8-4-38 पदव्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे न
index: 8.4.38 sutra: पदव्यवायेऽपि
पदेन व्यवायः पदव्यवायः पदव्यवधानम् । पदेन व्यवायेऽपि सति निमित्तनित्तिनोः नकारस्य णकारादेशो न भवति । माषकुम्भवापेन । चतुरङ्गयोगेन । प्रावनद्धम् । पर्यवनद्धम् । प्र गां नयामः । परि गां नयामः । पदव्यवायेऽतद्धित इति वक्तव्यम् । इह मा भूत्, आर्द्रगोमयेण । शुष्कगोमयेण । गोश्च पुरीषे इति मयट् । स्वादौ पूर्वं पदम् इति गोशब्दः पूर्वपदम् तेन व्यवायः ॥
index: 8.4.38 sutra: पदव्यवायेऽपि
पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ।<!अतद्धित इति वाच्यम् !> (वार्तिकम्) ॥ आर्द्रगोमयेण । शुष्कगोमयेण ॥
index: 8.4.38 sutra: पदव्यवायेऽपि
पदव्यवायेऽपि - पदव्यवायेऽपि । पदेन व्यवधाने इति ।पदेने॑त्यनन्तरंनिमित्तकार्यिणो॑रिति शेषः । न स्यादिति ।न भाभूपूकमिगमी॑त्यस्तदनुवृत्तेरिति भावः । माषुकम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानान्न णत्वम् । चतुरङ्गयोगेनेति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्गं=सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वं बोध्यम् ।उत्तरपदे चाऽपदादिविधौ प्रतिषेधः॑ इति निषेधस्तु नात्र प्रवर्तते, उत्तरखण्डस्य कार्यभाक्त्वे सत्येव तत्प्रवृत्तेः । अत एवन लुमताङ्गस्ये॑त्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तं भाष्ये । अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वरूपकार्यभाक्त्त्वामस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाऽभावात्कुत्वं न भवति । अत एव चकुमति चे॑ति सूत्रे भाष्ये माषाणां कुम्भो माषकुम्भः, बाषकुम्भस्य वापो माषकुम्भवापः । तेन माषकुम्भवापेनेत्यत्रपदव्यवायेऽपीति निषेधप्रवृत्तयेप्रातिपदिकान्ते॑ति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणेत्यत्र 'वि' इत्युत्तरखण्डस्य कार्यभाक्त्वाऽभावात्उत्तरपदत्वे चाऽपदादिविधौ॑ इति प्रत्ययलक्षणनिषेधस्याऽप्रवृत्तौ अन्तर्वर्तिविभक्त्याश्रयणेनपदव्यवायेऽपी॑ति णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्बाधम् ।अतद्धिते इति । अतद्धिते परे यत्पदं तेन व्यवधानेऽयं निषेधो, नतु तद्धितपरकपदेनेत्यर्थः । आद्र्रगोमयेणेति । गोः पुरीषं गोमयं । 'गोश्च पुरीषे' इति गोशब्दात् षष्ठन्तात् मयट् तद्धितः, तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्र्रं गोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दो मयटि पदन्तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव, अस्मिन् प्रकरणे अटकुप्वाङ्नुम्व्यवायस्य अबाधकत्वात् । शुष्कगोमयेणेति । षात्परस्योदाहरणम् । भाष्ये तुपदान्तस्ये॑ति पूर्वसूत्रात्पदग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् ।
index: 8.4.38 sutra: पदव्यवायेऽपि
माषकुम्भवापेनेति । अत्र केचिदाहुः - यदा माषाणां कुम्भो माषकुम्भः, तस्य वाप इति पक्रिया, तदा ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावान्निषेधाप्रवृतेर्भवितव्यमेव णत्वेन, तस्मात् कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति प्रक्रियाश्रयेणोदाहरणमिति । अत्र'कुमति च' इति प्राप्तिः । प्रावनद्धमिति । ठुपसर्गादसमासेऽपिऽ इत्यवशब्दव्यवायेऽपि ठड्व्यवायेऽ इति प्राप्तिः । प्रगान्नयाम इति । च्छन्दस्ययं व्यवहितः प्रयोगः । गामिति द्वितीयान्तेन पदेन व्यवायः । पदव्यवायेऽतद्धित इति । योऽयं पदव्यवाये प्रतिषेधः, स तद्धिते यत्पदं तत्र न भवतीति वक्तव्यमित्यर्थः । आद्रगोमयेणेति ।'गोश्च पुरुषे' इति मयट्, तत्र परतो गोशब्दः'स्वादिषु' इति पदम् ॥