8-4-15 हिनु मीना पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे उपसर्गाद्
index: 8.4.15 sutra: हिनुमीना
रषाभ्यां उपसर्गात् हिनु मीना नः णः
index: 8.4.15 sutra: हिनुमीना
णत्वनिमित्तकात् उपसर्गात् परस्य हि-धातोः मी-धातोः च नकारस्य णत्वं भवति ।
index: 8.4.15 sutra: हिनुमीना
The नकार associated with the forms of the verbs हि and मी is converted to णकार in presence of a रेफयुक्त उपसर्ग.
index: 8.4.15 sutra: हिनुमीना
हिनु मीना इत्येतयोः उपसर्गस्थान् निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति। प्रःइणोति। प्रहिणुतः। प्रमीणाति। प्रमीणीतः। हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात्।
index: 8.4.15 sutra: हिनुमीना
उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥
index: 8.4.15 sutra: हिनुमीना
उपसर्गस्थान्निमित्तात्परस्यैतयोर्नस्य णः स्यात्। प्रमीणाति, प्रमीणीते। मीनातीत्यात्वम्। ममौ। मिम्यतुः। ममिथ, ममाथ। मिम्ये। माता। मास्यति। मीयात्, मासीष्ट। अमासीत्। अमासिष्टाम्। अमास्त॥ {$ {! 5 षिञ् !} बन्धने $} ॥ सिनाति, सिनीते। सिषाय, सिष्ये। सेता॥ {$ {! 6 स्कुञ् !} आप्लवने $} ॥
index: 8.4.15 sutra: हिनुमीना
'हि गतौ वृद्धौ च' अयं स्वादिगणस्य धातुः । तथा 'मीञ् हिंसायाम्' अयं क्र्यादिगणस्य धातुः । एतयोः परयोः गणविकरणनिमित्तकः यः नकारः आगच्छति, तस्य रेफयुक्तस्य उपसर्गस्य उपस्थितौ णत्वं भवति ।
यथा -
'प्र + हि' इत्यस्य लट्-लकारस्य रूपाणि - प्रहिणोति, प्रहिणुतः, प्रहिण्वन्ति ... ।
'प्र + मी'इत्यस्य परस्मैपदस्य लट्-लकारस्य रूपाणि - प्रमीणाति , प्रमीणीतः, प्रमीणन्ति ... ।
ज्ञातव्यम् - सूत्रे प्रयुक्तौ 'हिनु' तथा 'मीना' एतौ शब्दौ धात्वोः गणविकरणाभ्यां सह कृतौ निर्देशौ स्तः ।
index: 8.4.15 sutra: हिनुमीना
हिनुमीना - हिनुमीना । हिनु मीना अनयोद्र्वन्द्वात्षष्ठीद्विवचनस्य आर्षो लुक् । 'रषाभ्यां नो णः' इत्यनुवर्तते । 'उपसर्गादसमासेऽपि' इत्यत उपसर्गादिति च । तदाह — उपसर्गस्थादिति ।