5-4-85 उपसर्गात् अध्वनः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्
index: 5.4.85 sutra: उपसर्गादध्वनः
उपसर्गात् अध्वनः अच्
index: 5.4.85 sutra: उपसर्गादध्वनः
उपसर्गात् विहितात् अध्वन् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति ।
index: 5.4.85 sutra: उपसर्गादध्वनः
उपसर्गात् परो योऽध्वन्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। प्रगतोऽध्वानं प्राध्वोरथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गातिति किम्? परमाध्वा। उत्तमध्वा।
index: 5.4.85 sutra: उपसर्गादध्वनः
प्रगतोऽध्वानं प्राध्वो रथः ॥
index: 5.4.85 sutra: उपसर्गादध्वनः
प्रगतोऽध्वानं प्राध्वोरथः॥
index: 5.4.85 sutra: उपसर्गादध्वनः
यस्मिन् समासे कश्चन उपसर्गः पूर्वपदरूपेण तथा च 'अध्वन्' (मार्गः) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।
यथा -
→ प्र + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]
→ प्राध्वन् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]
→ प्राध्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ प्राध्व
प्रगतः अध्वानम् सः प्राध्वः रथः । The chariot that has crossed the road इत्याशयः ।
→ निर् + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]
→ निरध्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]
→ निरध्व ।
निष्क्रान्तः अध्वनः सः निरध्वः रथः । The chariot that has been taken out of the road इत्याशयः ।
यदि पूर्वपदमुपसर्गसंज्ञकम् नास्ति, तर्हि अनेन सूत्रेण अच्-प्रत्ययः न भवति । यथा - परमश्च असौ अध्वा सः परमाध्वा ।
स्मर्तव्यम् - अत्र सर्वसमासान्ताः प्रत्ययाः समाप्यन्ते । अस्मात् अग्रे विशिष्टसमासेषु समासान्तप्रत्ययविधानम् कृतमस्ति ।
index: 5.4.85 sutra: उपसर्गादध्वनः
उपसर्गादध्वनः - उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः ।
index: 5.4.85 sutra: उपसर्गादध्वनः
अध्वशब्दस्याक्रियावचनत्वातं प्रत्युपसर्गसंज्ञाभावादुप सर्गग्रहणं प्राद्यौपलक्षणम् ॥