिष्यं अर्थस्य अन्यप्रमाणत्वात्
अशिष्यमिति निवृत्तम्। जातिर्नामायमेकोऽर्थः, तदभिधान एकवचनमेव प्राप्तम्, अत इदमुच्यते। जातेराख्या जात्याख्या जात्याख्यायामेकस्मिन्नर्थे बहुवचनमन्यतरस्यां भवति। जात्यर्थो बहुवद् भवतीति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते। संपन्नो यवः। संपन्ना यवाः। संपन्नो व्रीहिः। संपन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्त्थेयः। पूर्ववयसो ब्राह्मणाः प्रत्युत्त्थेयाः। जातिग्रहणं किम्? देवदत्तः। यज्ञदत्तः। आख्यायामिति किम्? काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते। किं तर्हि? प्रतिकृतिः। एकस्मिन्निति किम्? व्रीहियवौ॥ संख्याप्रयोगे प्रतिषेधो वक्तव्यः॥ एको व्रीहिः संपन्नः सुभिक्षं करोति॥
एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः ॥
<<जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्>> - जात्याख्यायाम् । आकृत्यधिकरणमन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः । जातिशब्दे एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति 'ब्राआहृणा भोज्या' इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानः शब्दो बहूनर्थान् वक्ति, एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्याह-एकोऽप्यर्थ इति । बहुत्वप्रयुक्तं कार्यं लभत इत्यर्थः ।
जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् - दिष्टिप्रस्थसुवर्णादि मूर्तभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ इति । बैशेषिकाश्च व्यावहरन्ति - पञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्याउ प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः । देवदत इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् ऽलुम्मनुष्येऽ । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिंस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः । संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ॥