दिङ्नामान्यन्तराले

2-2-26 दिङ्नामानि अन्तराले आ कडारात् एका सञ्ज्ञा सुप् समासः विभाषा बहुव्रीहिः अनेकम्

Kashika

Up

index: 2.2.26 sutra: दिङ्नामान्यन्तराले


दिशां नामानि दिग्नामानि। दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति। दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा। पश्चिमदक्षिणा। सर्वनम्नो वृत्तिमात्रे पुंवद्भावः। नामग्रहणं रूढ्यर्थम्। इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर्यदन्तरालम् इति।

Siddhanta Kaumudi

Up

index: 2.2.26 sutra: दिङ्नामान्यन्तराले


दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याः पूर्वस्याश्च दिशोऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्र्याश्च कौबेर्याश्चान्तरालं दिक् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.26 sutra: दिङ्नामान्यन्तराले


इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम्? वर्तित्वा। रलः किम्? एषित्वा। सेट् किम्? भुक्त्वा॥

Balamanorama

Up

index: 2.2.26 sutra: दिङ्नामान्यन्तराले


दिङ्नामान्यन्तराले - दिङ्नामानि । नामानीत्यनन्तरंसुबन्तानि परस्पर॑मिति शेषः । प्राग्वदिति । समस्यन्ते, स च बहुव्रीहिरित्यर्थः ।नामानी॑ति बहुत्वविवक्षितमित्यभिप्रेत्योदाहरति — दक्षिणस्याश्चेति । दक्षिणपूर्वेति । स्त्रीत्वं लोकात् । यद्वा अन्तरालमिह दिगेव गृह्रते ।सर्वनाम्नो वृत्तिमात्रे पुंवत्त्व॑मिति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वन्तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति,अत एव भाष्यात् । ननु दिसोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह — नामग्रहणादिति । दिक्षु रूढाः शब्दाःदिङ्नामानी॑त्यनेन विवक्षिताः । ऐन्द्रीशब्दः कोबैरीशब्दश्चेन्द्रसंबन्धात्कुबेरसंबन्धाच्च प्रवृत्तौ यौगिक एव, न रूढ इति भावः ।

Padamanjari

Up

index: 2.2.26 sutra: दिङ्नामान्यन्तराले


दिङ्नामान्यन्तराले॥ दक्षिणपूर्वेति। अन्तरालस्यान्यपदार्थत्वात्पूर्वणैव सिद्धे वचनमिदं त्वमत्वर्थेपि यथा स्यात्प्रथमार्थेपि यथा स्याद्वैयधिकरण्येऽपि यथा स्यात्। किं च'विभाषा दिक्समासे बहुव्रीहौ' इत्यत्र दिशां प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहर्ण यथा स्यात्, यास पूर्वा सोतरास्योन्मुग्धस्य तस्मै उतरपूर्वाय देहीत्यत्र मा भूदित्येवमर्थः। अतस्तदर्थोऽप्ययमारम्भः। कबभावार्थं च'शेषाद्विभाषा' इत्यत्र शेषाधिकारविहितस्य बहुव्रीहेर्ग्रहणम्। ठनेकमन्यपदार्थेऽ इत्यत्रैव शेषग्रहणमनुवर्तते, तेनात्र कम्न भवति।'सर्वनाम्नो वृत्तिमात्रे' इति मात्रग्रहणाद्'विभाषा दिक्समासे' इति यदा सर्वनामसंज्ञा नास्ति तदापि भवति॥