अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः

7-1-75 अस्थिदधिसक्थ्यक्ष्णाम् अनङुदात्तः इदितः नुम् नपुंसकस्य विभक्तौ तृतीयादिषु

Sampurna sutra

Up

अस्थि-दधि-सक्थि-अक्ष्णाम् तृतीयादिषु अचि अनङ् उदात्तः

Neelesh Sanskrit Brief

Up

अस्थि, दधि, सक्थि, अक्षि - एतेषां शब्दानाम् तृतीयादिषु अजादौ विभक्तौ परे उदात्तः अनङ्-आदेशः भवति ।

Neelesh English Brief

Up

The words अस्थि, दधि, सक्थि and अक्षि get an उदात्तः अनङ्-आदेश when followed by an अजादि विभक्ति of तृतीया onwards.

Kashika

Up

अस्थि दधि सक्थि अक्षि इत्येतेषां नपुंसकानां तृतीयादिष्वजादिषु विभक्तिषु परतोऽनङित्ययमादेशो भवति, स चोदात्तो भवति। अस्थ्ना। अस्थ्ने। दध्ना। दध्ने। सक्थ्ना। सक्थ्ने। अक्ष्णा। अक्ष्णे। अस्थ्यादय आद्युदात्ताः, तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यादित्युदात्तवचनम्। तत्र भसंज्ञायामल्लोपे ६.४.१३४ कृत उदात्तनिवृत्तिस्वरेण ६.१.१६१ विभक्तिरुदात्ता भवति। एतैरस्थ्यादिभिर्नपुंसकैरनपुंसकस्याप्यङ्गस्य तदन्तग्रहणमिष्यते। प्रियास्थ्ना ब्राह्मणेन। प्रियदध्ना। तृतीयादिष्विति किम्? अस्थिनी। दधिनी। अचीत्येव — अस्थिभ्याम्। दधिभ्याम्॥

Siddhanta Kaumudi

Up

एषामनङ् स्याट्टादावचि स चोदात्तः । अल्लोपोऽनः <{SK234}> ॥ दध्ना । दध्ने । दध्नः । दध्नः । दध्नोः । दध्नोः । दध्नि । दधनि । शेषं वारिवत् । एवमस्थिसक्थ्यक्षि । तदन्तस्याऽप्यनङ् । अतिदध्ना ॥ सुधि । सुधिनी । सुधिनि । हे सुधे । हे सुधि । सुधिया । सुधिना । प्रध्या । प्रधिना ॥ मधु । मधुनी । मधूनि । हे मधो । हे मधु । एवमम्ब्वादयः ॥ सानुशब्दस्य स्नुर्वा । स्नूनि । सानूनि । प्रियक्रोष्टु । प्रियक्रोष्टुनी । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम् । प्रियक्रोष्टूनि । टादौ पुंवत्पक्षे प्रियक्रोष्ट्रा । प्रियक्रोष्टुना । प्रियक्रोष्ट्रे । प्रियक्रोष्टवे । अन्यत्र तृज्वद्भावात्पूर्वविप्रतिषेधेन नुमेव । प्रियक्रोष्टुना । प्रियक्रोष्टुने । नुमचिरेति नुट् । प्रियक्रोष्टूनाम् ॥ सुलु । सुलुनी । सुलूनि । पुनस्तद्वत् । सुल्वा । सुलुना । धातृ । धातृणी । धातॄणि । हे धातः । हे धातृ । धात्रा । धातृणा । एवं ज्ञातृकर्त्रादयः ॥

Laghu Siddhanta Kaumudi

Up

एषामनङ् स्याट्टादावचि॥

Neelesh Sanskrit Detailed

Up

अस्थि , दधि, सक्थि, अक्षि - एते चत्वारः इकारान्त-नपुंसकलिङ्गशब्दाः । एतेषामङ्गस्य तृतीयादिषु विभक्तिषु अग्रे अजादिविभक्तौ परे अनङ्-आदेशः भवति । अयमादेशः उदात्तः भवति, तथा च <<ङिच्च>> 1.1.53 इत्यनेन अयमन्त्यादेशः भवति । यथा - 1. अस्थि + टा → अस्थ् + अनङ् + आ [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> 7.1.75 इति अनङ्-आदेशः। → अस्थ् + अन् + आ [इत्संज्ञालोपः] → अस्थ् न् + आ [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → अस्थ्ना 2. दधि + ङे → दध् + अनङ् + ए [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> 7.1.75 इति अनङ्-आदेशः। → दध् + अन् + ए [इत्संज्ञालोपः] → दध् न् + ए [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → दध्ने 3. सक्थि + ङसिँ / ङस् → सक्थ् + अनङ् + अस् [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> 7.1.75 इति अनङ्-आदेशः। → सक्थ् + अन् + अस् [इत्संज्ञालोपः] → सक्थ् न् + अस् [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → सक्थ्नः 4. अक्षि + आम् → अक्ष् + अनङ् + आम् [<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> 7.1.75 इति अनङ्-आदेशः। → अक्ष् + अन् + आम् [इत्संज्ञालोपः] → अक्ष् न् + आम् [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः] → अक्ष्णाम् [<<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वम्]

Balamanorama

Up

<<अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः>> - अस्थि, दधि, सक्थि, आक्षि एतेषां प्रथमाद्वितीययोर्वारिवद्रूपाणि । टादावचि विशेषमाह — अस्थिदधि । तृतीयादिष्विति, अचीति चानुवर्तते । तदाह — एषामित्यादिना । नुमोऽपवादः । अनङि हकार इत्, अकार उच्चारणार्थः । ङित्त्वादन्तादेशः । दधनि दध्नि इति । 'विभाषा ङिश्योः' इत्याल्लोपविकल्प इति भावः । तदन्तस्यापीति । आङ्गत्वादिति भावः । अतिदध्नेति । दधि अतिक्रान्तं कुलमतिदधि । अत्रापि नपुंसकस्येति संबध्यते । ततश्च धाञः 'आदृगमहन' इति किप्रत्यये दधिशब्दस्य पुंस्त्वे दधिनेत्येव । नपुंसकस्येति श्रूयमाणमस्थ्यादिभिरेवान्वेति । तेनातिदध्ना ब्राआहृणेनेत्यादि सिद्धम् । इति इदन्ताः ।अथ ईदन्ताः । सु ध्यायतीति, सु=शोभना धीर्यस्येति॑वा विग्रहे सुधीशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वत्वे वारिवद्रूपाणीत्याह — सुधि सुधिनी इत्यादि । परत्वान्नुमा इयङ् बाध्यत इति भावः । सुधिया सुधिनेति । सुध्यातृत्वस्य शोभनज्ञानवत्त्वस्य वा प्रवृत्तिनिमित्तस्य पुंसि नपुंसके च एकत्वात्पुंवत्त्वविकल्पः । एवं प्रधीशब्दः । तत्रनभूसुधियो॑रिति निषेधाऽभावादेरनेकाचेति यण् । इति ईदन्ताः । अथ उदन्ताः । मध्विति । मधु मद्ये पुष्परसे॑मधुर्वसन्ते चैत्रे च॑ इति कोशान्मधुशब्दस्य पुंनपुंसकयोः मद्यत्ववसन्तत्वादिरूपप्रवृत्तिनिमित्तभेदान्न पुंवत्त्वविकल्पः । भृद्वीकाविकारवाचिनो मधुशब्दस्य तु नित्यनपुंसकत्वान्न पुंवत्त्वमिति विवेकः । सानुशब्दस्य स्नुर्वेति । 'पद्दन्' इति सूत्रेमांसपृतनासानूनां मांस्पृत्स्नबो वाच्याः॑ इति वार्तिका॑दिति शेषः । स्नूनि सानूनीति — शसि रूपं, शसादावेव स्नुविधेः । प्रभृतिग्रहणस्य प्रकारार्थत्वे सुठपि स्नुर्भवति । अस्य चस्नुः प्रस्थः सानुरस्त्रिया॑मिति पुंनपुंसकत्वाद्भाषितपुंस्कत्वादस्त्येव पुंवत्त्वविकल्पः । प्रियक्रोष्टु प्रियक्रोष्टुनी इति । प्रियक्रोष्टा यस्येति विग्रहः । असर्वनामस्थानत्वान्न तृज्वत्वम् । अथ जश्शसोः शिभावे सति सर्वनामस्थानत्वान्नुमं बाधित्वा परत्बात्तृज्वत्त्वे प्राप्ते आह — तृज्वद्भावादिति ।वृद्ध्यौत्त्वे॑ति वार्तिकादिति भावः । प्रियक्रोष्टूनीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे रूपम् । नच नित्यत्वादेव नुम् सिद्धेः किं पूर्वविप्रतिषेधेनेति वाच्यं, नित्यत्वान्नुमि कृतेऽपि 'यदागमाः' इति न्यायेन 'तृज्वत्क्रोष्टुः' इत्यस्य नुम्विशिष्टस्य ग्रहणापत्तौ पुनस्तृज्वत्त्वापत्तेः । पूर्वविप्रतिषेधमाश्रित्य तृज्वत्त्वं बाधित्वा नुमि कृते तु न पुनस्तृज्वत्त्वम्,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायादित्यलम् । पुंवत्पक्षे इति । तत्रापि तृज्वत्त्वपक्ष इत्यर्थः । प्रियक्रोष्ट्रेति । पुंवत्त्वे तृज्वत्त्वे च सति रूपम् । अनपुंसकत्वान्न नुम् । प्रयिक्रोष्टुनेति । पुंवत्त्वे, तदभावे च तृज्वत्त्वाऽभावे रूपम् । पुंवत्वाऽभावपक्षेऽपि नुमं बाधित्वा परत्वान्नात्वमेव । प्रियक्रोष्ट्रे इति । पुंवत्त्वे तृज्वत्त्वे यण् । अनपुंसकत्वान्न नुम् । प्रियक्रोष्टवे इति । पुंवत्त्वे तृज्वत्त्वाऽभावे रूपम् । अन्यत्रेति । पुंवत्त्वाऽभावपक्ष इत्यर्थः । प्रियक्रोष्टुनेति । पुंवत्त्वतृज्वत्त्वयोरभावे रूपम् । तथा ङयि त्रीणि रूपाणि । एवं ङसिङसोः । प्रियक्रोष्टुः प्रियक्रोष्टोः प्रियक्रोष्टुनः । प्रियक्रोष्ट्रोः-प्रियक्रोष्ट्वोः-प्रियक्रोष्टुनि । भ्यामादौ हलि मधुवत् । इत्युदन्ताः । अथ ऊदन्ताः । सुल्विति । सुष्ठु लुनातीति क्विप् । 'ह्रस्वो नपुंसके' इति ह्रस्वः । सुलुनी इति ।ओः सुपी॑ति यणं बाधित्वा परत्वान्नुम् । सुल्वेति । शोभनलवनकर्तृत्वं प्रवृत्तिनिमित्तमेकमिति पुंवत्त्वविकल्पः । पुंवत्त्वे ह्रस्वाऽभावेनाऽघित्वान्नाभावो न । नुमभावश्च ।ओः सुपी॑ति यण् । पुंवत्त्वाऽभावपक्षे तु यणं बाधित्वा नुम् । ङेप्रभृतिषु तु पुंवत्त्वाऽभावेवृद्ध्यौत्वे॑ति पूर्वविप्रतिषेधेन नुमि सुलुने इति , पुंवत्त्वे तु 'सुल्वे' इत्यादि रूपद्वयम् । इत्यूदन्ताः । अथ ऋदन्ताः । धातृ इति । दधातीति धातृ । 'न लुमता' इति निषेधादनङ् न । धातृणी इति ।इकोऽची॑ति नुमिऋवर्णान्नस्ये॑ति णत्वम् । धातृणीति । जश्शसोः शिभावे नुमिसर्वनामस्थाने चे॑ति दीर्घे णत्वम् ।न लुमते॑ति निषेधस्याऽनित्यत्वात्संबुद्धिनिमित्तको ह्रस्वस्य पक्षे गुण इत्याह-हे धातः हे धातृ इति । धारणकर्तृत्वरूपप्रवृत्तिनिमित्तैक्याट्टादावचि पुंवत्त्वविकल्प इत्याह — धात्रा-धातृणेति । धात्रे-धातृणे । धातुः-धातृणः । धात्रोः-धातृणोः ।नुमचिते॑ति नुट् । धातृणाम् । धातरि-दातृणि । इत्यृन्ताः ।

Padamanjari

Up

अनङे द्वितीयोऽकार उच्चारणार्थः, ङ्कारोऽन्तादेशार्थः, अस्थ्यादयः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः, शेषमनुदातम् । तत्रान्तर्यतोऽनुदात आदेशे प्राप्ते उदातवचनमस्थ्नेत्यादौ अल्लोपोऽनः इत्यकारलोपे अनुदातस्य च यत्रोदातलोपः इति विभक्तेरुदातत्वार्थम् । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे त्वकारस्य उदातस्य श्रवणं भवति - अस्थनीति, यथा च्छन्दस्यपि दृश्यते इत्यत्र - इन्द्रो दधीचो अस्थमिरिति । एतैरस्थ्यादिभिरित्यादि । अत्र अङ्गाधिकारे तस्य च तदुतरपदस्य चेति तदन्तस्य तावद् ग्रहणं भवति । तथा नुपंसकस्य इत्यनुवृतं श्रुतत्वादस्थ्यादीनां विशेषणम्, न प्रकृतस्याङ्गस्य, तेनानपुंसकस्यापि तस्य ग्रहणम् । किमर्थं पुनरस्थ्यादयो नपुंसकत्वेन विशेष्यन्ते यदृच्छाशब्दानां पुंल्लिङ्गानां मा भूत् - दधिर्नाम कश्चित्, तेन दधिनेति । नैतदस्ति प्रयोजनम् - अभिव्यक्तपदार्था ये स्वतन्त्रा लोपविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ एवं तर्हि, नपुंसकस्य इत्यनुवृतस्यान्वयप्रदर्शनमात्रं कृतम् - एतैरस्थ्यादिभिर्नपुंसकैरिति ॥