7-2-10 एकाचः उपदेशे अनुदात्तात् न इट् वशि
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
उपदेशे अनुदात्तात् एकाचः अङ्गात् इट् न
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
यः धातु औपदेशिक-अवस्थायामनुदात्त-एकाच्-अस्ति, तस्मात् परः इडागमः न भवति ।
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति। प्रकृत्याश्रयोऽयं प्रतिषेधः। के पुनरुपदेशेऽनुदात्ताः? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थमनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते। अनिट्स्वरान्तो भवतीति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः। अदन्तमृ̄दन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि। गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः। इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत। द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च। तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः। अवधिष्ट। ॠदन्तम् तरिता, तरीता। ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता। श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता। उड्डयिता। शयिता। श्रयिता। गणस्थमूदन्तम् लविता। पविता। उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता। प्रस्नविता। क्षविता। प्रोर्णविता। वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् इत्यतिदेशादेकाच्त्वम् ऊर्णोतेरस्तीति उदात्त उपदिश्यते। यविता। नविता। क्ष्णविता। इति स्वरान्ता निपुणं समुच्चितास् ततो हलन्तानपि सन्निबोधत। शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी। घसिः प्रकृत्यन्तरमस्ति घस्ता। वसिः प्रसारणी वस्ता। प्रसारणी इति किम्? वसिता वस्त्राणाम्। वस निवासे इत्यस्य यजादित्वात् संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य। सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे। आरब्धा। यब्धा। लब्धा। यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः। नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्। यन्ता। रन्ता। मन्ता। श्यनि इति किम्? मनुतेः मनिता इत्येव भवति। नन्ता। हन्ता। गन्ता। दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः। इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः। देग्धा। दोग्धा। मेढा। रोढा। वोढा। नद्धा। दग्धा। लेढा। मुक्तसंशयाः इति किम्? तन्त्रान्तरे चत्वारोऽपरे पठ्यन्ते। सहिमुहिरिहिलुहयः। तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ। इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण एव ससंशयौ। दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम्। लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्। देश्टा। द्रष्टा। दंष्टा। आम्रष्टा, आमर्ष्टा। स्प्रष्टा, स्पर्ष्टा। ऋदुपधानामुदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् 6.1.59 इति रमागमविकल्पः। रेष्टा। रोष्टा। क्रोष्टा। प्रवेष्टा। लेष्टा। रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः। इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे। रोद्धा। राद्धा। योद्धा। बन्द्धा। साद्धा। क्रोद्धा। क्षोद्धा। शोद्धा। बोद्धा। व्यद्धा। सेद्धा। बुध्यतिसिध्यत्योः श्यना निर्देशात् न्याय्यविकरणयोर्बुद्धिसिध्योरिड् भवत्येव। बोधिता। सिधिता। निष्ठायामापि प्रतिषेधाभावात् बुधितम्, सिधितम् इत्येव भवति। शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्। इमान्। दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा। शेष्टा। पेष्टा। शोष्ट। पोष्टा। त्वेष्टा। वेष्टा। श्लेष्ट। तोष्टा। दोष्टा। द्वेष्टा। क्रष्ट। कर्ष्टा। कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः। तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्। स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश। तप्ता। तेप्ता। आप्ता। वप्ता। स्वप्ता। लेप्ता। लोप्ता। तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव। इट् त्वनयोः रधादिपाठाद् विकल्पेन भवति। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव। स्रप्ता, सर्प्ता। शप्ता। छोप्ता। क्षेप्ता। अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद् यती खिदिम्। तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः। अत्ता। हत्ता। स्कन्ता। भेत्ता। छेत्ता। क्षोत्ता। शत्ता। सत्ता। स्वेत्ता। स्विद्यतीति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति। उदात्त एव अयम्। पत्ता। खेत्ता। तोत्ता। नोत्ता। वेत्ता। विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशोऽन्यविकरणनिवृत्त्यर्थः। वेत्तिविन्दती उदात्तौ एव। वेदिता विद्यानाम्। वेदिता धनानाम्। पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन्। त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्। पक्ता। वक्ता। विवेक्ता। रेक्ता। रङ्क्ता। प्रष्टा। निर्णेक्ता। सेक्ता। मोक्ता। भक्ता। भङ्क्ता। भ्रष्टा, भर्ष्टा। त्यक्ता। यष्टा। योक्ता। रोक्ता। सङ्क्ता। मङ्क्ता। भोक्ता। परिष्वक्ता। स्रष्टा। मार्ष्टा। मृजिरयमूदित् पठ्यते, ततोऽस्य विकल्पेन इटा भवितव्यम्। मार्ष्टा, मर्जिता इति, अमागमोऽप्यस्य न दृश्यते? तदिह पाठस्य प्रयोजनं चिन्त्यम्। केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति। निजादिषु यो विजिरसौ अनिडिष्यते। तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्युक्तम्। एकाचेति किम्? अवधीत्। वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते। उपदेशग्रहणं किम्? इह च यथा स्यात्, लविष्यति, पचिष्यति। इह च मा भूत्, कर्ता कटान्, कर्तुम् इति।
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाचेति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि - [(परिभाषा - ) श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि] ॥ 1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न ।
ऊदॄदन्तैर्योतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः ।
वृड्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥
कान्तेषु शक्लेकः । चान्तेषु पच्-मुच्-रिच्-वच्-विच्-सिचः षट् । छान्तेषु प्रच्छेकः । जान्तेषु त्यज्-निजिर्-भज्-भञ्ज्-भुज्-भ्रस्ज्-मस्ज्-यज्-युज्-रुज्-रञ्ज्-विजिर्-स्वञ्ज्-सञ्ज्-सृजः पञ्चदश । दान्तेषु अद्-क्षुद्-खिद्-छिद्-तुद्-नुद्-पद्य-भिद्-विद्यति-विनद्-विन्द्-शद्-स्विद्-स्विद्य-स्कन्द्-हदः डश । धान्तेषु क्रुध्-क्षुध्-बुध्य-बन्ध्-युध्-रुध्-राध्-व्यध्-साध्-शुध्-सिद्ध्या एकादश । नान्तेषु मन्य-हनी द्वौ । पान्तेषु आप्-छुप्-क्षिप्-तप्-तिप्-तृप्य-दृप्य-लिप्-लुप्-वप्-शप्-स्वप्-सृप्स्त्रयोदश । भान्तेषु यभ्-रभ्-लभस्त्रयः । मान्तेषु गम्-नम्-यम्-रमश्चत्वारः । शान्तेषु क्रुश्-दंश्-दिश्-दृश्-मृश्-रिश्-रुश्-लिश्-विश्-स्पृशो दश । षान्तेषु कृष्-त्विष्-तुष्-द्विष्-दुष्-पुष्य-विष्-विष्-शिष्-शुष्-श्लिष्या एकादश ॥ सान्तेषु घस्-वसती द्वौ । हान्तेषु दह्-दिह्-दुह्-नह्-मिह्-रुह्-लिह्-वहोऽष्टौ ।
अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम् ।
गोपायाञ्चकर्थ । गोपायाञ्चक्रथुः । गोपायाञ्चक्र । गोपायञ्चकार, गोपायाञ्चकर । गोपायाञ्चकृव । गोपायाञ्चकृम । गोपायाम्बभूव, गोपायामास । जुगोप । जुगुपतुः । जुगुपुः ॥
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
अनेन सूत्रेण 'अनिट्' धातोः व्याख्या दीयते । यस्मिन् धातौ औपदेशिक-अवस्थायाम् (इत्-संज्ञकं स्वरं विहाय) केवलं एकः एव स्वरः अस्ति, स च अनुदात्तः अस्ति, तादृशात् धातोः परः इडागमः न भवति । अतः एतादृशः धातुः 'अनिट्' अस्ति इत्युच्यते ।
यथा -
डुकृञ् (करणे) इत्यत्र ककारात् परः ऋकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - कृ + तृच् → कर्तृ ।
वहँ (प्रापणे) इत्यत्र वकारात् परः अकारः अनुदात्तः अस्ति । अतः अस्मात् परः इडागमः न भवति । यथा - वह् + क्त → वोढ ।
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
एकाच उपदेशेऽनुदात्तात् - अथ लिटि थासः सेभावे 'कृ' इत्यस्य द्वित्वादौ एधां च कृ से इति स्थितेआर्धधातुकस्येड्वलादे॑रितीडागमे प्राप्ते -एकाच उपदेशे । 'ऋत इद्धातो' रित्यतो धातुरित्यनुवर्तते ।नेड्वशि कृती॑त्यतो नेति च । तदाह — उपदेशे यो धातुरेकाजिति । #एकोऽच् यस्येति बहुव्रीहिः । आर्धधातुकस्येति । यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु आर्धधातुकस्येति नोपात्तम् । नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृदन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृतेञ्नत्यादिर्नित्य॑मित्याद्युदात्तत्वात् । यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह — उपदेश इत्युभयान्वयीति । 'उपदेश' इत्येतत्एका॑जित्यत्र, 'अनुदात्ता' दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः । ननूदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति — एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह — एतच्चेति । एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु 'हनो वध लिङि'लुङि चे॑ति आह — अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम् ।एकाच उपदेशेऽनुदात्ता॑दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शकॢपचिमुच्यादीनां परिगणनसामर्थ्येन 'अच' इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ- । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे — हनिति स्थान्युपदेशे — एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ- । कुत इत्यत आह — आदेशोपदेश इति ।अवधी॑दित्यत्र 'अतो हलादेर्लघो' रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के तेऽनुदात्ता धातव इत्यत आह — अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम् । पदमात्रे अतीते सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृषे इति । इडभावे प्रत्ययावयवत्वात्षत्वम् । एधांचक्राथे इति । लिट आथामादेशः । टेरेत्वंद्वित्वादि पूर्ववत् । लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ — ध्वे इति स्थिते ।
index: 7.2.10 sutra: एकाच उपदेशेऽनुदात्तात्
अनुदातादिति बहुव्रीहिः न विद्यते उदातो यस्मिन् सोऽयमनुदातः । पारिभाषिके त्वनुदातेऽज्मात्राणामिणादीनामेव ग्रहणं स्यात्, नाज्झल्समुदायरुपाणं पचिप्रभृतीनाम । ततश्च तेषामनुदातोपदेशोऽनर्थकः स्यात् । अथ वा - अनुदातच्कत्वात्समुदाय एवानुदात तैत्युच्यते, यथा अनुदातं पदम् इति । उपदेशः - प्रकृतिपाठः । अनुदातश्चेति । उपदेशे इत्यपेक्षते । उभयविशेषणं चैतदिष्यते । अन्यतरविशेषणं तु यदि विज्ञायेत - उपदेश एकाचः सम्प्रत्यनुदातादिति, तथैहापि च प्रसज्येत - लविष्यति, पविष्यतीति, भवति ह्यएतत् प्रत्ययस्योदातत्वे शेषनिघातेन सम्प्रत्यनुदातम् थैह च न स्यात् - कर्ता, कर्तुम्, नित्स्वरेण सम्प्रत्युदातत्वात् प्रकृतिपाठे चैषामनुदातोपदेशोऽनर्थकः स्यात् । अथ विज्ञायेत - उपदेशे।ःनुदातादेकाचः श्रूयमाणादिति क्रादिसूत्रे नियमो नोपपद्येत चकृव, चकृमेत्यादौ श्रूयमाणरुपस्यानेकाच्त्वाद्विधिरेव स्यात्, तत्र को दोषः बिभिदिव, बिभिदिम अत्रेडागमो न स्यात् । ननु च सम्प्रत्यनेकाच्त्वादत्र प्रतिषेधास्याप्रसङ्गादेवेड् भविष्यति इह तर्हि पेचिव, पेचिम्, एत्वाभ्यासलोपयोः कृतयोरेकाचः श्रूयमाणादिट्प्रतिषेधः प्राप्नोति । परत्वादिटि कृते एतवाभ्यासलोपौ भविष्यतः नित्यावेत्वाभ्यासलोपौ कृतेऽपीटि प्रप्नतोऽकृतेऽपि इट् पुनरनित्यः - कृतयोस्तयोरेकाच्छः श्रूयमाणादिति प्रतिषेधात् । एवं तर्हि थलि च सेटि इत्यत्र सेट्ग्रहणं कालवाधारणार्थं भविष्यति, कथम् तत्र थल्ग्रहणं न कर्तव्यम्, सेटीत्येतावता सिद्धम्, अत एकहल्मध्ये इत्यादि सर्वमनुवर्तेते, किद्ग्रहणमेकं निवृतम्, न च थलोऽन्यः सेट् किल्लिट् सम्भवति । सोऽयमेषं सिद्धे यत्थल्ग्रहणं करोति तस्यैतत्प्रयोजनम् - किता सह समुच्चयार्थम्, थलि च किति च सेटि एत्वाअभ्यासलोपौ भवत इति । तत्र किति पूर्वेणैव सिद्धे कालावधारणार्थमिदं वचनमिति कृते थएत्वाभ्यासलोपौ यथा स्याताम्, अकृते मा भूतामिति, यथा - निष्ठायां सेटि इत्यत्र । एवमपि विधित्सति, चिच्छित्सतीत्यत्र नित्यत्वाद् द्विर्वचने कृते एकाचः श्रूयमाणादिति प्रतिषेधो न स्यात् तस्मादुभयविशेषणमुपदेशग्रहणम्, तात एवेदं मध्ये पठितम् । यद्यौभयविशेषणम्, बेभिदिता, चेच्छिदिता - अत्रापि प्राप्नोति अल्लोपस्य पूर्स्मादपि विधौ स्थानिवद्भावान्न भविष्यति । यङ्लुगन्त तर्हि प्राप्नोति - बेभेदिता, चेच्छिदिता यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि इति वचनान्न भविष्यति । के पुनरिति । पाठे सङ्करसम्भवात्प्रश्नः । असङ्करेण पठितव्याः इत्युतरम् । प्रविभक्ता इति । स्वरान्तहलन्तककारादिवर्णभेदेनेत्यर्थः । श्लेकेष्वनिडग्रहणमनुदातोपलक्षणम् । षष्ठीसप्तम्यश्च धातुविषयनिर्धारणे द्रष्टव्याः । श्विडीडिति । समाहारद्वन्द्वे द्वितीयान्तम् । गणस्थमिति । श्लोकपूरणार्थम् । स्वभावकथनमेतत् । मत् मतः निबोधत, अवगच्छत । द्व्येत्यादिश्लोकर्योर्द्धयोर्विवरणम् । इति स्वरान्ता इति । अस्य पुनः पाठो निगदव्याख्यानतां दर्शयतुं द्रष्टव्यः । अन्ये तु पूर्व न पठन्ति । यमिर्यमन्तेष्विति । श्यनि पठ।ल्त इति । दिवादौ पठ।ल्त तित्यर्थः । प्रतिषेधवाचिनामिति । इट्प्रतिषेधं कुर्वतामाचार्याणां मतेनेत्यर्थः । दिहिर्दुहिरिति । यद्विषयः संशयः पुरुषाणां नास्ति ते मुक्तसंशयाः । तन्त्रान्तरम् - व्याकरणान्तरम्, आपिशलादि । सहेर्विकल्प इति । तीषसह इत्यादिना । सविकल्पाविति । विकल्पस्तद्विषयः संशय इत्यर्थः । स्वरुपेणैव ससंशयाविति । तौ स्तो न इत्यपि संशयस्तत्रेत्यर्थः । दिशि दृशिमिति । पुरणम् - चिरन्तनं व्याकरणं येऽधीयते ते पुरणगाः । पाठेषु, धात्वादिषु । ऋदुपधानामित्यादिना तेष्वनुदातोपदेशस्य प्रयोजनान्तरं समुच्चिनोति । एवं च श्लोकेष्वनिट एइत्यस्यानुदातोपलक्षणत्वं निश्चितम् । रुधिः सराधिरिति । न्याय्यविकरणयोरिति । न्याय्यः - उत्सर्गः, शब्विकरणयोरित्यर्थः ।क्वचितु तथैव पाठः केचिद्भौवादिकं सिधिमुदितं पठन्ति - षिधु गत्याम् इति, तेन तस्य क्त्वायां विकर्ल्पितेट्कत्वान्निष्ठायाम् यस्य विभाषा इति प्रतिषेधेन भवितव्यम् । तथा दैवादिकस्य भौवादिकस्य च बुधेरर्थे रुपे वा विशेषो नास्ति, ततश्चैक एवायं बुधिः, विकरणद्वयार्थं तु द्वयोर्गणयोः पाठः, तस्य चार्धधातुकलक्षण इडप्युक्तः, प्रतिषेधोऽपीत्येकविषयत्वाद्विभाषितेट्कत्वम्, ततश्च तस्यापि निष्ठायां प्रतिषेधेन भवितव्यमिति मन्यमानं प्रत्याह - निष्ठायामपीति । सिधेरुदित्वं तावदनन्यार्थम् । न च यथाकथञ्चिदिटो भावाभावौ निष्ठायां निषेधस्य निमितम्, किं तर्हि विकल्पवाचिना विभाषादिशब्देन विकल्पितेट्त्वमिति भावः । तपि तिपिमिति । तिपिक्षपी इति पाठः । नीचेन स्वरेणानुदातेन पठितान्प्रतीहि निबोधतेति । प्रस्तावातप्रतीतेति पाठः, प्रतीहीति पाठे उतरानुरोधः - विद्ध्यनिट्स्वरानिति । तेप्तेति । तिपृ तेपृ ष्टिपृ ष्टेपृ क्षरणे । छाएप्तेति । छुप स्पर्शने । पचि वचिमिति । सृजिमृजीति । समाहारद्वन्द्वः । अनिट्त्वस्य हेतुः स्वरो येषां तेऽनिटट्स्वराः । ततोऽस्य विकल्पेन भवितव्यमिति । तेनानिट्स्वरार्थोऽनुदातपाठो न भवति । अमागमोऽपीति । तेन तदर्थोऽप्युदातपाठो न भवति । तत्कस्मादिहानिट्कारिकासु पठ।ल्ते इत्यत आह - केचिदित्यादि । युक्तं चैतदित्याहनिजादिषु हीति । णिजां त्रयाणां गुणः श्लौ इत्यत्र पठिता निजादयः । अत्रैव व्याकरणान्तरानुमतिं दर्शयति - तथा चेति । अवधीदिति । किं पुनरयमुपदेशेऽनुदातः ओमित्याह । क्व पुनरस्योपदेशः हनो वध लिङ् ईति । किमेकाज्ग्रहणं न निवर्तयिष्यामीत्यनुदात उपदिश्यते, न ह्यस्यान्यदनुदातत्वे प्रयोजनम् न ब्रूमः - अस्मिन्नुषदेशेऽयमनुदात इति, हन्तिरनुदातस्तस्य स्थाने भवन्स्थानिवद्भावेनानुदातः । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे यावता स्थानिवद्भावः कस्मादस्य परतिषेधादिति चेत् हन्तैवमनुदातव्यपदेशेऽपि स्थान्यलाश्रयत्वात्कथमिवास्य साय्त् स्यादेतत् । नात्र स्थानिवद्भावेन प्रसङ्गः, किं तर्हि उपदेशग्रहणेन, यथा - कर्ता, कर्तुमित्यादौ रुपभेदे स्वरभेमे च भवति । तत्कस्य हेतोः यः स उपदेशेऽनुदातः स एवेमामवस्थामापन्न इति कृत्वा, न तु स्थानिवद्भावात् एवमिहापि य उपदेशेऽनुदातो हन्तिः स एवायमिति उपदेशग्रहणात्प्रसङ्ग इति । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे कथमिवास्य व्यावृत्तिः, यावता उपदेशग्रहणस्योभाभ्यां सम्बन्धः - य उपदेशे एकाच् स एवायमिति स्यादेव प्रसङ्गः तस्माद्वधेराद्यौदातनिपातनं कर्तव्यम्, तत्सामर्थ्याद्धन्त्युपदेशविषयानुदातत्वश्रयोऽपि प्रतिषेधो न भवति । न ह्यएतदाद्यौदातत्वं प्रयोगसमवायि, प्रत्ययस्वरेण बाधितत्वादित्येवमत्र हारो बाच्यः । एकाज्ग्रहणमुतरार्थम् ॥