न भूसुधियोः

6-4-85 न भू सुधियोः असिद्धवत् अत्र आभात् अचि यण् एः अनेकाचः असंयोगपूर्वस्य

Sampurna sutra

Up

भूसुधियोः अङ्गस्य सुपि अचि यण् न

Neelesh Sanskrit Brief

Up

भूशब्दस्य तथा सुधी-शब्दस्य अजादि-सुप्-प्रत्यये परे यणादेशः न भवति ।

Neelesh English Brief

Up

The words भू and सुधी do not undergo यणादेश when followed by अजादि सुप् प्रत्यय.

Kashika

Up

भू सुधी इत्येतयोर्यणादेशो न भवति। प्रतिभुवौ, प्रतिभुवः। सुधियौ, सुधियः॥

Siddhanta Kaumudi

Up

एतयोर्यण्न स्यादचि सुपि । सुधियौ । सुधियः इत्यादि ॥ सखायमिच्छति सखीयति । ततः क्विप् । अल्लोपयलोपौ । अल्लोपस्य स्थानिवत्त्वाद्यणि प्राप्ते ॥<!क्वौ लुप्तं न स्थानिवत् !> (वार्तिकम्) ॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे । सखा । सखायौ । सखायः । हे सखीः । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि परत्वात्सख्युरसंबुद्धा <{SK253}>विति प्रवर्त्तते । सखायम् । सखायौ । शसि यण् । सख्यः । सह खेन वर्तत इति सखः । तमिच्छतीति सखीः । सुखमिच्छतीति सुखीः । सुतमिच्छतीति सुतीः । सख्यौ । सुख्यौ । सुत्यौ । ख्यत्या <{SK255}>दिति दीर्घस्यापि ग्रहणादुकारः । सख्युः । सुख्युः । सुत्युः । लूनमिच्छतीति लूनीः । क्षाममिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां ङसिङसोर्यण् । नत्वमत्वयोरसिद्धत्वात् ख्यत्या <{SK255}>दित्युत्वम् । लून्युः । क्षाम्युः । प्रस्तीम्युः । शुष्कीयतेः क्विप् । शुष्कीः । इयङ् । शुष्कियौ । शुष्कियः । ङसिङसोः । शुष्किय इत्यादि । इतीदन्ताः ॥ शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादयः ॥

Laghu Siddhanta Kaumudi

Up

एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥

Neelesh Sanskrit Detailed

Up

'भू' शब्दस्य तथा 'सुधी' शब्दस्य अजादि-सुप्-प्रत्यये परे <<ओः सुपि>> 6.4.83 इत्यनेन यणादेशे प्राप्ते वर्तमानसूत्रेण तस्य निषेधः भवति । अतः <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन इयङ्-आदेशे / उवङ् आदेशं कृत्वा अन्तिमं रूपं सिद्ध्यति । यथा - भू + औ → भुवौ । सुधी + औ → सुधीयौ । <<पदाङ्गाधिकारे तस्य च तदन्तस्य च>> अनया परिभाषया भूशब्दः सुधीशब्दः च यस्य अन्ते आगच्छति, तस्य शब्दस्यापि अनेन सूत्रेण यणादेशः निषिध्यते । यथा - प्रतिभू + औ = प्रतिभुवौ । परमसुधी + औ = परमसुधियौ । ज्ञातव्यम् - 'वर्षाभू' शब्दस्य विषये अनेन सूत्रेण निर्दिष्टः यण्-निषेधः <<वर्षाभ्वश्च>> 6.4.84 इत्यनेन निषिध्यते, अतः 'वर्षाभू' शब्दस्य विषये यणादेशः एव भवति । यथा - वर्षाभू + औ = वर्षाभ्वौ ।

Balamanorama

Up

Padamanjari

Up

भूशब्देन तदन्तस्य ग्रहणम् केवलस्य यण्प्राप्त्यभावात् । न चोवङ्ः प्रतिषेधः, विच्छिन्नत्वात्, वर्षाभ्वश्च इत्यारम्भाच्च । सुधियाविति । ध्यायतेः क्विप, दृशग्रहणात्सम्प्रसारणम् ॥