1-2-30 नीचैः अनुदात्तः अच्
नीचैः अच् अनुदात्तः ।
यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य अधोभागात् भवति, तस्य 'अनुदात्तः' इति संज्ञा भवति ।
A vowel that is pronounced using the lower-half portion of its उच्चारणस्थान is known as अनुदात्त.
अज् इति वर्तते। नीचैरुपलभ्यमानो योऽच् सोऽनुदात्तसंज्ञो भवति। समाने स्थाने नीचभागे निष्पन्नोऽज् अनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्योरुता महत्ता। <<त्वसमसिमनेमेत्यनुच्चानि (फिट्०४.१०)। नम॑स्ते रुद्र नीलकण्ठ सहस्राक्ष। अनुदात्तप्रदेशाः — ‘अनुदात्तौ सुप्पितौ>> (३.१.४) इत्येवमादयः॥
स्पष्टम् ॥ अ॒र्वाङ् ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'अनुदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् अधोभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य अधोभागे एव वायोः चलनम् भवति) तस्य स्वरस्य 'अनुदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —
1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य अधोभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।
2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः अधोभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।
3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः अधोभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।
4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः अधोभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः अनुदात्तसंज्ञकः भवति ।
5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च अधोभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।
6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च अधोभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः अनुदात्तसंज्ञकाः भवन्ति ।
अनेन प्रकारेण निर्दिष्टस्य स्थानस्य केवलम् अधोभागात् यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'अनुदात्तः' नाम्ना ज्ञायते ।
<<नीचैरनुदात्तः>> - अनुदात्तसंज्ञामाह-नीचैरनुदात्तः । स्पष्टमिति उक्तरीत्या ताल्वादिषु अधोभागे निष्पन्नोऽच् अनुदात्तसंज्ञः स्यादिति स्पष्टार्थकमित्यर्थः । अर्वाङ् इति ।अर्वाङ् यज्ञस्संक्राम॑ इत्यृचि आद्योऽकारोऽनुदात्त इत्यर्थः ।
अजिति वर्तते इति । तेन हल् स्रंसनधर्मेणानुदातसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महतेति । महत्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु ऽसिमस्याथर्वणेऽ इत्यन्त उदात इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदातत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्4%अक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, ऽतेमयावेकवचनस्यऽ इत्यत्र ऽअनुदातं सर्वम्ऽ इत्यधिकारातेशब्दोऽनुदातः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदातस्य श्रवणम् । संहितायां तु ऽस्वरितात्संहितायाम्ऽ इत्यैकश्रुत्यं भवति ॥