6-3-48 त्रेः त्रयः उत्तरपदे आत् सङ्ख्यायाम् अबहुव्रीह्यशीत्योः
त्रेः सङ्ख्यायामुत्तरपदे अबहुव्रीहि-अशीत्योः आत्
त्रि-शब्दस्य सङ्ख्याशब्दे परे त्रयस्-आदेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।
The words त्रि gets an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present.
त्रि इत्येतस्य त्रयसित्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्। संख्यायामित्येव — त्रैमातुरः। अबहुव्रीह्यशीत्योरित्येव — त्रिदशाः। त्र्यशीतिः। प्राक् शतादित्येव — त्रिशतम्। त्रिसहस्रम्॥
त्रिशब्दस्य त्रयस् स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु त्रिर्दश त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्त्रम् ॥
त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्॥
यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य त्रिशब्दस्य 'त्रयस्' आदेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । यथा, त्रयोदशन् इत्यस्य निर्माणे त्रि + दशन् इत्यत्र <<त्रेस्त्रयः>> 6.3.48 अनेन सूत्रेण त्रि-शब्दस्य 'त्रयस्' आदेशः भवति । प्रक्रिया इयम् - त्रि + दशन् → त्रयस् + दशन् [<<त्रेस्त्रयः>> 6.3.48 इति 'त्रयस्' आदेशः] → त्रयरुँ + दशन् [<<ससजुषोः रुँः>> 8.2.66 इति रूत्वम् । ] → त्रयउ दशन् [<<हशि च>> 6.1.114 इति उत्वम् । ] → त्रयो दशन् [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] अशीति-शब्दस्य उपस्थितौ अयमादेशः न विधीयते । यथा - त्रि + अशीतिः = त्र्यशीतिः । बहुव्रीहिसमासस्य विषयेऽपि अयमादेशः न भवति । यथा - त्रयः दश यस्य सः = त्रिदश । वार्त्तिकम् - <!प्राक् शतादित्येव!> । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः त्रिशतम्, त्रिसहस्रम् इत्यत्र 'त्रयस्' इत्यादेशः न भवति ।
सन्धिवेलादिषु त्रयोदशशब्दस्य पाठात्सकारन्तोऽयमादेशः ॥