8-4-50 त्रिप्रभृतिषु शाकटायनस्य पूर्वत्र असिद्धम् संहितायाम् द्वे न
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
त्रिप्रभृतिषु यरः द्वे न - शाकटायनस्य
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
शाकटायनस्य मतेन त्रयाणाम् उत अधिकानाम् वर्णानाम् संयोगे यर्-वर्णस्य द्वित्वम् न भवति ।
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
According to शाकटायन, when three or more letters are joined using a संयोग, the द्वित्वम् does not happen.
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्य मतेन द्वित्वं न भवति। इन्द्रः। चन्द्रः। उष्ट्रः। राष्ट्रम्। भ्राष्ट्रम्।
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
त्र्यादिषु संयुक्तेषु वा द्वित्वम् । इन्न्द्रः । इन्द्रः । राष्ष्ट्रम् । राष्ट्रम् ॥
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
अचो रहाभ्यां द्वे 8.4.46 तथा च अनचि च 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् नादिन्याक्रोशे पुत्रस्य 8.4.48 इत्यतः दीर्घादाचार्याणाम् 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं तृतीयम् सूत्रम् । यत्र त्रयाणाम् उत अधिकानाम् वर्णानाम् संयोगः वर्तते, तत्र शाकटायनाचार्यस्य मतेन द्वित्वं नैव सम्भवति — इति अस्य सूत्रस्य आशयः ।
यथा —
अस्मिन् सूत्रे शाकटायन-शब्दः किमर्थम् प्रयुक्तः अस्ति अस्मिन् विषये वैयाकरणेषु मतैक्यम् नास्ति । बालमनोरमाकारस्य मतेन अत्र शाकटायनग्रहणम् विकल्पनिर्देशार्थम् अस्ति । परन्तु अनचि च 8.4.47 तथा अचो रहाभ्यां द्वे 8.4.46 इत्येताभ्याम् द्वाभ्याम् अपि सूत्राभ्याम् पूर्वमेव विकल्पः उक्तः अस्ति, अतः पुनः शाकटायनग्रहणेन कीदृशः विकल्पः उच्यते इति अस्मिन् पक्षे नैव स्पष्टी क्रियते । न्यासकारेण तु शाकटायनग्रहणं पूजार्थम्, नित्यः एव अयं विधिः — इति निर्देशः कृतः अस्ति । इत्युक्ते, न्यासकारस्य मतेन — त्रयाणाम् उत अधिकानाम् यत्र संयोगः विद्यते तत्र अनचि च 8.4.47 तथा अचो रहाभ्यां द्वे 8.4.46 इत्येताभ्याम् द्वाभ्याम् प्राप्तम् वैकल्पिकं द्वित्वम् सम्पूर्णरूपेण निषिध्यते — इति अर्थः ग्रहीतव्यः ।
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
त्रिप्रभृतिषु शाकटायनस्य - त्रिप्रभृतिषु शाकटायनस्य । त्रिचतुरादिषु हल्षु संयुक्तेषु #आद्यस्याऽचः परस्य यरो द्वित्वं शाकटायनमते । मतान्तरे तु नेत्यर्थः । इन्द्र इति नकारस्य द्वित्वविकल्पः । राष्ट्रमित्यत्र षकारस्य द्वित्वविकल्पः ।
index: 8.4.50 sutra: त्रिप्रभृतिषु शाकटायनस्य
इन्द्र इत्यादौ नकारदकारयोर्द्विर्वचनाभावः । भ्राष्ट्रमिति ।'दीर्घादाचार्याणाम्' इत्यस्यासिद्धत्वात् । त्रिप्रभृतिष्वयमेव प्रतिषेधो भवतीति मन्यते ॥