7-1-76 छन्दसि अपि दृश्यते इदितः नुम् नपुंसकस्य अस्थिदधिसक्थ्यक्ष्णाम् अस्थिदधिसक्थ्यक्ष्णाम् अनङुदात्तः
अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते। यत्र विहितस्ततोऽन्यत्रापि दृश्यते। अचीत्युक्तमनजादावपि दृश्यते। इन्द्रो॑ दधी॒चो अ॒स्थभिः॑ (ऋ०१.८४.१३)। भ॒द्रं प॑श्येमा॒क्षभिः॑ (मा०सं०२५.२१)। तृतीयादिष्वित्युक्तमतृतीयादिष्वपि दृश्यते। अस्थान्युत्कृत्य जुहोति। विभक्तावित्युक्तमविभक्तावपि दृश्यते। अक्षण्वता लाङ्गलेन। अस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति (ऋ० १.१६४.४)॥
अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ॥
च्छन्दसि इत्येव सिद्धे अपि दृश्यते इत्येतत्सर्वोपाधिव्यभिचारार्थमन्यथारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः शङ्क्येत । तदिदमुक्तम् - यत्र विहितस्ततोऽन्यत्रापि दृश्यत इति । अस्थन्वन्तमिति । अनैङ् कृते अनोनुट् इति मतुपो नुट्, अनङे नकारस्य लोपः ॥