8-4-51 सर्वत्र शाकल्यस्य पूर्वत्र असिद्धम् संहितायाम् द्वे न
सर्वत्र द्वे न शाकल्यस्य
शाकल्यमुनेः मतेन यरः कुत्रापि द्वित्वम् न भवति ।
According to शाकल्य, a यर् letter is never duplicated.
शाकल्यस्याचार्यस्य मतेन सर्वत्र द्विर्वचनं न भवति। अर्कः। मर्कः। बह्मा। अपह्नुते॥
द्वित्वं न । अर्कः । ब्रह्मा ॥
<<अचो रहाभ्यां द्वे>> 8.4.46 तथा च <<अनचि च>> 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> 8.4.48 इत्यतः <<दीर्घादाचार्याणाम्>> 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं चतुर्थं सूत्रम् । यर्-वर्णस्य कुत्रापि द्वित्वं न भवति — इति अस्य सूत्रस्य आशयः । यथा — 1. 'ब्रह्म' इत्यत्र <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यनेन विहितम् मकारस्य द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति । 2. 'पत्र' इत्यत्र <<अनचि च>> 8.4.47 इत्यनेन तकारस्य विहितम् द्वित्वम् वस्तुतः न भवति इति शाकल्यः प्रतिपादयति ।
अत्रिप्रभृत्यर्थोऽयमारम्भः ॥