द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः

6-3-47 द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्यशीत्योः उत्तरपदे आत्

Sampurna sutra

Up

द्वि-अष्टनः सङ्ख्यायामुत्तरपदे अबहुव्रीहि-अशीत्योः आत्

Neelesh Sanskrit Brief

Up

द्वि-शब्दस्य अष्टन्-शब्दस्य च सङ्ख्याशब्दे परे आकारादेशः भवति । परन्तु 'अशीतिः' शब्दस्य विषये, तथा च बहुव्रीहिसमासे अयमादेशः न भवति ।

Neelesh English Brief

Up

The words द्वि and अष्टन् get an आकारादेश in presence of a सङ्ख्याशब्द, provided that there is no बहुव्रीहि समास and the word अशीति is not present.

Kashika

Up

द्वि अष्टन् इत्येतयोराकारादेशो भवति संख्यायामुत्तरपदेऽबुहव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टन इति किम्? पञ्चदश। संख्यायामिति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशीत्योरिति किम्? द्वित्राः। द्विदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ इह मा भूत् — द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥

Siddhanta Kaumudi

Up

आत्स्यात् । द्वौ च दश च द्वादश । द्व्यधिका दशेति वा । द्वाविंशतिः । अष्टादश । अष्टाविंशतिः । अबहुव्रीह्यशीत्योः किम् । द्वित्राः । द्व्यशीतिः ।<!प्राक्शतादिति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । द्विशतम् । द्विसहस्त्रम् ॥

Laghu Siddhanta Kaumudi

Up

आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥

Neelesh Sanskrit Detailed

Up

यस्मिन् समासे उत्तरपदम् सङ्ख्यावाची शब्दः अस्ति, तस्मिन् समासे पूर्वपदस्थस्य द्विशब्दस्य अष्टन्-शब्दस्य च आकारादेशः भवति । परन्तु, यदि उत्तरपदम् 'अशीति' इति अस्ति तर्हि एतादृशः आदेशः न भवति । तथा च यदि अयं समासः बहुव्रीहिसमासः अस्ति तर्हि अपि एतादृशः आदेशः न भवति । उदाहरणानि एतानि - 1) 'द्वौ च दश च' इत्यर्थे 'द्वि + दशन्' इत्यत्र अयं द्वन्द्वसमासः भवति, अतः अत्र 'द्वि' इत्यत्र इकारस्य आकारादेशं कृत्वा द्वादशन् इति रूपं सिद्ध्यति । तथेैव, 'अष्ट + विंशति' इत्यत्रापि अष्टाविंशतीति रूपं सिद्ध्यति । 2) द्वि + अशीति इत्यत्र तु आकारादेशः न भवति, यतः अस्मिन् सूत्रे 'अबहुव्रीह्यशीत्योः' इति निर्दिष्टमस्ति । अतः अत्र यणादेशं कृत्वा 'द्व्यशीति' इति रूपं सिद्ध्यति । 3) 'द्वौ त्रयः यस्य' इत्यस्मिन् अर्थे 'द्वि + त्रि' अयं बहुव्रीहिसमासः सिद्ध्यति । अत्रापि 'अबहुव्रीह्यशीत्योः' इति निर्देशत्वात् द्वि-शब्दस्य आकारादेशः न भवति, अतः द्वित्राः इति रूपं सिद्ध्यति । अत्र एकं वार्तिकमपि ज्ञातव्यम् - <!प्राक्शतादिति वक्तव्यम् !> । इत्युक्ते, अयमाकारादेशः शतम् (100) इत्यस्मात् पूर्वमेव भवति । अतः द्विशतम्, अष्टशतम् इत्यत्र आकारादेशः न जायते ।

Balamanorama

Up

<<त्रेस्त्रयः>> - त्रेस्त्रयः । सन्धिवेलादिषु त्रयोदशीति पाठात्सकारान्तोऽयमादेश इत्याह — त्रयस्स्यादिति । पूर्व विषये इति । प्राक्शतात्सङ्ख्याशब्दे उत्तरपदे परतो, न तु बहुव्रीह्रशीत्योरित्यर्थः । त्रयोदशेति । त्रयश्च दश चेति, त्र्यधिका दशेति वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति । त्रिरावृत्ता दशेत्यर्थः ।बहुव्रीहौ सह्ख्येये डच् इति डच् । नन्वत्र त्रिरित्यस्यसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कुत्वसुच्द्वित्रिचतुभ्र्यः सुच् इति सुजन्तत्वात्समासेऽपि सुचः श्रवणापत्तिरित्यत आह — सुजर्थे बहुव्रीहिरिति । सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्रसङ्ख्ययाव्यये॑ति बहुव्रीहिर्न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति । त्रयश्चाऽशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽशीतिरिति वा । त्रिशतमिति । त्र्यश्च शतं चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्र्यधिकाऽसीतिरिति वा । त्रिशतमिति । त्रयश्च शतं चेति समाहारद्वन्द्वः, त्र्यधिकं शतिमिति वा । एवं त्रिसहरुआमित्यपि ।

Padamanjari

Up

अत्र संख्यातानुदेशो न भवति । यदि स्याद्, अष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यम् । प्रतिषिद्धेऽप्यात्वे सवर्णदीर्घत्वेन भवितव्यम् । द्वादश, द्वाविशतिरित्यादौ समाहारे द्वन्द्वः । स नपुंसक्म् इत्येत्त्उ न भवति लोकाश्रयत्वाल्लिङ्गस्य । द्वित्रा इति । द्वौ वा त्रयो वेति वार्थे संख्ययाव्ययासन्न इति समासः, बहुव्रीहौ संख्येये डच् । द्विर्दश द्विदशाः । सुजर्थे समासः ॥