विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्

6-3-49 विभाषा चत्वारिंशत् प्रभृतौ सर्वेषाम् उत्तरपदे आत् सङ्ख्यायाम् अबहुव्रीह्यशीत्योः त्रेः त्रयः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः सर्वेषां द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद् विभाषा भवति। द्विचत्वारिंशत्, द्वाचत्वारिंशत्। त्रिपञ्चाशत्, त्रयःपञ्चाशत्। अष्टपञ्चाशत्, अष्टापञ्चाशत्। प्राक् शतादित्येव — द्विशतम्। अष्टशतम्। त्रिशतम्॥

Siddhanta Kaumudi

Up

द्व्यष्टनोस्त्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत् । द्वाचत्वारिंशत् । अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्>> - विभाषा चत्वारिंशत् । व्यवहितस्यापिद्व्यष्टनो॑रित्यस्य सम्बन्धाय — सर्वेषामिति । द्व्यष्टनोस्त्रेश्चेत्यर्थः । तदाह — द्व्यष्टनोस्त्रेश्चेति ।

Padamanjari

Up

सर्वेषाग्रहणमित्यादि । असति हि तस्मिन् अनन्तरस्य त्रेस्त्रयः इत्यस्यैव विकल्पः स्यात् ॥