3-3-108 रोगाख्यायां ण्वुल् बहुलम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां
index: 3.3.108 sutra: रोगाख्यायां ण्वुल् बहुलम्
रोगाख्यायां गम्यमानायां धातोः ण्वुल् प्रत्ययो बहुलं भवति। क्तिन्नादीनामपवादः। आख्याग्रहणं रोगस्य चेत् प्रत्ययान्तेन संज्ञा भवति। बहुलग्रहणं व्यभिचारार्थम्। प्रच्छर्दिका। प्रवाहिका। विचर्चिका। न च भवति। शिरोर्तिः। धात्वर्थनिर्देशे ण्वुल् वक्तव्यः। आशिका। शायिका वर्तते। इक्श्तिपौ धातुनिर्देशे। भिदिः। छिदिः। पचतिः। पठतिः। वर्णात् कारः। निर्देश इति प्रकृतम्। अकारः। इकारः। रादिफः। रेफः। मत्वर्थाच् छः। अकारलोपः। मत्वर्थीयः। इणजादिभ्यः। आजिः। आतिः। आदिः। इक् कृष्यादिभ्यः। कृषिः। किरिः।
index: 3.3.108 sutra: रोगाख्यायां ण्वुल् बहुलम्
प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥<!धात्वर्थनिर्देशे ण्वुल्वक्तव्यः !> (वार्तिकम्) ॥ आसिका । शायिका ॥<!इक्श्तिपौ धातुनिर्देशे !> (वार्तिकम्) ॥ पचिः । पचतिः ॥<!वर्णात्कारः !> (वार्तिकम्) ॥ निर्देशे इत्येव । अकारः । ककारः ॥<!रादिफः !> (वार्तिकम्) ॥ रेफः । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥<!इणजादिभ्यः !> (वार्तिकम्) ॥ आजिः । आतिः ॥<!इञ्वपादिभ्यः !> (वार्तिकम्) ॥ वापिः । वासिः । स्वरे भेदः ॥<!इक् कृष्यादिभ्यः !> (वार्तिकम्) ॥ कृषिः । गिरिः ॥
index: 3.3.108 sutra: रोगाख्यायां ण्वुल् बहुलम्
आख्याग्रहणमित्यादि । यदि प्रत्ययान्तं रोगस्य नाम भवति, एवं प्रत्ययो भवति, नान्यथेत्येवमर्थमाख्याग्रहणमित्यर्थः । तेन पदान्तरद्योत्ये रोगे न भवति - बुभुक्षा भस्मकेनेति । भस्मको नाम रोगविशेषस्तत्राशितपीतादिकं शरीरस्य व्यापकं न भवति, सर्वदा च बुभुक्षा भवति । बहुलग्रहणं व्यभिचारार्थमिति ।'क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव' इत्ययं व्यभिचारः । प्रच्छदिकेति । विचचिकेति ।'चर्च अध्ययने' प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः, पामा विचचिका । शिरोतिःउशिरस्तोदः । ठर्द हिंसायाम्ऽ,'तितुत्र' इतीडभावः, पूर्वपदस्य रुत्वम्, ठतोरोरप्लुतात्ऽ इत्युत्वम्, आद्गुणःऽ, ठेङः पदान्तादतिऽ । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । इक्शतपौ धातुनिर्देश इति । धात्वनुकरण इत्यर्थः । बहुलवचनाच्च क्वचिन्न भवति -'गुप्तिज्किद्भ्यः सन्' ,'मान्वधदान्शान्भ्यः' इति । श्तिपः शित्करणसामर्थ्यादकर्तृवाचिन्यप्येतस्मिन् शबादयो भवन्ति । एवमभावकर्मवाचिन्यपि । क्वचिद्यगपि भवति, यथा -'विभाषा लीयतेः' , अत्र लीलीङेर्यका निर्देशः कृतः, श्यनि तु लीङ् एव ग्रहणं स्यात्, न तु लीनातेः । कथं पुनः शित्करणस्य सामर्थ्यम्, यावता पिबतिजिघ्रतिरित्यादौ श्तिपि पिबाद्यादेशार्थं ग्लायत्यदावात्वप्रतिषेधार्थं च शित्करणं स्यात् ? एवं तर्हि ठुपसर्गात्सुनोतिसुवतिस्यतिऽ,'विभाषा लीयतेः' ,'भवतेर्ण उपसंख्यानम्' ,'ध्यायतेः सम्प्रसारणं च' इत्येवमादिनिर्देशाच्छबादयो भविष्यन्ति । वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः, न तु वर्णादुच्चार्यमाणादिति । किं सिद्धं भवति ? ककार इत्यादौ साच्कादपि संघातात्कारः सिद्धो भवति; अकारस्योच्चारणाथत्वेन वर्णमात्रस्यानुकार्यत्वात् । ककारस्येत्संज्ञा प्रत्योजनाभावान्न भवति । बहुलग्रहणाद् ठस्य च्वौऽ'यस्येति च' इत्यादौ कारप्रत्ययो न भवति । बहुलवचनादेव क्वचिद्वर्णसङ्घातादनुकरणादपि भवति - एककार इति । अधातु विहितत्वेऽपि कारप्रत्ययस्य कृत्संज्ञाधिकारसामर्थ्याद्भवति । तेन कृदन्तत्वात्प्रातिपदिकसंज्ञा भवति, इडागमस्त्वनार्द्धधातुकत्वान्न भवति । किमर्थं पुनः कारप्रत्ययो विधीयते, यावता करणं कारः, अस्य कारोऽकार इत्येवमस्तु ? नैवं शक्यम्; एवं हि विज्ञायमाने ककारकरणमिति न स्यात्, करोतेः पौनरुक्त्यात् । रादिफ इति । कारस्यायमपवादः । कथं तर्हि रकारादानि नामानिऽ? वासरूपविधिना कारोऽपि भविष्यति, पूर्ववत्कृत्संज्ञायां प्रातिपदिकत्वम् । मत्वार्थाच्छ इति । मतुना समानार्थो मत्वर्थस्ततः स्वार्थे च्छः । बहुलवचनादभत्वेऽपि यस्येति लोपः, पूर्ववत्प्रतिपदिकत्वम् । बहुलवचनात्क्वचिन्न भवति, यथा -'तसौ मत्वर्थे' इति । बहुलवचनादेव च मतुबर्थशब्दादपि भवति - शैषिकान्मतुबर्थीयादिति । आजिरिति । बहुलवचनाद्वीभावाभावः । इक्कृष्यादिभ्य इति । धात्वर्थनिर्देशे ण्वुलोऽपवादः ॥