अनितेः

8-4-19 अनितेः पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्

Sampurna sutra

Up

रषाभ्यामुपसर्गात् अनितेः नः णः

Neelesh Sanskrit Brief

Up

रेफयुक्तात् उपसर्गात् परस्य 'अन् (प्राणने)' धातोः नकारस्य णकारादेशः भवति ।

Neelesh English Brief

Up

The नकार of the verb 'अन् (प्राणने)' becomes णकार when the verb is used along with an उपसर्ग that could cause the णत्व to happen (like प्र or परा).

Kashika

Up

अनितेर्नकारस्योपसर्गस्थाद् निमित्तादुत्तरस्य णकारादेशो भवति। प्राणिति। पराणिति॥

Siddhanta Kaumudi

Up

उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति ।{$ {!1071 जक्ष!} भक्षहसनयोः$} । जक्षिति । जक्षितः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अन् प्राणने' इति अदादिगणस्य धातुः । अयम् धातुः यदि रेफयुक्तेन उपसर्गेण सह प्रयुज्यते (यथा - प्र + अन्, परा + अन् आदयः) तर्हि अस्य धातोः नकारस्य वर्तमानसूत्रेण णकारादेशः भवति । यथा, 'प्र + अन्' धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - प्र + अन् + तिप् [प्रथमपुरुषैकवचनस्य प्रत्ययः ] → प्र + अन् + शप् + तिप् [<<कर्तरि शप्>> 3.1.68 इति विकरणप्रत्ययः] → प्र + अन् + तिप् [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति विकरणलोपः] → प्र + अन् + इट् + तिप् [<<रुदादिभ्यः सार्वधातुके>> 7.2.76 इति इडागमः] → प्रानिति [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] → प्राणिति [<<अनितेः>> 8.4.19 इति णत्वम्] एवमेव - परा + अन् इत्यस्य पराणिति इत्यस्मिन् रूपे अपि वर्तमानसूत्रेण णत्वं भवति ।

Balamanorama

Up

<<अनितेरन्तः>> - अन्तः ।अनिते॑रिति सूत्रमनुवर्तते, 'रषाभ्यां नो णः' इति च । अन्त इति षष्ठर्थे प्रथमा.पदस्याऽन्तो विवक्षितः ।उपसर्गादसमासेऽपी॑त्यत उपसर्गादित्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । हे प्राणिति । प्रपूर्वादनेः क्विबन्तात्संबोधनैकवचनस्य हल्ङ्यादिलोपः, नस्य णः । नलोपस्तु न, 'न ङिसंबुद्ध्योः' इति निषेधात् । मित्रशीरिति । मित्राणि शास्तीति विग्रहः । शासः क्विप् । 'शास इदङ्हलोः' नित्युपधाया इत्त्वम्, 'र्वोरुपधायाः' इति दीर्घः । मित्रशिषावित्यादौ अपदान्त्तवान्न दीर्घः । आशासः क्वाविति ।आङः शासु इच्छाया॑मित्यात्मनेपदी । तस्य 'शास इदङ्हलोः' इति इत्त्वं तु न भवति, तत्र परस्मैपदिन एव शासेग्र्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्त्वापत्तेः । अतआशासःर क्वा॑विति विधिः । इत्त्वोत्त्वे इति । गृ धातोः क्विपि, ऋत इत्त्वे,रपरत्वे, सोर्लोपे, 'र्वोरुपधायाः' इतिदीर्घे गीरिति रूपम् । पृधातोः क्विपि,उदोष्ठपूर्वस्ये॑ति ऋत उत्त्वे, रपरत्वे , सुलोपे, उपधादीर्घे पूरिति रूपमित्यर्थः ।

Padamanjari

Up

प्राणितीति ।'श्वस प्राणने' , ठन चऽ, रुदादिभ्यस्सार्वधातुकेऽ इतीट् ॥