फल्गुनीप्रोष्ठपदानां च नक्षत्रे

1-2-60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे बहुवचनम् अन्यतरस्याम् द्वयोः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चकारो द्वयोरित्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्र इति किम्? फल्गुन्यौ माणविके॥

Siddhanta Kaumudi

Up

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः ॥ पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः ॥ नक्षत्रे किम् । फल्गुन्यौ माणविके ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<फल्गुनीप्रोष्ठपदानां च नक्षत्रे>> - फल्गुनी । 'नक्षत्रे' इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह — द्वित्वे इति । पूर्वं प्रोष्ठपदे इति । स्त्रीत्वादौङः शीभावः ।प्रोष्ठपदा भाद्रपदा स्त्रिया॑मित्यमरः । फल्गुन्यौ माणविके इति । फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थेफल्गुन्यषाढाभ्यां टाऽनौ॑ इति टः । टित्त्वान्ङीप् ।

Padamanjari

Up

चकार इत्यादि । केचिदाहुः - ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति - नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते - सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः - आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि - उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥