5-4-138 पादस्य लोपः अहस्त्यादिभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ उपमानात् च
उपमानादित्येव। उपमानाद् हस्त्यादिवर्जितात् परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे। स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते। व्याघ्रस्येव पादावस्य व्याघ्रपात्। सिंहपात्। अहस्त्यादिभ्य इति किम्? हस्तिपादः। कटोलपादः॥ हस्तिन्। कटोल। गण्डोल। गण्डोलक। महिला। दासी। गणिका। कुसूल॥
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ । स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् । अहस्त्यादिभ्यः किम् । हस्तिपादः । कुसूलपादः ॥
हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्याद्बहुव्रीहौ। व्याघ्रस्येव पादावस्य व्याघ्रपात्। अहस्त्यादिभ्यः किम्? हस्तिपादः। कुसूलपादः॥
<<पादस्य लोपोऽहस्त्यादिभ्यः>> - पादस्य लोपः । 'अहस्त्यादिभ्य' इति च्छेदः । उपमानादित्यनुवर्तते । तदाह — हस्त्यादिवर्जितादिति ।आदेः परस्ये॑त्यप्रवृत्तये आह — समासान्तो बहुव्रीहाविति । शैषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अन्यताऽनुक्तसमासान्तत्वात्कप्प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह — स्थानीति । व्याघ्रस्येवेति । फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः ।सप्तम्युपमानपूर्वपदस्ये॑ति समासः ।
लोपो भवति समासान्त इति। यदि त्वयं समासान्तो न स्याद्, ठादेः परस्यऽ इत्यादेः स्यात्,'शेषाद्विभाषा' इति कप् च प्रसज्येत्; समासान्तापेक्षस्य शेषस्याश्रयणात्। कथं पुनरभावरुपोऽन्तावयवो भवति? तत्राह - स्थानिद्वारेणेति ॥