स्वरितेनाधिकारः

1-3-11 स्वरितेन अधिकारः धातवः

Sampurna sutra

Up

स्वरितेन अधिकारः

Neelesh Sanskrit Brief

Up

अस्मिन् सूत्रपाठे अनुवृत्तेः निर्देशः स्वरितस्वरेण कृतः अस्ति ।

Neelesh English Brief

Up

In this सूत्रपाठ, a स्वरित स्वर is used to denote अनुवृत्तिs.

Kashika

Up

स्वरितेनेतीत्थंभूतलक्षणे २.३.२१ तृतीया। स्वरितो नाम स्वरदोषो वर्णधर्मः। तेन चिह्नेनाधिकारो वेदितव्यः। अधिकारो विनियोगः। स्वरितगुणयुक्तं ंशब्दरूपमधिकृतत्वादुत्तरत्रोपतिष्ठते। <<प्रतिज्ञास्वरिताः पाणिनीयाः>> (व्या०प० १२२)। <<प्रत्ययः>> ३.१.१। <<धातोः>> ३.१.९१। <<ङ्यप्प्रातिपदिकात् ४.१.१। ‘अङ्गस्य>> ६.४.१। <<भस्य>> ६.४.१२९। <<पदस्य>> ८.१.१६

Siddhanta Kaumudi

Up

स्वरितत्वयुक्तं शब्दस्वरुपमधिकृतं बोध्यम् ॥ [(परिभाषा - ) परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः] ॥ [(परिभाषा - ) असिद्धं बहिरङ्गमन्तरङ्गे] ॥ [(परिभाषा - ) अकृतव्यूहाः पाणिनीयाः] ॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्याः उच्चारणे येषां शब्दानां स्वरित-स्वरेण उच्चारणं क्रियते, ते शब्दाः अग्रिमसूत्रेषु अनुवृत्तिरूपेण स्वीकर्तुं शक्यन्ते — इति अस्य सूत्रस्य अर्थः । सूत्रसम्बन्धिनः केचन बिन्दवः 1. प्रकृतसूत्रे उपयुक्तः अधिकारः इति शब्दः अधिकारसूत्रम् अस्मिन् अर्थे प्रयुक्तः नास्ति, अपि तु उत्तरसूत्रेषु उपस्थापनम् (a governing word that can be carried in the further sutras) इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अधिकारसूत्रेषु विद्यमानाः शब्दाः अपि एतादृशम् अग्रिमसूत्रेषु अवश्यं स्वीक्रियन्ते, अतः तेषाम् निर्देशः अपि स्वरितस्वरेण अवश्यम् कृतः स्यात् । परन्तु ये शब्दाः अधिकारसूत्रस्थाः न सन्ति, तेषाम् विषये अपि अनुवृत्तेः निर्देशः स्वरितस्वरस्य साहाय्येन एव कृतः वर्तते — इति अस्य सूत्रस्य आशयः । 2. सूत्राणाम् उच्चारणे प्रयुक्तानाम् उदात्त-अनुदात्त-स्वरित-स्वराणाम् ज्ञानम् अद्यतनकाले सम्पूर्णरूपेण लुप्तम् अस्ति । अतः प्रकृतसूत्रस्य उदाहरणरूपेण कोऽपि शब्दः स्पष्टरूपेण दातुं नैव शक्यते । अद्यतनकाले अनुवृत्तेः ज्ञानम् व्याख्यानाद् एव सम्भवति । इत्युक्ते, <<अङ्गस्य>>, <<धातोः>>, <<ङ्याप्प्रातिपदिकात्>> इत्येते ये शब्दाः अग्रिमसूत्रेषु अनुवर्तन्ते, तेषाम् पाणिनिना कृते उच्चारणे स्वरितः स्वरः अवश्यं स्यात् — इत्येव प्रतिपादनम् इदानीम् शक्यम् । 3. 'अनुवृत्तेः समापनम् कुत्र भवति' अस्मिन् विषये केचन बिन्दवः प्रकृतसूत्रस्य भाष्ये उक्ताः सन्ति, परन्तु सामान्यरूपेण अस्य ज्ञानम् अपि व्याख्यानादेव सम्भवति, इति तत्र निष्कर्षः । अस्मिन् सन्दर्भे अधिकं पिपठिषवः प्रकृतसूत्रस्य भाष्यम् एव पश्येयुः ।

Balamanorama

Up

<<स्वरितेनाधिकारः>> - स्वरितेनाधिकारः । अधिकारः=व्यापृतिः । यथा लोकेअधिकृतो ग्रामेऽसा॑विति व्यापृत इति गम्यते । शब्दस्य च उत्तरसूत्रेष्वनुवृत्तिरेव व्यापृतिः । स्वरितेन=स्वरविशेषेण अधिकार उत्तरत्रानुवृत्तिरूपव्यापारः प्रत्येतव्यः । यत् पदं शास्त्रकृता स्वरिताख्यस्वरविशेषविशिष्टमुच्चारितं तदुत्तरसूत्रेष्वनुवर्तनीयमिति यावत् । फलितमाह — स्वरितत्वयुक्तमित्यादिना । आनुनासिक्यवत्सव्रितोच्चारणमपि प्रतिज्ञागम्यम् । अनुवृत्तावुत्तरावधिस्तु व्याख्यानादेवावगन्तव्यः । यद्यपि निवृत्तिवदनुवृत्तिरपि व्याख्यानादेव भविष्यतीति किं सूत्रेण, तथापि भाष्ये एतत्प्रयोजनं बहुधा प्रपञ्चितम् ।परनित्येति । परादीनां मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तपरमित्यर्थः ।उत्तरोत्तर॑मित्यत्रआनुपूर्व्ये द्वे वाच्ये॑ इति द्वित्वम् ।कर्मधारयवदुत्तरेषु॑ इति कर्मधारयवद्भावात्सुपो लुक् । बलवच्छब्दात्द्विवचनविभज्योपपदे तरबीयसुनौ ॑ इति ईयसुन् ।विन्मतोर्लु॑गिति मतुपो लुक् । परापेक्षया नित्यान्तरङ्गापवादाः, नित्यापेक्षयाऽपि अन्तरङ्गापवादौ, अन्तरङ्गापेक्षयापि अपवाद इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वमिति फलितोऽर्थः । परं विप्रतिषेधसूत्रात् बलवत् । परान्नित्यं यथा — तुदति । अत्र 'तुदादिभ्यः शः' इति शप्रत्ययं बाधित्वा परत्वाल्लधूपधगुणः प्राप्तः, स च शप्रत्यये प्रवृत्ते सति न प्रवृत्तिमर्हति । शप्रत्ययस्तु कृतेऽकृतेऽपि लघूपधगुणे प्रवृत्तिमर्हतीति स नित्यः ।कृताकृतप्रसङ्गी यो विधिः स नित्य॑ इति हि तल्लक्षणम् । अतो नित्यः शप्रत्ययो लघूपधगुणं बाधित्वा प्रथमं प्रवर्तते । ततः 'सार्वधातुकमपित्' इति शस्य ङित्त्वात् 'क्ङिति च ' इति निषेधान्न गुणः । अकॢप्ताऽभावकस्य नित्यशास्त्रस्याऽभावकल्पनापेक्षया कॢप्ताऽभावकस्याऽनित्यशास्त्रस्यैव तत्कल्पनं युज्यत इति नित्यस्य बलवत्त्वे बीजम् । परादन्तरङ्गं यथा — उभये देवमनुष्याः । अत्रप्रथमचरमे॑ति परमपि विकल्पं बाधित्वासर्वादीनी॑ति नित्यैव सर्वनामसंज्ञा भवति, तस्या विभक्तिनिरपेक्षत्वेनारङ्गत्वात् । अल्पापेक्षमन्तरङ्गमिति हि तल्लक्षणम् । तस्य बलवत्त्वे बीजमाह — असिद्धं बहिरङ्गमन्तरङ्गे । अन्तरङ्गशास्त्रे प्रसक्ते बहिरङ्गशास्त्रमविद्यमानं प्रत्येतव्यमित्यर्थः । इयं तु परिभाषावाहौउठ्सूत्रे भाष्ये स्थिता । परादपवादो यथा — दध्ना । अस्थिदधीत्यनङ् । इह परमप्यनेकालिति सर्वादेशं बाधित्वाङिच्चे॑त्यन्तादेशः, तस्य येन नाप्राप्तिन्यायेन तदपवादत्वात् । अपवादस्य बलवत्त्वे बीजं । त्वनुपदमेवोक्तम् । नित्यादन्तरङ्गं यथा — ग्रामणिनि कुले इह । नित्यमपीकोऽचीति नुमं बाधित्वा 'ह्रस्वो नपुंसके' इति ह्रस्वः । प्रथमतः कृते नुम्यनजन्तत्वाध्यस्वो न स्यात् । अन्तरङ्गादपवादो यथा — दैत्यारिः । श्रीशः । परमपि सवर्णदीर्घं बाधित्वाऽन्तरङ्गत्वादाद्गुणे यणि च प्राप्तेऽपवादत्वात्सवर्णदीर्घः ।अकृतव्यूहाः पाणिनीयाः । न कृतः अकृतः, व्यूह=प्रकृतिप्रत्ययविवेचनं यैस्तेऽकृतव्यूहाः पाणिनीयाः=पाणिनिशिष्या इत्यक्षरार्थः । तर्हि सर्वस्य शास्त्रस्य वैयथ्र्यमित्यतोऽध्याह्मत्य व्याचष्टे-निमित्तमित्यादिना । 'सेदुष' इत्याद्युदाहरणम् । तच्च शब्दाधिकारेसेदिवस्शब्दनिरूपणावसरे मूल एव स्पष्टीभविष्यति । इयं परिभाषा निर्मूला निष्फला चेति परिभाषेन्दुशेखरे स्पष्टम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां परिभाषाप्रकरणम्॥***अथ प्राग्दिशीयाः । — — — — — —

Padamanjari

Up

अत्र पारिभाषिकस्य'स्वरितस्य ग्रहणे रषाभ्यान्नोणः' इत्यादौ नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह - स्वरितो नाम वर्णधर्म इति। वर्णमात्रधर्म इत्यर्थः। स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे। क्वचितु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः। तत्र स्वरदोषःऊच्चारणदोषः, अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह - अधिकृतत्वादुतरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता। उतरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते;सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह-प्रतिज्ञास्वरिता इति। प्रत्याय इत्याद्यौदाहरणानि। किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा-देवदताय गौर्द्दीयतां कम्बलश्चेति देवदतायेति गम्यते, तथा'सृ स्थिरे' इत्यादीनां साकाङ्क्षत्वादनुवृतैर्घञादिभिरेव सम्बन्धो भविष्यति? अन्यनिर्देशस्तन्निवर्तकः, तद्यथा - देवदताय गौर्द्दीयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्तको भवति, तथेहापि ठभिविधौ भावेऽ इतीनुण् घञो निवर्तकः स्यात्, ततश्च ठाक्रोशेऽवन्येर्ग्रहःऽ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा। अधिकारपरिमाणज्ञानं तु न ज्ञायते - कियन्तमवधिमधिकारोऽनुवर्तत इति? यथा-प्रागभ्यासविकारेभ्योऽङ्गधिकारः?, धातोरिति प्राक् लादेशेभ्यः? उताध्यायस्य परिसमाप्तेः? एवं तर्ह्युभयार्थमिदम् - अधिकारार्थं च निवृत्यर्थं च । कथम्? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः। इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीयः, यथा - द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः। तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा - अङ्गस्य प्राक् टेः इति तद् गुरु भवति। स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम्। इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः।'ग्रहवृद्दनिश्चिगमश्च' इत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा। यदप्युत्प्रेक्षितम् - आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः- यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम् - अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा -'गोस्त्रियोरुपसर्जनस्य' इत्यत्र स्त्रीग्रहणस्य, न ह्यएतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः॥