1-1-28 विभाषा दिक्समासे बहुव्रीहौ सर्वादीनि सर्वनामानि
दिक्समासे बहुव्रीहौ सर्वादीनि विभाषा सर्वनामानि
दिशावाचकशब्दैः निर्मितः यः बहुव्रीहिसमासः, तस्मिन् विद्यमानाः सर्वादिगणस्य शब्दाः विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
The words of सर्वादिगण in a दिशावाची बहुव्रीहि समास are optionally considered सर्वनाम.
<<न बहुव्रीहौ>>१.१.२९ इति प्रतिषेधं वक्ष्यति, तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभाषेयमारभ्यते। दिशां समासो दिक्समासः। दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसंज्ञानि भवन्ति। उत्तरपूर्वस्यै, उत्तरपूर्वायै। दक्षिणपूर्वस्यै, दक्षिणपूर्वायै। दिग्ग्रहणं किम्? <<न बहुव्रीहौ>>१.१.२९ इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा क्व प्रतिषेध इति। दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेध इति। समासग्रहणं किम्? समास एव यो बहुव्रीहिस्तत्र विभाषा यथा स्यात्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूत्। दक्षिणदक्षिणस्यै देहि। बहुव्रीहाविति किम्? द्वन्द्वे विभाषा मा भूत् — दक्षिणोत्तरपूर्वाणामिति। <<द्वन्द्वे च>>१.१.३१ इति नित्यं प्रतिषेधो भवति॥
अत्र सर्वनामता वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । दिङ्नामान्यन्तराले इति प्रतिपदोक्तस्य दिक्समासस्य ग्रहणान्नेह । योत्तरा सा पूर्वा यस्या उन्मुग्धायास्तस्यै उत्तरपूर्वायै । बहुव्रीहिग्रहणं स्पष्टार्थम् । अन्तरस्यै शालायै । बाह्यायै इत्यर्थः । अपुरीत्युक्तेर्नेह । अन्तरायै नगर्यै ॥
सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं द्वितीयम् सूत्रम् । सर्वादिगणे विद्यमानानाम् शब्दानाम् नित्यं प्राप्ता सर्वनामसंज्ञा विशिष्टे सन्दर्भे अत्र विकल्प्यते ।
<<विभाषा दिक्समासे बहुव्रीहौ>> - तत्र विशेषं दर्शयितुमाह — विभाषा दिक्समासे ।सर्वादीनी॑त्यतःसर्वनाम॑ग्रहणमनुवर्तते । तदाह — अत्रेति । दिक्समासे इत्यर्थः । 'न बहुव्रीहौ' इत्यलौकिकविग्रहवाक्ये नित्यनिषेधे प्राप्ते विकल्पार्थमिति केचित् । गौणत्वादप्राप्ते विभाषेयमित्यन्ये । सर्वनामत्वपक्षे उदाहरति — उत्तरपूर्वस्यै इति । स्याड्ढ्रस्वौ । उत्तरपूर्वायै इति । सर्वनामत्वाऽभावपक्षे याट् । उत्तरपूर्वायाः-उत्तरपूर्वस्याः । उत्तरपूर्वासाम् — उत्त्रपूर्वाणाम् । उत्तरपूर्वस्याम् — उत्तरपूर्वायाम् ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः॑ इति मात्रग्रहणात्संप्रत्यसर्वनामत्वेऽपि पूर्वपदस्य पुंवत्त्वम् । ननूत्तरा दिगिति गत्वा मोहवशात्पूर्वा दिक् यस्याः सा उत्तरपूर्वा । 'अनेकमन्यपदार्थ' इति बहुव्रीहिः । अत्रापि दिक्शब्दघटितसमासत्वात्सर्वनामताविकल्पे उत्तरपूर्वस्यै — उत्तरपूर्वायै इति रूपद्वयं स्यात् । स्याडागमस्तु नेष्यते । तत्राह — दिङ्नामानीति ।दिङ्नामान्यन्तराले॑ इति बहुव्रीहिः प्रतिपदोक्तो दिक्समासः, दिक्शब्दमुच्चार्यं विहितत्वात् । नतु 'अनेकमन्यपदार्थे ' इति बहुव्रीहिरपि । ततश्च लक्षणप्रतिपदोक्तपरिभाषया न तस्येह ग्रहणमित्यर्थः । योत्तरेति । उत्तराशब्दस्य पूर्वाशब्दस्य च सामानाधिकरण्यं द्योतयितुं यत्तच्छब्दौ । सामानाधिकरण्याऽभावे 'अनेकमन्यपदार्थे' इति बुहुव्रीहेरसंभवात्,बहुव्रीहिः समानाधिकरणानां वक्तव्य)॑ इति वचनात् । उन्मुग्धाया इति । तेन पूर्वोत्तरयोर्विरोधात्कथं सामानादिकरण्यमिति शङ्का निरस्ता । ननु 'विभाषा दिक्समासे' इत्येवास्तु, बहुव्रीहिग्रहणं न कर्तव्यं, प्रतिपदोक्तत्वेनदिङ्नामानी॑ति बहुव्रीहेरेव ग्रहणसिद्धेरित्यत आह — बहुव्रीहिग्रहणं स्पष्टार्थंमिति । बाह्रायै इत्यर्थ इति ।अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे॑ति कोशात् । अर्थान्तरपरत्वेन तु सर्वनामत्वाऽभावान्न स्यादिति भावः । अपुरीत्युक्तेरिति ।अन्तरं बहिर्योगेति गणसूत्रे॑ इति शेषः ।
अत्र समासावयवानां सर्वादीनां संज्ञा विकल्प्यत इत वृतौ लक्ष्यते, यथाह- दिगुपदिष्ट इत्यादि । दिशामुपदिष्ट उक्ते 'दिङ्नामान्यतराले' इत्यस्मिन्समासेऽवयवत्वेन वर्तमानानीत्यर्थः । न चावयवानां संज्ञाविकल्पे किञ्चित्प्रयोजनमस्ति, स्मायादिकं तावदङ्गाश्रयम्, काकचोश्च नास्ति विशेषः, दिग्वाचिनामकारान्तत्वात् । शर्वनाम्नो वृत्तिमात्रे' इति पूर्वपदस्य पुंवद्भावोषऽपि न प्रयोजनम्, तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां संप्रत्यसर्वनामत्वेऽपि यथा स्यात्, तथा च दक्षिणपूर्वाया इति संज्ञाभावपक्षेऽपि भवति । स्यादेतत् - अवयवानामेव संज्ञा, कार्यं तु 'अङ्गाधिकारे तस्य च तदुतरपदस्य च' इति । एवमपि दक्षिणपूर्वतः, दक्षिणपूर्वत्रत्यत्र तसिलादयो न स्युः; तस्मात्सर्वाद्यन्ते बहुव्रीहौ संज्ञा विकल्प्यते । 'सर्वादीनि' इत्ययं तु वृत्तिग्रन्थः शर्वाद्यन्ते प्रवर्तमाना संज्ञा सर्वादीन्यपि गोचरयति' इत्येवंपरो व्याख्येयः । यद्वा - अवयवानां संज्ञाविधानेन तदन्तस्यापि सिद्ध्यति, तदन्तविधेरभ्युपगमादिति । समासग्रहणं किमिति । न बहुव्रीहिः समासत्वं व्यभिचरतीति प्रश्नः । दक्षिणदक्षिणस्यै इति । 'एकं बहुव्रीहिवत्' इत्यनुवृतौ 'आबाधे च' इति दक्षिणशब्दस्य द्विर्वचनम् ङ बहुव्रीहौ' इत्ययमपि निषेधो न भवति, तत्रापि समासाधिकारात् । दक्षिणोतरपूर्वाकणामिति । असति बहुव्रीहिग्रहणे यथा ङ बहुव्रीहौ' इति प्रतिषेधं बाधते, एवं 'द्वन्द्वे च' इत्येतमपि बाधेत । अथ क्रियमाणऽपि बहुव्रीहिग्रहणे या पूर्वा सोतरा यस्योन्मुग्धस्य तस्मै पूर्वोतराय देहीत्यत्र कस्मान्न भवति ? प्रतिपदोक्तो यो दिक्समासः-'दिङ्नामान्यन्तराले' इति, तस्य ग्रहणम् । यद्येवम्, तत एव हेतोर्द्वन्द्वे न भविष्यति ? सत्यम्; उतरार्थमवश्यं कर्तव्यं बहुव्रीहिग्रहणमिहापि विस्पष्टार्थं भविष्यतीति मन्यते ॥