उगितश्च

6-3-45 उगितः च उत्तरपदे ह्रस्वः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उगितश्च परस्या नद्या घादिष्वन्यतरस्यां ह्रस्वो भवति। श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा। विदुषितरा, विदुषीतरा, विद्वत्तरा। पुंवद्भावोऽप्यत्र पक्षे वक्त व्यः। प्रकर्षयोगात् प्राक् स्त्रीत्वस्याविवक्षितत्वाद् वा सिद्धम्॥

Siddhanta Kaumudi

Up

उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । ह्रस्वाभावपक्षे तु तसिलादिषु- <{SK836}> इति पुंवत् । विद्धत्तरा । वृत्त्यादिषु विदुषीतरेत्यप्युदाहृतम् तन्निर्मूलम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उगितश्च>> - उगितश्च । विदुषितरेति ।विदेः शतुर्वसुरिति वसुप्रत्ययः । उगिदन्तमिदम् । अनेकाच्त्वान्नद्याः शेषत्वस्याऽप्राप्तेरिदमिति भावः । विद्वत्तरेति । पुंवत्त्वे ङीपो निवृत्तौ विद्वत्तरेति रूपमित्यर्थः । तन्निर्मूलमिति । पुंवत्त्वस्य दुर्वारत्वादित्यर्थः ।विद्वच्छ्रेयसो पुंवत्त्वं न वक्तव्य॑मिति वृत्तिः । परन्तु वचनमिदं भाष्याऽदृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मताभिप्रायकम् ।

Padamanjari

Up

एपुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पतेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ॥