प्राक् कडारात् समासः

2-1-3 प्राक् कडारात् समासः आ कडारात् एका सञ्ज्ञा सुप्

Sampurna sutra

Up

प्राक् कडारात् समासः

Neelesh Sanskrit Brief

Up

इतः परम् <<कडाराः कर्मधारये>> 2.2.38 इतिपर्यन्तम् समाससंज्ञकाः वक्ष्यन्ते ।

Neelesh English Brief

Up

The समास term is discussed from this sutra onwards till the end of second पाद of the second chapter.

Kashika

Up

कडारसंशब्दनात् प्राग् यानित ऊर्ध्वमनुक्रमिष्यामः, ते समाससंज्ञा वेदितव्याः। वक्ष्यति — <<यथासादृश्ये>> २.१.७ — यथावृद्धं ब्राह्मणानामन्त्रयस्व। प्राग्वचनं संज्ञासमावेशार्थम्। समासप्रदेशाः — <<तृतीयासमासे>> १.१.३० इत्येवमादयः॥

Siddhanta Kaumudi

Up

कडाराः कर्मधारये <{SK751}> इत्यतः प्राक् समास इत्यधिक्रियते ॥

Laghu Siddhanta Kaumudi

Up

कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्राक् कडारात् समासः>> - प्राक्कडारात् । 'आकडारात्' इत्येवप्रा॑गिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकऋ संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः ।अकर्तरि च कारके संज्ञाया॑मिति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथा च अन्वर्थेयं संज्ञा ।

Padamanjari

Up

ठ्यथाऽसादृश्येऽ इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु'प्रत्ययः' इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः। अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि'दिक्समासे बहुव्रीहौ' 'तृतीयासमासे' 'द्वन्द्वे च ' समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति॥