रायो हलि

7-2-85 रायः हलि आः विभक्तौ

Sampurna sutra

Up

रायः अङ्गस्य हलि विभक्तौ आ

Neelesh Sanskrit Brief

Up

'रै' शब्दस्य हलादि-विभक्तिप्रत्यये परे आकारादेशः भवति ।

Neelesh English Brief

Up

The word 'रै' gets an आकारादेश when followed by हलादि विभक्तिप्रत्यय.

Kashika

Up

रै इत्येतस्य हलादौ विभक्तौ परत आकारादेशो भवति। राभ्याम्। राभिः। हलीति किम्? रायौ। रायः। विभक्ताविति किम्? रैत्वम्। रैता। <<मृजेर्वृद्धिः>> ७.२.११४ इत्यतः प्राग् विभक्त्यधिकारः ॥

Siddhanta Kaumudi

Up

रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि विभक्तौ । अचि आयादेशः । राः । रायौ । रायः । रायम् । रायौ । रायः । राया । राभ्यामित्यादि । इत्यैदन्ताः । ग्लौः । ग्लावौ । ग्लावः । ग्लावम् । ग्लावौ । ग्लावः । इत्यादि । औतोऽम्शसोरितीह न प्रवर्तते । ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात् । इत्यौदन्ताः ॥

Laghu Siddhanta Kaumudi

Up

अस्याकारादेशो हलि विभक्तौ । राः । रायौ । रायः । राभ्यामित्यादि ॥ ग्लौः । ग्लावौ । ग्लावः । ग्लौभ्यामित्यादि ॥

Neelesh Sanskrit Detailed

Up

'रै' (ऐकारान्तपुंलिङ्गशब्दः, 'धनम्' इत्यर्थः) अस्य अङ्गस्य हलादौ विभक्तौ परे 'आ' इति आदेशः भवति । यथा- रै + सुँ → राः । रै + भ्याम् → राभ्याम् । रै + सुप् → रासु । ज्ञातव्यम् - 1. <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अयम् अन्त्यादेशः भवति । 2. 'हलि विभक्तौ' इत्यत्र <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> इत्यनेन 'हलादिविभक्तौ परे' इत्यर्थः सिद्ध्यति ।

Balamanorama

Up

<<रायो हलि>> - तस्य हलादिविभक्तिषु विशेषं दर्शयति — रायो हलि । 'राय' इति 'रै' शब्दस्य षष्ठयन्तम् । 'अष्टन आ विभक्तौ' इत्यत 'आ' इति विभक्ता॑विति चानुवर्तते ।हलीत्यनेन विभक्ताविति विशेष्यते, ततस्तदादिविधिः । तदाह — रैशब्दस्येति । हल्ग्रहणादचि आत्वं न, किं तु आयादेश एवैत्यत आह — अचीति । राः आत्वे रुत्वविसर्गौ । अचि आयादेशमुदांहरंति — रायो राय इति । इत्यादिति । राभिः । राये राभ्याम् राभ्यः । राय राभ्याम् राभ्यः । रायः रायोः रायाम् । रायि रायोः रासु । रैशब्दः छान्दस इति भाष्यम् । क्यजन्त एव छान्दस इति पक्षान्तरम् । इत्यैदन्ताः ।अथ औदन्ताः । ग्लौशब्दश्चन्द्रवाची ।ग्लौर्मृगाङ्कः क्लानिधिः॑ इत्यमरः । तस्य हलादौ न कश्चिद्विकारः । अचि तु आवादेश इति मत्त्वाह — मलौर्ग्लावौ ग्लाव इति । ग्लावम्, ग्लावौ, ग्लावः । ग्लावा, ग्लौभ्याम्, ग्लौभिः । ग्लावे, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लौभ्याम्, ग्लौभ्यः । ग्लावः, ग्लावोः, ग्लावाम् । ग्लावि,ग्लावोः,ग्लौषु ।ननु 'औतोऽम्शसोः' इत्यत्र ओद्ग्रहणेन सावण्र्यादौकारस्यापि ग्रहणादम्शसोर्ग्लौशब्दस्याऽऽत्वं कुतो न स्यादित्यत आह — औतोऽम्शसोरितीह न प्रवर्तत इति । ऐऔजित्यादिग्रन्थस्तु संज्ञाप्रकरणे व्याख्यातः । एवं जनानवतीति जनौः । क्विप् । ज्वरत्वरेत्यूठ । एत्येधतीति वृद्धिः । जनावौ । जनाव इत्यादि । इत्यौदन्ताः॥*इति बालमनोरमायामजन्ताः पुंलिङ्गाः*अथ अजन्तस्त्रीलिङ्ग प्रकरणम्****रमेति । रमते इति रमा । 'रमि क्रीडायाम्' पचाद्यचिअजाद्यतष्टाप् । प्रत्ययान्तत्वादप्रातिपदिकत्वेऽपिङ्याप्प्रातिपदिका॑दिति ङ्यापोः पृथग्ग्रहणात्, लिङ्गविशिष्टपरिभाषया वा स्वादयः ।हल्ङ्या॑बिति सुलोपः ।

Padamanjari

Up