1-1-32 विभाषा जसि सर्वादीनि सर्वनामानि न समासे द्वन्द्वे
द्वन्द्वे सर्वादीनि जसि विभाषा सर्वनामानि
सर्वादिगणस्य शब्दैः द्वन्द्वसमासेन निर्मितः शब्दः जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञकः भवति ।
The words formed by the द्वन्द्व समास of the words of सर्वादिगण are optionally called सर्वनाम when they get the 'जस्' pratyay.
पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषारभ्यते। द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। कतरकतमे, कतरकतमाः। जसः कार्यं प्रति विभाषा, अकज् हि न भवति। कतरकतमकाः॥
जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । <<सर्वादीनि सर्वनामानि>> 1.1.27 इत्यस्मात् सूत्रात् आरभ्य <<अन्तरं बहिर्योगोपसंव्यानयोः>> 1.1.36 इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं षष्ठं सूत्रम् । इदं विभाषासूत्रम् अस्ति । सर्वादिगणस्य शब्दौ यस्य अवयवौ, तादृशस्य द्वन्द्वसमासस्य <<द्वन्द्वे च>> 1.1.31 इत्यनेन निषिद्धा सर्वनामसंज्ञा जस्-प्रत्यये परे अनेन सूत्रेण विकल्प्यते । यथा, 'पूर्वः च परः च' इत्यत्र द्वन्द्वसमासं कृत्वा 'पूर्वपर' इति शब्दः सिद्ध्यति । अस्य समस्तपदस्य सर्वनामसंज्ञायाः<<द्वन्द्वे च>> 1.1.31 इत्यनेन निषेधे प्राप्ते जस्-प्रत्यये परे प्रकृतसूत्रेण इयं सर्वनामसंज्ञा विकल्पेन भवति । अतएव 'पूर्वपर' शब्दस्य पुंल्लिङ्गस्य प्रथमाबहुवचनस्य 'पूर्वपराः' तथा 'पूर्वपरे' इति द्वे रूपे भवतः । एवमेव 'कतराश्च कतमाश्च कतरकतमे कतरकतमाः वा' इति भवति ।
<<विभाषा जसि>> - विभाषा जसि । सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च ।जसी॑त्यविभक्तिको निर्देशः । जस इः जशिः । आर्षः सप्तम्या लुक् ।इ॑शब्द इवर्णपरः सन्शी॑तीकारमाचष्टे । ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम् । तदाह — जसाधारमिति । जस् आधारो यस्येति बहुव्रीहिः । जस्स्थानकमित्यर्थः । ननुजसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या॑दित्येव कुतो न व्याख्यायत इत्यत आह — शीभावं प्रत्येवेत्यादिना । यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह — वर्णाश्रमेतरका इति । नचाऽकचि कर्तव्ये विकल्पाऽभावे ।ञपि सर्वादीनी॑ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं,द्वन्द्वे चे॑ति तस्या नित्यानिषेधात् । नचद्वन्द्वे॑चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात् । समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः । अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः । एतदेवाभिप्रेत्योक्तं भाष्ये — ॒वर्णाश्रमेतरशब्दे अकच् न भवती॑ति । एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति 'वर्णाश्रमेतरका' इत्येव रूपम् । यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥
जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् । यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी - जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ? तत्राह - अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥