शरोऽचि
8-4-49 शरः अचि पूर्वत्र असिद्धम् संहितायाम् द्वे न
Sampurna sutra
Up
शरः अचि द्वे न
Neelesh Sanskrit Brief
Up
शर्-वर्णस्य अच्-वर्णे परे द्वित्वम् न भवति ।
Neelesh English Brief
Up
A शर्-letter does not undergo द्वित्वम् when followed by an अच् letter.
Kashika
Up
नेति वर्तते। शरोऽचि परतो न द्वे भवतः। <<अचो रहाभ्याम्०>> ८.४.४६ इति प्राप्तिः प्रतिषिध्यते। कर्षति। वर्षति। आदर्शः। अक्षदर्शः। अचीति किम्? दर्श्श्यते॥
Siddhanta Kaumudi
Up
अचि परे शरो न द्वे स्तः । चतुर्षु । प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ । प्रियचत्वारः । गौणत्वे तु नुण्नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । कमलं कमलां वाचक्षणः कमल् । कमलौ । कमलः । षत्वं कमल्षु ॥
Laghu Siddhanta Kaumudi
Up
अचि परे शरो न द्वे स्तः। चतुर्षु॥
Neelesh Sanskrit Detailed
Up
शर् = श्, ष्, स् । अच् = सर्वे स्वराः
<<अचो रहाभ्यां द्वे>> 8.4.46 तथा च <<अनचि च>> 8.4.47 इत्यनयोः द्वयोः सूत्रयोः यर्-वर्णस्य पाठितं द्वित्वम् <<नादिन्याक्रोशे पुत्रस्य>> 8.4.48 इत्यतः <<दीर्घादाचार्याणाम्>> 8.4.52 इत्येतैः पञ्चभिः सूत्रैः विशिष्टासु अवस्थासु निषिध्यते । अस्मिन् द्वित्वनिषेधे प्रकरणे विद्यमानम् इदं द्वितीयम् सूत्रम् । शर्-वर्णात् अनन्तरम् यदि स्वरः विद्यते, तर्हि <<अचो रहाभ्यां द्वे>> 8.4.46 इत्यनेन शर्-वर्णस्य प्राप्तं द्वित्वम् नैव विधीयते — इति अस्य सूत्रस्य आशयः । उदाहरणानि एतानि —
1. चतुर्षु, वर्षति, हर्षः इत्यादिषु शब्देषु रेफात् परस्य षकारस्य <<अचो रहाभ्याम् द्वे>> 8.4.46 इत्यनेन विकल्पेन द्वित्वे प्राप्ते <<शरोऽचि>> 8.4.49 इत्यनेन तत् निषिध्यते ।
2. दर्शनम्, विमर्शः, स्पर्शः इत्यादिषु शब्देषु रेफात् परस्य शकारस्य <<अचो रहाभ्याम् द्वे>> 8.4.46 इत्यनेन विकल्पेन द्वित्वे प्राप्ते <<शरोऽचि>> 8.4.49 इत्यनेन तत् निषिध्यते ।
3. रेफात् परस्य सकारस्य उदाहरणानि नैव विद्यन्ते ।
दलकृत्यम्
1. अचि इति किमर्थम् ? शर्-वर्णात् अनन्तरम् अच्-वर्णः नास्ति चेत् <<अचो रहाभ्यां द्वे>>
8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा,
दर्श्श्यते, दर्श्यते — अत्र शकारात् परः यकारः वर्तते, अतः अत्र शकारस्य अवश्यं द्वित्वम् कर्तुं शक्यते ।
1. शरः इति किमर्थम् ? शर्-भिन्नात् वर्णात् अनन्तरम् अच्-वर्णः अस्ति चेदपि <<अचो रहाभ्यां द्वे>>
8.4.46 इति अवश्यम् वैकल्पिकं द्वित्वं सम्भवति । यथा,
अर्क्कम्, अर्कम् अत्र ककारस्य द्वित्वे कृते अपि साधुरूपम् एव सिद्ध्यति ।
Balamanorama
Up
Padamanjari
Up
आदर्श इति । दृशेरधिकरणे घञ् । दर्श इति । अत्राप्यधिकरणे घञ् । विपरीतलक्षणा चेयम् - न दृश्यतेऽस्मिंश्चन्द्रमा इति दर्श इति ॥