अनो नुट्

8-2-16 अनः नुट् पदस्य पूर्वत्र असिद्धम् मतोः सञ्ज्ञायाम् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसीति वर्तते। अनन्तादुत्तरस्य मतोर्नुडागमो भवति छन्दसि विषये। अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः (ऋ० १०.७१.७)। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)। अक्षण्वता लाङ्गलेन (पै०सं० ९.८.१)। शी॒र्ष॒ण्वती॑ (शौ०सं०१०.१.२)। मूर्ध॒न्वती॑ (तै०सं० २.६.२.२)। नुटोऽसिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति॥

Siddhanta Kaumudi

Up

अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि'च्छन्दस्यपि दृश्यते' इति अनङदेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति ।'शीर्षंश्च्छन्दसि' शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति च्छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात्'मादुपधायाः' इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता - णत्वं न स्यात् । इह च सुपथिन्तरः - उतरसूत्रेण नुकि कृते पदान्तत्वात्'नश्च्छव्यप्रशान्' इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्तव्यः, तत्र चोक्तो दोषः । अत आह - नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति - अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ॥