7-2-83 ईत् आसः आने
आस उत्तरस्यानशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्या परस्य षष्ठी कल्प्यते॥
आसः परस्यानस्य ईत्स्यात् । आदेः परस्य <{SK44}> । आसीनः ॥
<<ईदासः>> - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।
आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठआआ प्रकल्पयति ॥