1-2-31 समाहारः स्वरितः अच्
समाहारः अच् स्वरितः
यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य उर्ध्वभागम् अधोभागम् च प्रयुज्य भवति, तस्य 'स्वरित:' इति संज्ञा भवति ।
A vowel that is pronounced using the upper as well as lower portions of its उच्चारणस्थान is known as स्वरित.
अज् इति वर्तते। उदात्तानुदात्तसमाहारो योऽच् स स्वरितसंज्ञो भवति। सामर्थ्याच् चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाचौ। तौ समाह्रियेते यस्मिन्नचि तस्य स्वरित इत्येषा संज्ञा विधीयते। शि॒क्य॑म्। क॒न्या॑। सा॒म॒न्यः॑। क्व॑। स्वरितप्रदेशाः — <<तित् स्वरितम्>> (६.१.१८५) इत्येवमादयः॥
उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः स्यात् ॥
स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'स्वरितः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणे उदात्तगुणधर्मस्य अनुदात्तगुणधर्मस्य च समाहारः (सम्मिश्रणम्) भवति (इत्युक्ते, यस्य स्वरस्य उच्चारणसमये वायोः चलनम् उच्चारणस्थानस्य ऊर्ध्वभागे अपि भवति, अधोभागे अपि भवति) तस्य स्वरस्य 'स्वरितः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —
1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः स्वरितसंज्ञकः भवति ।
2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वासम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः स्वरितसंज्ञकः भवति ।
3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः स्वरितसंज्ञकः भवति ।
4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः स्वरितसंज्ञकः भवति ।
5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति ।
6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागस्य अधोभागस्य च प्रयोगं कृत्वा सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः स्वरितसंज्ञकाः भवन्ति ।
अनेन प्रकारेण निर्दिष्टस्य स्थानस्य ऊर्ध्वभागात् अधोभागात् च यदि स्वरस्य उच्चारणम् भवति, तर्हि सः स्वरः 'स्वरितः' नाम्ना ज्ञायते ।
सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥