नाद्घस्य

8-2-17 नात् घस्य पदस्य पूर्वत्र असिद्धम् छन्दसि नुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नकारान्तादुत्तरस्य घसंज्ञकस्य नुडागमो भवति छन्दसि विषये। सुपथिन्तरः। दस्युहन्तमः॥ भूरिदाव्नस्तुड् वक्तव्यः॥ भूरि॒दाव॑त्तरः॒ (ऋ० ८.५.३९)॥ ईद्रथिनः॥ रथिन ईकारान्तादेशो घे परतः। र॒थीत॑रः॒ (ऋ० १.८४.६)। रथशब्दादेव वा मत्वर्थीयोऽयमीकारः <<छन्दसीवनिपौ॰>> (५.२.१०९ वा०) इति॥

Siddhanta Kaumudi

Up

नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ।<!भूरिदान्नस्तुड्वाच्यः !> (वार्तिकम्) ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ।<!ईद्रथिनः !> (वार्तिकम्) ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

भूरिदावतर इति । ठातो मनिन्ऽ इत्यादिना वनिप् । रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तातरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ॥