अष्टनो दीर्घात्

6-1-172 अष्टनः दीर्घात् अन्तः उदात्तः विभक्तिः अन्तोदात्तात् अञ्चेः छन्दसि असर्वनामस्थानम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अ॒ष्टा॒भिः। अ॒ष्टा॒भ्यः। अ॒ष्टा॒सु। घृतादिपाठादष्टन्शब्दोऽन्तोदात्तः, तत्र <<झल्युपोत्तमम्>>६.१.१८० इत्यस्यापवादो विभक्तेरेवोदात्तत्वं विधीयते। दीर्घादिति किम् ? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत (तु० — कपि० कठ सं० ६.८)। इदमेव दीर्घग्रहणमष्टन आत्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यत इति किं दीर्घग्रहणेन॥

Siddhanta Kaumudi

Up

शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up