ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च

7-2-34 ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च न इट् वशि निष्ठायाम् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते। तत्र ग्रसितस्कभितस्तभितोत्तभितेति ग्रसु स्कम्भु स्तम्भु इत्येतेषामुदित्त्वाद् निष्ठायामिट्प्रतिषेधे प्राप्त इडागमो निपात्यते। ग्रसि॒तं॑ वा॑ ए॒त॑त्सो॑म॒स्य॒ (मै०सं० ३.७.४)। ग्रस्तमिति भाषायाम्। स्कभित — विष्क॑भिते अ॒जरे॑ (ऋ० ६.७०.१)। विष्कब्ध इति भाषायाम्। स्तभित — येन॒ स्वः॑ स्तभि॒तम् (ऋ० १०.१२१.५)। स्तब्धमिति भाषायाम्। उत्तभित — स॒त्येनोत्त॑भिता॒ भूमिः॒ (ऋ० १०.८५.१)। उत्तब्धेति भाषायाम्। उत्तभितेति उत्पूर्वस्य निपातनसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति। चत्त विकस्तेति चतेः कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते। चत्ता वर्षेण विद्युत्। चतितेति भाषायाम्। विकस्त — उत्ता॒ना॑या॒ हृ॑दयं॒ य॑द् वि॑क॒स्तम् (मै०सं० २.७.४)। विकसितमिति भाषायाम्। निपातनबहुत्वापेक्ष विकस्ता इति बहुवचनं कृतम्। अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः। विशस्तृ शंस्तृ शास्तृ इति शसेर्विपूर्वस्य शंसेः शासेश्च तृचीडभावो निपात्यते। विशस्तृ — एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता (ऋ० १.१६२.१९) विशसितेति भाषायाम्। शंस्तृ — उ॒त शंस्ता॒ सुवि॑प्रः (ऋ० १.१६२.५)। शंसितेति भाषायाम्। शास्तृ — प्र॑शा॒स्ता (ऋ० १.९४.६)। प्रशासितेति भाषायाम्। तरुतृतरूतृवरुतृवरूतृवरूत्रीरिति तरतेर्वृङ्वृञोश्च तृचि उट् ऊट् इत्येतावागमौ निपात्येते। तरु॒तारं॒ रथा॑नाम् (ऋ० १०.१७८.१)। तरूतारम्। तरितारम्, तरीतारमिति भाषायाम्। वरुतारं रथानाम्, वरूतारं रथानाम्। वरितारम्, वरीतारमिति भाषायाम्। वरू॑त्रीष्ट्वा, दे॒वीर्वि॒श्वदे॑व्यावतीः (मा०सं० ११.६१)। जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम्। अतन्त्रं चैतत्, इदमपि हि भवति — अहोरात्रा॒णि वै व॒रूत्रयः (श० ब्रा० ६.५.४.६) इति। छान्दसिकमत्र ह्रस्वत्वम्। प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम्। वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः। उज्ज्वलिति क्षरिति क्षमिति वमित्यमितीति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम अम इत्येतेषां च तिपि शप इकारादेशो निपात्यते, शपो लुग्वेडागमः। अग्निरुज्ज्वलिति। उज्ज्वलतीति भाषायाम्। क्षरिति — स्तोकं क्षरिति। क्षरतीति भाषायाम्। क्षमिति — स्तोमं क्षमिति। क्षमतीति भाषायाम्। वमिति — यः सोमं वमिति। वमतीति भाषायाम्। अमिति — अभ्यमिति वरुणः। अभ्यमतीति भाषायाम्। इतिकरणं प्रदर्शनार्थम्, तेन क्वचिदीकारो भवति। र॒विम॒भ्य॒मीति॒ वरु॑णः (मा०सं० २२.५) इत्यपि हि वेदे पठ्यते।

Siddhanta Kaumudi

Up

अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे <{SK2527}> विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up