1-1-30 तृतीयासमासे सर्वादीनि सर्वनामानि न
सर्वादीनि तृतीयसमासे न सर्वनामानि
तृतीयासमासे विद्यमानस्य सर्वादिगणस्य शब्दानाम् 'सर्वनाम' इति संज्ञा न भवति ।
The words of the सर्वादिगण participating in a तृतीयासमास are not called सर्वनाम.
तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। मासपूर्वाय। संवत्सरपूर्वाय। द्व्यहपूर्वाय। त्र्यहपूर्वाय। समास इति वर्तमाने पुनः समासग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात्। मासेन पूर्वाय। <<पूर्वसदृशसमोनार्थ०>>२.१.३१ इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम्, न यस्य कस्यचित् तृतीयासमासस्य,<<कर्तृकरणे कृता बहुलम्>>२.१.३२ इति। त्वयका कृतम्। मयका कृतम्॥
अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं चतुर्थं सूत्रम् । इदं निषेधसूत्रम् अस्ति । <<पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः>> 2.1.31 इत्यनेन निर्दिष्टस्य तृतीयासमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते । यथा, 'मासेन पूर्वः' इत्यत्र तृतीयातत्पुरुषसमासं कृत्वा 'मासपूर्व' इति शब्दः सिद्ध्यति । अत्र विद्यमानस्य 'पूर्व'शब्दस्य प्रकृतसूत्रेण सर्वनामसंज्ञा निषिध्यते । अतएव अस्य शब्दस्य रूपाणि 'मासपूर्वाः', 'मासपूर्वाय', 'मासपूर्वात्' एतादृशानि 'राम'शब्दसदृशानि भवन्ति । यदि अत्र 'पूर्व'शब्दस्य सर्वनामसंज्ञा अभविष्यत्, तर्हि तदन्तविधिना 'मासपूर्व'शब्दस्यापि सर्वनामसंज्ञा अभविष्यत्, या न इष्यते । अतः अत्र 'पूर्व'शब्दस्य सर्वनामसंज्ञायाः निषेधः कृतः अस्ति । एवमेव 'संवत्सरेण पूर्वः संवत्सरपूर्वः, 'वर्षेण पूर्वः वर्षपूर्वः' एतेषु शब्देषु विद्यमानस्य 'पूर्व'शब्दस्य अपि सर्वनामसंज्ञायाः निषेधः भवति ।
<<तृतीयासमासे>> - तृतीयासमासे ।सर्वादीनी॑त्यतः सर्वनामग्रहणम् ,नबहिव्रीहा॑वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह — इहेति । मासूपार्वायेति । मासेन पूर्व इति विग्रहः । हेतौ तृतीया ।पूर्वसदृशे॑ति तृतीयातत्पुरुषसमासः । मासात्पूर्वभावीत्यर्थः ।विभाषा दिक्समासे बहुव्रीहा॑वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम् । ततश्च फलितमाह — तृतीयासमासार्थेति । द्वन्द्वे च । सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते ।
समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह - पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति । 'युष्मदस्मदोस्तृतीयैकवचने','त्वमावेकवचने', 'योऽचि' सुबन्तयोः प्राक् टेरकच् ॥