एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ

8-2-107 एचः अप्रगृह्यस्य अदूरात् हूते पूर्वस्य अर्धस्य आत् उत्तरस्य इदुतौ पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एचोऽप्रगृह्यस्यादूराद्धूते प्लुतविषयस्य पूर्वस्यार्धस्याकार आदेशो भवति, स च प्लुतः, उत्तरस्येकारोकारावादेशौ भवतः। विषयपरिगणनं कर्तव्यम्॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्विति वक्तव्यम्॥ प्रश्नान्ते — अगम३ः पूर्वा३न् ग्रामा३न् अग्निभूता॒३इ, पटा॒३उ। अभिपूजिते — भद्रं करोषि माणवक३ अग्निभूता॒३इ, पटा॒३उ। विचार्यमाणे — हो॒त॒व्यं॑ दीक्षि॒तस्य॑ गृ॒हा३इ (तै०सं० ६.१.४.५)। प्रत्यभिवादे — आयुष्मानेधि अग्निभू॒ता३इ, प॒टा३उ। याज्यान्ते — उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑। स्तोमै॑र्विधेमा॒ग्नया३इ (ऋ० ८.४३.११)। सोऽयम् अकारः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः। इदुतौ पुनरुदात्तावेव भवतः। परिगणनं किम्? विष्णुभूते विष्णुभू॒ते३ घातयिष्यामि त्वा। आगच्छ भो माणवक विष्णुभू॒ते। परिगणने च सत्यदूराद्धूत इति न वक्तव्यम्। पदान्तग्रहणं तु कर्तव्यम्। इह मा भूत् — भद्रं क रोषि गौ॒३ः इति। अप्रगृह्यस्येति किम् ? शोभने खलु स्तः खट्वे॒३॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः॥ अग्ना३इ पत्नी॒वा३ः (तै०सं० १.४.२७.१)॥

Siddhanta Kaumudi

Up

अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ।<!प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव !> (वार्तिकम्) ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ।<!आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः !> (वार्तिकम्) ॥ अग्न 3 इ पत्नी वः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि - प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह - परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद्'वाक्यपदयोरन्त्यस्य' इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात् - पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च'याज्यान्तः' इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता6इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रितीति। अप्राप्त एव प्लुते वचनम्॥