1-1-29 न बहुव्रीहौ सर्वादीनि सर्वनामानि बहुव्रीहौ
बहुव्रीहौ सर्वादीनि न सर्वनामानि
बहुव्रीहिसमासे कर्त्तव्ये सर्वादिगणस्य शब्दानाम् 'सर्वनाम' इति संज्ञा न भवति ।
The words of सर्वादिगण, when used to create a बहुव्रीहिसमास are not called सर्वनाम.
सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाद्यन्तस्य संज्ञा स्यादिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभयाय। द्व्यन्याय। त्र्यन्याय। इह च त्वत्कपितृको मत्कपितृक इत्यकज् न भवति। बहुव्रीहाविति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात् — वस्त्रान्तरवसनान्तरा इति॥
बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथां लौकिके विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् ॥<!संज्ञोपसर्जनीभूतास्तु न सर्वादयः !> (वार्तिकम्) ॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं तृतीयम् सूत्रम् । इदं निषेधसूत्रम् अस्ति । बहुव्रीहिसमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा - 1. प्रियं विश्वं यस्य सः प्रियविश्वः । अत्र 'विश्व' इति शब्दः समासनिर्माणात् पूर्वमेव सर्वनामसंज्ञां त्यजति । अतः अत्र 'प्रियविश्व' शब्दस्य सर्वनामसंज्ञा तु निषिध्यते एव, परन्तु विग्रहवाक्ये विद्यमानस्य 'विश्व'शब्दस्य सर्वनामसंज्ञा अपि निषिध्यते । तथा - प्रियाः विश्वाः येषाम् ते प्रियविश्वाः । अत्र (समासे विग्रहवाक्ये च) 'प्रियविश्व'शब्दस्य रूपाणि 'राम'शब्दसदृशानि एव भवन्ति - प्रियविश्वाय, प्रियविश्वात्, प्रियविश्वे - आदयः । 2. प्रियाः उभये यस्य सः प्रियोभयः । अत्र 'उभय'शब्दस्य सर्वनामसंज्ञा न भवति, अतः 'प्रियोभय'शब्दस्यापि सर्वनामसंज्ञा न भवति । 3. द्वौ अन्यौ यस्मिन् सः द्व्यन्यः । अत्र 'द्वि' तथा 'अन्य' उभयोः शब्दयोः सर्वनामसंज्ञा निषिध्यते ।
<<न बहुव्रीहौ>> - तत्रेदमारभ्यते — ॒न बहुव्रीहौ॑ ।सर्वादीनि सर्वनामानी॑त्यनुवर्तते । बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते । एवं सति सूत्रमिदं व्यर्थं,प्रियसर्वाये॑त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यटमाणत्वात् । अतो व्याचष्टे — चिकीर्षित इति । बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते । तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः । अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति — त्वकं पितेत्यादिना । सर्वनामत्वाऽभावात्कप्रत्ययेप्रत्ययोत्तरपदयोश्चे॑ति त्वमादेशे त्वत्को मत्क इति च रूपम् । ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह — इहेति ।न बहुव्रीहा॑वित्यस्मिन्सूत्र इत्यर्थः । प्रक्रियावाक्य इति । युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स् — इत्यलौकिकविग्रहवाक्य एवेत्यर्थः । लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः । तत्राह-अन्यथेति । न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः । तत्रापीति । अलौकिकविग्रहवाक्येऽपीत्यर्थः ।नन्वलौकिकविग्रहवाक्ये भवत्कच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह — स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः । उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह — अतिक्रान्तो भवकन्तमित्यादि । भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवकत् अमति इत्यलौकिकविग्रहवाक्यं संपद्यते । तत्रअत्यादयः क्रान्ताद्यर्थे द्वितीयये॑ति समासे सतिसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने ।ञतिभवकानिति रूपम् । समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति । तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे ।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात् । नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः । ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम् । एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः । तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि — यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात्न बहुव्रीहा॑विति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत् । नचोदाहृतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम् । एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात् । एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते । एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः । प्रत्याचख्याविति । निराकृतवानित्यर्थः । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह — यथोत्तरमिति । सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः । न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे,समर्थानां प्रथमाद्रे॑त्यत्र च वक्ष्यमाणत्वात् । संज्ञोपसर्जनीभूता इति । आधुनिकसङ्केतः संज्ञा । अन्यविशेषणत्वेन स्वार्थोपस्थापकम् — उपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थः ।महासंज्ञेति । टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः ।प्राधान्येनोपस्थिते॑त्यनेन उपसर्जनव्यावृत्तिः ।प्राधान्येनोपस्थितसर्वार्थवाचकत्व॑मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः-॒स्वीये॑ति । सर्वार्थे॑त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संज्ञाकार्यमिति । सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः । अन्तर्गणेति । सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः । तदीयं कार्यम् =॒अद्ड्डतरादिभ्यः॑ त्यदादीनामः॑ इत्यादिकमित्यर्थः । सर्वाय देहीति । संज्ञाशब्दत्वात्समायादेशो न । अतिकतरमिति । कतरमतिक्रान्तं कुलमतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः । अतितदिति । तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, 'तदोः सः सौ' इति च न भवति ।
अत्र वृतौ द्विधा सूत्रार्थो लक्ष्यते - बहुव्रीहाविति निषेधाधिकरणम्-बहुव्रीहि संज्ञा न भवति, बहुव्रीह्याधारा संज्ञा न भवतीति; बहुव्रीहेः संज्ञा न भवतीति । सर्वाद्यधिकरणं वा - बहुव्रीहौ यानि सर्वादीनि तानि सर्वनामसंज्ञानि न भवन्तीति । तत्र सर्वनामसंज्ञायाम् इत्यादिनाऽऽद्यं पक्षं द्वितीयं सूत्रार्थं दर्शयति । कथं पुनर्ज्ञायतेऽभ्युपगतस्तदन्तविधिरिति ? अत एव निषेधात् । द्वितीयं सूत्रार्थं दर्शयति - बहुव्रीहावित्यादि । प्रथमस्योदाहरणमाह - प्रियविश्वायेति । 'सर्वनामसंख्ययोरुपसंख्यानम्' इति सर्वनाम्नः पूर्वनिपाते प्राप्ते 'वा प्रिययस्य' इति प्रियशब्दस्य पूर्वनिपातः । द्व्यन्यायेति । शर्वनामसंख्ययोः' इति द्व्यन्ययोः पूर्वनिपाते प्राप्ते परत्वात् सङ्ख्यायाः पूर्वनिपातः । द्वितीयस्योदहरणमाह - इह चेति । अत्र च प्रतिषेधोऽयमारभ्यत इत्यनुषङ्गः; अत्रासति निषेधेऽकचि सति त्वकत्पितृको मकत्पितृक इति प्राप्नोति, सति तु 'प्रागिवात्कः' इति के सति 'प्रत्ययोतरपदयोश्च' इति त्वमादेशयोस्त्वत्कपितृको मत्कपितृक इति सिद्ध्यति ङद्यःतश्च' इति समासान्ते कपि । ननु च बहुव्रीहावयं निषेधः, इह च प्रागेव; ततस्त्वकं पताऽस्यि अहकं पिताऽस्येति वाक्यावस्थायामेवाकच् प्राप्नोति ? एवं तर्हि प्रतिषेधसामर्थ्यात् यद्वाक्योपमर्देअन बहुव्रीहिर्भवति तस्यामेवावस्थायां निषेधो भविष्यति । अत्र च प्रथमः सूत्रार्थस्तदन्तविविज्ञापनायैवोपन्यस्तः, न तु प्रियविश्वायेत्यादौ समुदायस्य संज्ञाप्रसङ्गः; असर्वार्थत्वात्, यथा अतिसर्वायेत्यादौ । बहुव्रीहाविति वर्तमाने पुनर्बुहुव्रीहिग्रहणं किमर्थमित्याह - बहुव्रीहावित्यादि वस्त्रान्तरवसनान्तरा इति । वसनमन्तरं येषामिति बहुव्रीहौ द्वन्द्वः । अत्रासति बहुव्रीहिग्रहणे वर्तमानद्वन्द्वाश्रयो निषेधः स्यात्, ततश्च जसि विभाषा स्यात् । पुनर्बहुव्रीहिग्रहकणातु यदन्तो द्वन्द्वः, सोऽन्तरशब्दो बहुव्रीहेः पूर्वमत्रासीद् इति बहुव्रीह्याश्रयो नित्य एव निषेधो भवति । इदं तु 'तदन्तस्य संज्ञानिषेध' इति प्रथमपक्षानुरोधेन प्रत्युदाहरणम् । न त्वत्र प्रसङ्गः; असर्वार्थत्वात् । वसन्त्यस्मिन्निति वसनं गृहम्, तेन 'विरूपाणामपि समानार्थानाम्' इत्येकशेषाभावः ॥