स्नुक्रमोरनात्मनेपदनिमित्ते

7-2-36 स्नुक्रमोः अनात्मनेपदनिमित्ते आर्धधातुकस्य इट् वलादेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नियमार्थमिदम्। स्नुक्रमोरार्धधातुकस्य वलादेरिडागमो भवति, न चेत् स्नुक्रमौ आत्मनेपदस्य निमित्तं भवतः। क्व च तावात्मनेपदस्य निमित्तम्? यत्रात्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर्वृत्त्यादयश्च। तेनायं सत्यात्मनेपदे प्रतिषेधो भवति, नासतीति। प्रतिषेधफलं चेदं सूत्रम्। स्नुक्रमोरुदात्तत्वादिट् सिद्ध एव। प्रस्नविता। प्रस्नवितुम्। प्रस्नवितव्यम्। प्रक्रमिता। प्रक्रमितुम्। प्रक्रमितव्यम्। अनात्मनेपदनिमित्त इति किम्? प्रस्नोषीष्ट। प्रक्रंसीष्ट। प्रस्नोष्यते। प्रक्रंस्यते। प्रसुस्नूषिष्यते। प्रचिक्रंसिष्यते। सर्वत्रैवात्र स्नौतिः क्रमिश्चात्मनेपदस्य निमित्तम्। सनन्तादपि हि <<पूर्ववत्सनः>> १.३.६२इत्यात्मनेपदं विधीयते। निमित्तग्रहणं किम्? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम्। इह तु प्रस्नवितेवाचरतीति प्रस्नवित्रीयत इति क्यङन्तमात्मनेपदस्य निमित्तम्, न स्नौतिः॥ क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः ॥ प्रक्रन्ता। उपक्रन्ता। कर्तरीति किम्? प्रक्रमितव्यम्। उपक्रमितव्यम्। आत्मनेपदविषयादिति किम्? निष्क्रमिता। स्नौतेः सनि किति च प्रत्यये <<श्र्युकः किति>>७.२.११, <<सनि ग्रहगुहोश्च>> ७.२.१२ इत्येव प्रतिषेधो भवति। प्रसुस्नूषति। प्रस्नुतः। प्रस्नुतवान्॥

Siddhanta Kaumudi

Up

अत्रैवेट् । अक्रमीत् ।अथ रेवत्यन्ता अनुदात्तेतः ॥{$ {!474 अय!} {!475 वय!} {!476 पय!} {!477 मय!} {!478 चय!} {!479 तय!} {!480 णय!} गतौ$} । अयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्नुक्रमोरनात्मनेपदनिमित्ते>> - स्नुक्रमोः । पञ्चम्यर्थे षष्ठी । आत्मनेपदनिमित्तस्याऽभावः — अनात्मनेपदनिमित्तम् । अर्थाभावेऽव्ययीभावेन सह नञ्तत्पुरुषो विकल्प्यत इत्युक्तेः समासः । आत्मनेपदनिमित्ताऽभावे सति स्नुक्रम्भ्यां परस्य वलाद्यार्धधातुकस्य इट् स्यादित्यर्थः । स्नुक्रमोरनुदात्तोपदेशानन्तर्भावदिटि सिद्धे वचनमिदं नियमार्थमित्याह — अत्रैवेडिति । एवं च भावकर्मलकारेषु इण्न भवति । उपस्नोष्यते जलेन । बावलकारोऽयम् । उपक्रस्यते । कर्मणि लुट् । स्यः ।प्रस्नुत॑मित्यत्र तु श्र्युकः कितीति निषेधान्नेट्,आर्धधातुकस्येड्वलादे॑रितीड्विधेः पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यात् ।स्नुक्रमोरनात्मनेपदे॑ इति तु न सूत्रितम्, आत्मनेपदभिन्ने परस्मैपदे परे इत्यर्थे चिक्रमिषिष्यतीत्यसिद्देः, स्येन व्यवधानात् । आत्मनेपदे परे नेडित्र्थे तु प्रचिक्रंसिष्यत इत्यसिद्धिः, अतो निमित्तग्रहणमित्यलम् । अक्रमीदिति ।ह्म्यन्ते॑ति न वृद्धिः । इति क्रम्यन्ताः परस्मैपदिनो गातः । रेवत्यन्ता इति ।रेवृ प्लवगता॑वित्येतत्पर्यन्ता इत्यर्थः । अयपयेत्यारभ्य शल चलने इत्यतः प्राग यकारान्ताः ।

Padamanjari

Up

स्नुक्रमोरुदातत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदनिमित एव यथा स्यादन्यत्र मा भूदिति । अथ प्रस्नुतः, प्रस्नुतवान्, प्रसुस्नूषति, क्रान्तः, क्रान्तवान् - इत्यत्र र्श्युकः किति, सनि ग्रहगुहोश्च, यस्य विभाषा इति प्रतिषेधे प्राप्ते विध्यर्थमेतत्कस्मान्न भवति पुरस्तात्प्रतिषेधकाण्डकरणात् । तस्य हि प्रयोजनम् - अनाश्रितविधानविशेषस्येण्मात्रस्य प्रतिषेधो यथा स्यादिति । यद्यनात्मनेपदनिमित इति प्रसज्यप्रतिषेधः स्नुक्रमोरात्मनेपदनिमितत्वे सतीण्न भवतीति, एवं च प्रतिषेधप्रकरण एवैतत्पठितव्यम्, तत्रायभष्यथेः - नञुपादानं न कर्तव्यं भवति तथा तु न कृतमित्येव । अत्र यद्यात्मनेपदशब्देन नञः समासं कृत्वा पश्चान्निमितशब्देन षष्ठीसमासः क्रियेत - आत्मनेपदादन्यदनात्मनेपदम्, परस्मैपदमिति यावत्, तस्य निमितम्, ततश्च यत्र स्नुक्रमौ परस्मैपदनिमिते - चक्रमिथ, चक्रमिव, चक्रमिम, प्रास्नावीत्, प्रसुस्नुविवेत्यादौ - तत्रैवेड्भवतीत्यर्थः स्यात्, ततश्च कृति न स्यात् - प्रस्नविता, प्रस्त्रवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमिति, तथा चिक्रमिषतीत्यत्रापि न स्यात्, न हि सनन्तादुत्पद्यमानस्य परस्मैपदस्य क्रमिर्निमितम्, परस्मैपदग्रहणमेव च कर्तव्यं स्यात्, तस्मादात्मनेपदशब्दस्य निमितशब्देन समासं कृत्वा पश्चान्नञा समासः कर्तव्यः । प्रसज्यप्रतिषेधे त्वनुन्मेष एवास्य पक्षस्य स्यात् । तत्र यद्यनात्मनेपदनिमित इति सप्तम्येकवचनं स्यात्, ततोऽयमर्थः स्यात् - आत्मनेपदस्य यन्निमितं ङ्कारादि तस्मिन्सति न भवतीति, ततश्च प्रस्नवित्रीयत इत्यत्रापि प्रतिषेधः स्यात्, विद्यते ह्यत्रात्मनेपदस्य निमितम् क्यङे ङ्कार इति । प्रथमाद्विवचनान्तं स्नुक्रमोर्विशेषणमिति दर्शयति - न चेत् स्नुक्रमौ आत्मनेपदस्य निमितमिति । वेदाः प्रमाणम् इतिवदेकवचनम् । सूत्रे तु प्रत्येकं निमितत्वस्य विवक्षितत्वात् द्विवचनम् । निमितशब्दोऽयमस्ति योग्यतामात्रे - कुसूलस्थेष्वपि बीजेषु वक्तारो भवन्ति - अङ्कुरनिमितान्यतानीति अस्ति च कुर्वद्रूपे । तत्राद्ये पक्षे कृत्यापि प्रतिषेधः स्यात् - प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रिमितुम्, प्रक्रमितव्यमिति । अस्ति ह्यत्र यथायोगं भावकर्मकर्तृविषयत्वादात्मनेपदं प्रति योग्यत्वम्, तदिह किं विवक्षितम् इति पृच्छति - क्व च तावात्मनेपदस्य निमितमिति । इतरोऽपि कुर्वद्रूपपक्षाश्रयणेन परिहरति - यत्रेत्यादि । अत्रैवं व्याख्येयम् - यत्रात्मनेपदं तदाश्रयं भवति तत्रैवात्मनेपदस्य एनिमितम् । किं पुनस्तद्यत्र तदाश्रयमात्मनेपदं भवति इत्यत आह - भावकर्मेत्यादि । अत्र हि विषये स्नुक्रम्योः श्रूयमाणमात्मनेपदं भवतीति, कुर्वद्रूप एव निमितशब्दो मुख्यः, योग्यतामात्रे त्वौपचारिक इति भावः । ननु च भावकर्मादिषु त एवार्था आत्मनेपदस्य निमितम्, स्नुक्रमी, क्व तर्हि प्रतिषेधः स्याद् यत्र हि क्रिमिरेव निमितम्, अनुपसर्गाद्वा - क्रंस्यते नैष दोषः, भावकर्मकर्तारः क्रमेश्च वृत्यादयः । सर्वमेवैतद्धातोरेव विषयतया विशेषणम्, धातुरेव तु साक्षादात्मनेपदस्य मिमितम् - भावादिविषयाद्धातोरात्मनेपदं भवतीति । तेनेत्यादि । यत एएवं कुर्वद्रूपमेवात्र निमितम्, तेनायं सत्यात्मनेपदे प्रतिषेध इत्यर्थः । किमुच्यते प्रतिषेध इति, यावता पर्युदासाश्रयेणोकपक्रमे व्याख्यातम् तत्राह - प्रतिषेधफलं चेदं सूत्रमिति । सत्यं पर्युदासेऽपि नियमार्थत्वान्नियमस्य चेतरव्यावृत्तिफलकत्वादेवमुक्तमित्यर्थः । प्रस्नोषीष्टेति । आशिषि लिङ्, भावकर्मणोः इत्यात्मनेपदम् । प्रकंसीष्टेति । अत्र तु प्रोपाभ्यां समर्थाभ्याम् इति कर्तरि । सर्वत्रेत्यादिना सूत्रार्थमुदाहरणे दर्शयति । ननु सनन्ताद्विधीयमानस्यात्मनेपदस्य स एव धातुर्निमितं न स्नुक्रमी तत्राह - सनन्तादपीति । पूर्ववदिति वचनात्प्रकृतिगतमेव सनन्तेऽपि निमितमिति भावः । यदा तर्हि सनन्ताद्भावकर्मणोरात्मनेपदं तदा प्रतिषेधो न प्राप्नोति, न हि तदा प्रकृतिगतं निमितमपेक्षितम्, किं तर्हि सनन्तमेव स्वतन्त्रं निमितम्, पुत्रीयत त्याइदिवत् एवं तर्हि सनन्ताद्भावकर्मणोरपि पूर्ववत्सनः इत्यात्मनेपदं भविष्यति एतयोरर्थयोः सन्प्रकृतावात्मनेपदस्य दृष्टत्वात् । तत्र यद्यपि सनन्तमपि स्वयमेव निमितमुपपद्यते, तथापि भावकर्मणोः इत्यस्यावकाशः - भूयते, पच्यते पूर्ववत्सनः इत्यस्यावकासः - शिशयिषते सनन्ताद्भावकर्मणोरुभयप्रसंगे परत्वात् पूर्ववत्सनः इत्यनेन भविष्यति । यदि परं विशेषो नास्तीत्युच्यते तदपि न अत्रैव विशेषस्य सम्भवात् । एवमपि न सिध्यति, पूर्ववत्सनः इत्यत्र कर्तरि कर्मव्यतिहारे इत्यतः कर्तरीत्यनुवृतेः । तत्र हि प्रकरणे सर्वज्ञैव कर्तरिति सम्बध्यते । अथापि न सम्बध्यते, एवमपि यदा सनन्ताद् णिचि कृते णिचश्चेति, भावकर्मणोः इति वा आत्मनेपदम्, तदा प्रतिषेधो न सिध्यति - चिक्रंस्यते, चिक्रंस्यत इति । किं च - भोस्तदानीमपि प्रतिषेध इष्यते बाढमिष्यते । यदाह वार्तिककारः - सिद्धं तु स्नोरात्मनेपदेन समानपदस्थस्योट्प्रतिषेधात्, क्रमेश्चेति । तदेवमात्मनेपदेन समानपदस्थत्वे प्रतिषेधं कुर्वतो वार्तिककारस्यैवंविधे विषये प्रतिषेध इष्टो लक्ष्यते । यथा पुनर्वृत्तिकारेण व्याकख्यातं तथा न प्राप्नोति कर्तव्योऽत्र यत्रः । यदि सत्यात्मनेपदे प्रतिषेधः मा कारि निमितग्रहणमनात्मनेपदे इत्येवास्तु, सतिसप्तमी विज्ञास्यते - आत्मनेपदे सति न भवतीति, यद्येतल्लभ्यते कृतं स्यात्, ततु न लभ्यम्, शास्त्रे याः सप्तम्यस्ताः सर्वा परसप्तम्य इति नियमात् परसपतम्यां तु यदि स्नुक्रमोर्विशेषणं स्नुक्रमोरात्मनेपदेऽनन्तर इति, सिद्धं प्रस्नोषीष्ट, प्रक्रसीष्ट, प्रस्नोष्यते, प्रक्रंस्यते - अत्र न प्राप्नोति, स्येन व्यवहितत्वात् । आर्थार्धधातुकस्य विशेषणम् - स्नुक्रमिभ्यां परस्यार्धधातुकस्यात्मनेपदेऽनन्तर इति सिद्धं प्रस्नोष्यते, प्रक्रंस्यते, प्रस्नोषीष्ट, प्रक्रंसीष्ट - अत्र न प्राप्नोति, सीयुट आत्मनेपदभक्तत्वात् । उभयथापि प्रचिक्रंसिष्यते - अत्र न प्राप्नोति, न ह्यत्र क्रमेस्तत्परस्य सार्वधातुकस्यात्मनेपदमनन्तरम् । तस्मान्निमितग्रहणं कर्तव्यम् । तदाहनिमितग्रहणमित्यादि । तदात्मनेपदं परं यस्मात्स ततप्रः, प्रचिक्रसिष्यते इत्यादौ स्यप्रत्ययः, स परो यस्मात्स तत्परः, सन्प्रत्ययः । इह त्वित्यादि । प्रगेव व्याक्यातम् । प्रस्नवित्रीयत इति । रीङ् ऋतः । वातिककारमतेऽप्यत्र प्रतिषेधो न भवति, कथम् समानपदस्थस्य इति वचनात् इडागमेन पदावस्थापेक्षणीया । तत्र तृचि विभक्तावुत्पन्नायां लब्धेऽपि पदत्वे आत्मनेपदस्यासन्निधानादिट् प्रवर्तते । प्रतिक्रंसिष्यत इत्यत्र तु पदावस्थायामात्मनेपदसन्निधानात् प्रतिषेधप्रवृत्तिः। एआत्मनेपदविषयादिति । तद्येग्यादित्यर्थः । सत्यात्मनेपदे प्रतिषेध इत्युक्तत्वादिदमारभ्यते । अनुपसर्गात्क्रमेः क्रन्ता, क्रमिता - इत्युभयमपि भवति अनुपसर्गाद्वा इति वकल्पेनात्मनेपदनिमितत्वादित्येके । अन्ये त्वात्मनेपदविषयादिति अनन्यभावे विषयशब्दं वर्णयन्तः क्रिमितेत्येव भवितव्यमित्याहुः । स्नौतेः सनि किति चेति । उपलक्षणमेतत् । क्रमेश्च निष्ठायाम् यस्य विभाषा इति द्रष्टव्यम् । प्रतिषधो भवतीति । अत्र हेतुः प्रागेवोक्तः ॥